तात्पर्यम्
तात्पर्यम्
‘इमे देहा’ इति विशेषणान्नित्यश्चिदानन्दात्मकः स्वरूपभूतो देहो मुक्तानामपि विद्यत इति ज्ञायते ।
प्रकाशिका
संसारिदेहवैलक्षण्यं मुक्तदेहानां ‘‘तस्मै स्वलोकं भगवान् सभाजितं सन्दर्शयामास परं न यत्पदम् ।’’ इत्यादिपुराणवचनेन ‘‘चिदानन्दे’’त्यादिश्रुत्या च सिद्धमित्याह ।। इमे देहा इतीति ।।
न्यायदीपिका
जीवस्य देहहान्यादिसद्भावादीश्वरदेहस्य नित्यत्वादीश्वरस्य जीवादतिशय इति यद्व्याख्यानं न तद्गीताभिमतं भवितुमर्हति । देहस्यानित्यत्वनियमादित्यतो गीतायामेव इम इति विशेषणान्मुक्तदेहस्यापि नित्यत्वमनुज्ञायते । किमु हरेः । अन्यथा तद्विशेषणवैयर्थ्यात् । अतो युक्तमेव व्याख्यानमिति भावेनाह ।। इम इति ।। ननु मुक्तदेहस्यापि कथं नित्यत्वम् । देहस्यानित्यत्वनियमादित्यत आह ।। चिदिति ।। जडशरीरत्वमेवानित्यत्वे प्रयोजकम् । तच्च मुक्तदेहस्य चिदानन्दात्मकत्वेन ततो व्यावर्तमानमनित्यत्वमपि व्यावर्तयतीति भावः । चिदानन्दात्मकत्वं देहस्य कथमित्यत आह ।। स्वरूपेति ।। स्वरूपं च चिदानन्दात्मकमिति भावः । मुक्तानां देह एव नास्ति । अशरीरं वा वसन्तमित्यादेरित्यतोवाह ।। चिदिति ।। जडदेहाभावपरा श्रुतिरिति भावः । भिन्नदेहाभावपराचेति भावेनाह ।। स्वरूपेति ।।
किरणावली
जडशरीरत्वमेवानित्यत्वे प्रयोजकमिति ।। अनेन मुक्तदेहोऽनित्यो देहत्वादित्यनुमाने जडशरीरत्वमुपाधिरित्युक्तं भवति । ननु जडत्वमेवोपाधिरिति वक्तव्यम् । यत्रानित्यत्वं तत्र जडत्वमिति व्याप्तिसद्भावात् । यत्रानित्यत्वं तत्र जडशरीरत्वमिति व्याप्त्यभावाच्च । न च देहत्वे सत्यनित्यत्वं यत्रेति पक्षधर्मावच्छिन्नसाध्यव्यापकत्वं वाच्यम् । जडत्वस्यैवोपाधित्वोपपत्तौ क्लिष्टकल्पनायोगादिति चेन्न । समव्याप्त्यभिप्रायेण जडशरीरत्वस्योपाधित्वेनोक्तत्वात् । देहस्य स्वरूपत्वे चिदानन्दात्मकत्वं कुतः । तमोगतदेहेषु आनन्दाद्यात्मकत्वाभावादित्यत आह ।। स्वरूपं चेति ।। सज्जीवस्वरूपमित्यर्थः । तथा च सूत्रम् । तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवदिति । इत्यादेरित्यादिपदेन देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनामित्यादेर्ग्रहणम् ।
भावप्रकाशः
जडशरीरत्वमेवानित्यत्वे प्रयोजकमिति ।। अनेन देहोऽनित्यो देहत्वादित्यनुमानेन जडशरीरत्वमुपाधिरित्युक्तं भवति । अत्र यद्यपि जडत्वमुपाधिरिति वक्तुं शक्यम् ।। यत्रानित्यत्वं तत्र जडत्वमिति व्याप्तिसद्भावात् तथापि । समव्याप्तिसिध्यर्थं जडशरीरत्वमित्युक्तमिति भावः ।। साधनव्यापकत्वमाह । तच्च मुक्तदेहस्येति । स्वरूपं च चिदानन्दात्मकमिति ।।
बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् ।।
स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः ।
इति प्रमाणादिति भावः ।। इत्यादेरित्यादिपदेन न प्रियाप्रिये स्पृशतो याभ्यां ह्येष उन्मथ्यते इति श्रुतिशेषो ग्राह्यः ।
वाक्यविवेकः
ततो व्यावर्तमानमिति । यस्मात् मुक्तदेहात् जडशरीरत्वं व्यावर्तते । तस्यैव अनित्यत्वं व्यावर्तते इति । तस्मात् चितावेति श्रुत्युक्तात् मुक्तस्याचिद्देहात् न व्यावर्तते तस्यानित्यत्त्वमिति भावः । जडदेहाभावपरेति ।। संसारिदेहसदृशजडदेहाभावपरा श्रुतिरिति भावः ।। एतेन जडदेहस्यापि चितावेति प्रमाणसिद्धत्वात् तदभावपरा श्रुतिरित्ययुक्तमिति परास्तम् । भिन्नदेहेति संसारदेहसदृशभिन्नदेहाभावपरेत्यर्थः । एतेन मुक्तानामचिद्देहस्य भिन्नत्वात् । भिन्नदेहाभावपरा श्रुतिरिति कथनमयुक्तमिति दूषणं परास्तम् ।