गीता

सात्विकराजसतामसानां सुखम्

गीता

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।

तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ।। ३७ ।।

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।

परिणामे विषमिव तत्सुखं राजसं स्मृतम् ।। ३८ ।।

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।

निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ।। ३९ ।।

तात्पर्यम्

‘विष्णोः प्रसादात् स्वमनःप्रसादात् सात्त्विकं सुखम्’  इति पाद्मे

।। ३७३९ ।।

प्रकाशिका

‘‘तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजमि’’त्यस्यार्थमाह विष्णोरिति

।। ३७३९ ।।

न्यायदीपिका

सुखमिति प्रतिज्ञातमुच्यते ।। अभ्यासादिति । तत्रात्मबुद्धिप्रसादजमित्यस्य स्वमनःप्रसादजमित्यन्यथाप्रतीतिनिरासाय स्मृत्यैवार्थमाह ।। विष्णोरिति ।। जातमिति शेषः । मनःप्रसादो नाम मनसः स्वतोऽपि प्रायो विषयागतिः ।। ३७३९ ।।

किरणावली

सुखमिति प्रतिज्ञातमिति ।। ज्ञानकर्मफलतया सुखे प्रसक्ते सुखं त्विदानीमिति प्रतिज्ञातमभ्यासादित्यादि सार्धश्लोकत्रयेणोच्यत इत्यर्थः ।। स्वमनःप्रसादजमित्यन्यथाप्रतीतीति ।। स्वमनःप्रसादमात्रेण जातमित्यन्यथाप्रतीति निरासायेत्यर्थः । पञ्चम्यन्वयार्थमाह ।। जातमिति शेष इति ।। एतेनात्मनः परमात्मनस्तत्प्रसादादात्मनः स्वस्य बुद्धेर्मनसो यः प्रसादः तस्माज्जातमिति व्याख्यातं भवति । ननु प्रसादो नामैनमनुग्रहीष्य इतीच्छाविशेषस्तत्कथं स्वमनस इत्यतोद्वितीयाध्यायभाष्योक्तं प्रसादशब्दार्थमाह ।। मनःप्रसादो नामेति ।। स्वतोपि स्वप्रयत्नं विनापि विषयान्प्रत्यप्रवृत्तिरित्यर्थः । कथं प्रयत्नं विना मनसोविषयान्प्रत्यप्रवृत्तिः प्रत्याहारस्यापेक्षितत्वादित्यत उक्तं प्राय इति । अभ्यासकाले निग्रहापेक्षायामपि प्रायो विषयान्प्रत्य प्रवृत्तिः प्रसाद इत्यर्थः ।। ३७३९ ।।