गीता
अध्यक्षः अधिपतिः
गीता
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ।। १० ।।
तात्पर्यम्
‘अध्यक्षोऽधिपतिः प्रोक्तो यदक्षाण्यस्य चोपरि’ इति शब्दनिर्णये ।। १० ।।
प्रकाशिका
‘मयाध्यक्षेणे’त्यत्राध्यक्षपदार्थमाह ।। अध्यक्षोधिपतिरिति ।। अधिविश्वमधिकृत्याक्षाणि चक्षूंषि वर्तन्ते यस्यासावध्यक्ष इत्यर्थः ।। १० ।।
न्यायदीपिका
जगत्प्रकृतिवशंत्वमुदासीनश्चेत्तर्हि प्रकृतेरेव स्वातन्त्र्यं प्राप्तमित्यत उच्यते ।। मयेति ।। तत्राप्यध्यक्षपदेनौदासीन्यमेवोच्यत इत्यन्यथाप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे ।। अध्यक्ष इति ।। एतदधिकृत्याक्षाणि यस्यासावध्यक्ष इत्यर्थः ।। १० ।।
किरणावली
जगत्प्रकृतिवशं त्वमुदासीनश्चेदिति ।।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ।
इत्युक्तरीत्येति भावः ।। अध्यक्षपदेनेति ।। अहं केवलं तटस्थो द्रष्टैव प्रकृतिरेव सचराचरं सूयत इत्यौदासीन्यमेवोच्यत इत्यर्थः । अस्य जगतः उपर्यक्षाणि यस्येति विग्रहे उपर्यक्ष इति स्यान्न त्वध्यक्ष इति । विग्रहसमासयोरैकरूप्यावश्यंभावादित्यतोऽध्यक्षपदस्य विग्रहं दर्शयति ।। एतदधिकृत्येति ।। एतज्जगत् । उक्तं च पद्मनाभतीर्थीये । अधिविश्वमधिकृत्याक्षाणि चक्षूंषि वर्तते यस्य सोऽध्यक्ष इति । अस्य जगतः उपर्यक्षाणीति वचनं तु एतदधिकृत्येत्यस्य तात्पर्यकथनमिति भावः । अनुग्राह्यमधिकृत्य कृपापूर्वकाण्यक्षाणि यस्येत्यनेनाधिपतित्वं लब्धमिति ज्ञेयम् ।। ६१० ।।
भावदीपः
अस्य चोपरीत्यनेन लब्धं विग्रहं दर्शयति ।। एतदधिकृत्येति ।। एतत् विश्वमित्यर्थः। यदक्षाणीत्यस्यार्थोऽक्षाणि यस्यासाविति ।। अक्षाणि चक्षूंषि ।। १० ।।
भावप्रकाशः
अस्याध्यक्षस्योपरीति प्रतीतिनिरासाय व्याचष्टे । एतदिति ।। प्रकृत्यादिजगदित्यर्थः ।। १० ।।
वाक्यविवेकः
मूले यदक्षाणि अस्य चोपरीति ।। यत् यस्मात् परमेश्वरस्याक्षाणि अस्य पाल्यस्य जगत उपरि वर्तते तस्मात् असौ प्रभुरध्यक्ष इति प्रोक्त इत्यर्थः ।। एतदधिकृत्येति ।। एतत् पाल्यमधिकृत्य श्रीरामवेदव्यासस्याक्षाणि वर्तन्ते पाल्यं यः सम्यगीक्षत इति यावत् सोध्यक्षशब्दवाच्य इत्यर्थः ।। १० ।।