श्रीभगवानुवाच
विष्णुमुपासतां अक्लेशेन मुक्तिः
श्रीभगवानुवाच—
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ।। २ ।।
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ।। ३ ।।
तात्पर्यम्
‘न चलेत् स्वात् पदाद् यस्मादचला श्रीस्ततो मता’ इत्याग्नेये ।
‘सूक्ष्मत्वादप्रसिद्धत्वाद् गुणबाहुल्यतस्तथा ।
अनिदर्शेयौ तथाऽव्यक्तावचिन्त्यौ श्रीश्च माधवः’ इति नारदीये ।
‘अविष्णुज्ञैरतद्भक्तैस्तदुपासाविवर्जितैः ।
शपेदुपासिताऽप्येषा श्रीस्तांस्तद्धरितत्त्ववित् ।
तद्भक्तस्तमुपास्यैव श्रियं ध्यायीत नित्यदा ।
तेन तुष्टा तु साऽच्छिद्रं दद्याद् विष्णोरुपासनम् ।
ततस्तद्दर्शनान्मुक्तिं यात्यसौ नात्र संशयः ।
तथाऽपि सर्वपरमां सर्वदोषविवर्जिताम् ।
ज्ञात्वा श्रियं तत्परमं तत्पतिं पुरुषोत्तमम् ।
विज्ञायोपासते नित्यं ते हि युक्ततमा मताः ।
यतः क्लेशोऽधिकस्तेषां पृथक् श्रियमुपासताम् ।
विष्णुना सहिता ध्याता साऽपि तुष्टिं परां व्रजेत् ।
अन्यथा तु पुनर्विष्णोः श्रीपतित्वेन चिन्तनम् ।
अच्छिद्रमेव कर्तव्यमिति मुक्तिश्चिराद् भवेत् ।
तस्मादक्लेशतो मुक्तिः क्षिप्रं विष्णुमुपासताम्’ इति परमश्रुतिः ।
युक्ततमाः साधकतमाः ।। २,३ ।।
प्रकाशिका
‘‘ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।। सर्वत्रगमचिन्त्यञ्च कूटस्थमचलं ध्रुवमि’’त्यत्राचलाऽनिर्देश्याऽव्यक्ताऽचिन्त्यदिशब्दान् देव्याङ्घटयति ।। न चलेदित्यादिना ।। ‘‘ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ।। क्लेशोऽधिकतरस्तेषामव्याक्तासक्तचेतसाम्’’ ।। इत्यव्यक्तोपासकानां क्लेशेन विष्णुप्राप्तिरिति यदुक्तं तद्विष्णुभक्तानामेव । नाविष्णुभक्तानामित्येतमर्थं श्रुत्या दर्शयति । अविष्णुज्ञैरिति ।। २,३ ।।
न्यायदीपिका
ननु चेष्टावत्याः श्रियोऽचलत्वमचलं ध्रुवमिति कथमुच्यत इत्यतः स्मृत्यैव तद्घटयति ।। नेति ।। अनिर्देश्यमव्यक्तमचिंत्यं पर्युपासत इति व्याहतम् । अनिर्देश्याव्यक्ताचिन्त्यस्योपासनायोगादित्यतोऽनिर्देश्यत्वादिकमुपास्यत्वाविरोधेन स्मृत्यैव घटयति ।। सूक्ष्मत्वादिति ।।
मदुपासका एवोत्तमा इत्युच्यते ।। मयीति ।। त्वदुपासकानामिवाव्यक्तोपासकानामपि मोक्षसद्भावात्कथं तेषामुत्तमत्वमित्यतोऽव्यक्तोपासकानां मोक्षमङ्गीकृत्य सहेतुकं स्वोपासकानामुत्तमत्वमुच्यते ।। ये त्वक्षरमिति ।। तत्रोच्यमाना भगवत्प्राप्तिर्न केवलशाक्तेयानामिति भावेन मयीत्यादिकं श्रुत्यैव व्याचष्टे ।। अविष्णुज्ञैरिति ।। अत्र ध्यायीत नित्यदेत्यंतेन परीत्युपसर्गाभिप्राय उक्तो भवति । तेन तुष्टेत्यनेन ते प्राप्नुवन्ति मामेवेत्यस्याभिप्राय उक्तो भवति । एवमव्यक्तोपासनस्य मोक्षसाधनत्वेऽपि न तदेवोत्तमं मन्तव्यमिति भावेनाह ।। तथापीति ।। उपासते श्रिया सहेति शेषः । अनेन मय्यावेश्येत्युक्तार्थं भवति । अव्यक्तोपासकानामपि मोक्षसद्भावे कथं भगवदुपासकानामुत्तमत्वमित्यत आह ।। यत इति ।। अनेन क्लेश इति व्याख्यातं भवति ।। अनेनोक्तप्रकारेण पर्युपासनमिन्द्रियग्रामातिनियमनं सर्वत्र समबुद्धित्वं सर्वभूतहिते रतत्वादिसुष्ट्वाचारमन्तरेणाव्यक्तप्रसादाभावात्परमश्रद्धामात्रयुक्तानां सुष्ट्वाचारादेरभावे(रौन्येऽ)ऽपि भगवत्प्रसादसम्भवात्क्लेशाधिक्यं ज्ञातव्यम् । इतश्च भगवदुपासनमेवोत्तममित्याह ।। विष्णुनेति ।। श्रिया सह भगवदुपासने द्वयोरपि परमप्रसादसम्भवेनाचिरान्मोक्षो भवति । पृथगव्यक्तोपासनपक्षेतु किञ्चिद्भगवदुपासनं कृत्वा बहुकालं पृथक् श्रियमुपास्य पुनः श्रिया सह निरन्तरं भगवदुपासनं कर्तव्यम् । ततो मुक्तिरिति चिरेणैव भवतीत्यतोऽपि भगवदुपासनमेवाधिकमिति भावः । अनेन येतु सर्वाणीत्येतदुक्तार्थं भवति । हेतुद्वयेनोक्तं विष्णूपासनस्याधिक्यमुपसंहरति ।। तस्मादिति ।। तेषामाधिक्यं चेति शेषः । ये नित्ययुक्तास्ते युक्ततमा इत्ययुक्तम् । एकार्थत्वादित्यत आह ।। युक्तेति ।। नित्ययुक्तपदं नित्योद्युक्तत्वार्थमिति च द्रष्टव्यम् ।। २,३ ।।
किरणावली
पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य ये त्वक्षरमिति श्लोके पदचतुष्टयं व्याख्याय प्रश्नोत्तररूपं मयीत्यादिगीतावाक्यमादितो व्याकर्तुमविष्णुज्ञैरित्यादि प्रवृत्तम् । तद्व्याख्यात्वमूलप्रदर्शनपूर्वकं अवतारयिष्यन् मय्यावेश्येति श्लोकं ये त्वक्षरमित्यादिकं चावतारयति ।। मदुपासका एवेत्यादिना ।। सहेतुकमिति ।। अतिक्लेशाभावाविलम्बरूपहेतुद्वयसाहित्येनेत्यर्थः । केवलशाक्तेयानामिति ।। भगवत्परिवारतामृते स्वतन्त्रत्वेन शक्तिशब्दितश्रीदेव्युपासकाः केवलशाक्तेयास्तेषामित्यर्थः । तद्धरितत्वविदिति मूले तदिति तस्मादित्यर्थः ।। परीत्युपसर्गाभिप्राय इति ।। सर्वस्वतन्त्रत्वेन भगवदुपास्तिपूर्वकं तत्परिवारतया देव्युपासनमेव पर्युपासनमिति भावः ।। ते प्राप्नुवन्ति मामेवेत्यस्येति ।। येऽव्यक्तं पर्युपासते ते तत्प्रसादेन भगवदुपास्तिमपरोक्षज्ञानं च लब्ध्वा मामेव प्राप्नुवन्तीति तात्पर्यमुक्तं भवतीत्यर्थः । विष्णुना सहिता ध्याता साऽपि तुष्टिं परां व्रजेदिति वक्ष्यमाणत्वात्तदनुसारेणाह ।। श्रिया सहेति शेष इति ।। क्लेशाधिक्ये भाष्योक्तानेव हेतूनाह ।। उक्तप्रकारेणेत्यादिना ।। अविष्णुज्ञैरित्युक्तप्रकारेणेत्यर्थः । समित्युपसर्गेणेन्द्रियग्रामातिनियमनं क्लेशोऽधिकतर इति तरपाऽतिसुष्ट्वाचारश्च लभ्यत इति भावः । तथा च भाष्ये । तदेतत्सर्वं पर्युपासते । सन्नियम्याधिकतर इति परिसन्तरप्शब्दैः प्रतीयत इति ।। इतश्च भगवदुपासनमेवेति ।। मोक्षस्याविलम्बेन प्राप्तिलक्षणयुक्तितश्चेत्यर्थः । विष्णुना सहितेत्यादेर्विष्णुना सहिता ध्याता न केवलं विष्णुः सापि परां तुष्टिं परमप्रसादं व्रजेत् । तस्माच्छ्रिया सहितं विष्णुमुपासतां क्षिप्रं मुक्तिर्भवत्यन्यथा पृथगुपासनापक्षे तु किञ्चिद्विष्णोश्चिन्तनं कर्तव्यम् । तुशब्दोऽप्यर्थे च । श्रियश्चाच्छिद्रं यथा भवति तथा बहुकालं चिन्तनं कर्तव्यम् । पुनश्च श्रीपतित्वेन श्रिया सह तत्पतित्वेन विष्णोश्चिन्तनमच्छिद्रं निरन्तरं कर्तव्यम् । तस्मादुपासनान्मुक्तिरिति चिरादेव भवेदिति योजनामभिप्रेत्याह ।। श्रिया सहेत्यादिना ।। अनेनेति ।। मत्पराः अहमेव सर्वस्मात्पर इति ज्ञानं येषान्ते तथा । ये त्वधिकारिविशेषा मयि सर्वाणि कर्माणि समर्प्यानन्येनान्याविषयकेण योगेन ध्यानोपायेन मां ध्यायन्तः प्रथममेव मां ध्यायन्तस्तां च सहैवोपासते तेषां मय्यावेशितचेतसां श्रीपतित्वेन तया सह सम्यगावेशितचेतसां न चिरादचिरान्मृत्युसंसारसागरात्समुद्धर्ता भवामीत्युक्तार्थं भवतीत्यर्थः ।।
हेतुद्वयेनेति ।। ओशाविलम्बलक्षणहेतुद्वयेनोक्तमित्यर्थः । विष्णूपासनस्याधिक्यलक्षणं साध्यमत्र न प्रतीयत इत्यत अध्याहरति ।। तेषामिति ।। यस्माद्विष्णुमुपासतामक्लेशतः क्षिप्रं च मुक्तिस्तस्मात्तेषामाधिक्यमिति योजनेति भावः । विष्णूपासकानामाधिक्ये उपासनाधिक्यं प्राप्तमेवेति ज्ञेयम् ।। एकार्थत्वादिति ।। नित्ययुक्ता इत्यस्य नित्यं नैरन्तर्येण योगयुक्ता इत्यर्थः । युक्ततमा इत्यस्यापि अतिशेयेनयोगयुक्ता युक्ततमा इत्यर्थः । अतिशयश्च नैरन्तर्यलक्षण इत्यैकार्थ्यमिति भावः । मूले युक्ततमा इत्यस्य युक्तानां योगशब्दितमोक्षसाधनानुष्ठानवतां मध्ये श्रेष्ठा इत्यभिप्रेत्य साधकतमा इति व्याख्यातत्वेन नित्ययुक्ता इत्यस्माद्भिन्नार्थत्वेऽपि नित्ययुक्ता उपासत इत्यनयोः पौनरुक्तयम् । नित्यं ध्यानयोगयुक्ता इत्यनेनैवोपासनाकर्तृत्वस्य प्राप्तत्वादित्यत आह ।। नित्ययुक्तपदमिति ।। किंत्वन्यस्य भगवदधीनत्वं सत्तादौ परिवारत्वमावरणदेवतात्वमिति विवेकः । उपलक्षणमेतत् । भगवदधीनत्वेनापि केवलदेव्युपासनं विना प्रथमत एव भगवति प्राप्तो ध्यानमार्गो नन्ययोग इति च द्रष्टव्यम् । स्पष्टमेतद्भाष्यटीकयोः ।। २,३ ।।
भावप्रकाशः
सहेतुकमिति ।। अतिक्लेशाभावाविलम्बरूपहेतुद्वयसाहित्येनेत्यर्थः ।। केवलशाक्तेयानामिति । स्वातन्त्र्येण शक्तिपदवाच्यलक्ष्म्युपासकानामित्यर्थः । उत्तरवाक्ये पृथक् श्रियमुपासतां क्लेशाधिक्यकथनादत्र विशेषणत्वेन तदुपासनस्यावश्यकत्वं ज्ञायत इति भावेनाह ।। श्रिया सहेति शेष इति । अन्यथोत्तरवाक्ये श्रियमुपासतामित्येवावक्ष्यदिति भावः ।। क्लेशाधिक्ये भाष्योक्तानेकहेतूनाह । उक्तप्रकारेणेत्यादिना । अविष्णुज्ञैरित्युक्तप्रकारेणेत्यर्थः ।। सर्वत्र समबुद्धित्वमिति ।। सुहृन्मित्रेत्यादिषष्टोक्तप्रकारेण सर्वत्र समबुद्धित्वमित्यर्थः ।। हेतुद्वयेनोक्तमिति । यतः क्लेशोऽधिकः विष्णुना सहितेति वाक्यद्वयेऽक्लेशतः क्षिप्रमिति हेतुद्वयेनोक्तमित्यर्थः ।। नित्ययुक्तपदस्यापि साधकतमा इत्यर्थकत्वेन पुनरुक्तित्वतादवस्थ्यं स्यादित्यतस्तस्यार्थान्तरमाह । नित्ययुक्तपदमिति ।। नित्यमुद्योगवन्तो ये मामुपासते इति साधकानां मध्ये श्रेष्टा इत्युच्यत इति नैकार्थत्वमिति भावः ।। २,३ ।।
वाक्यविवेक
ननु श्रिय उपासानात् मोक्षाशङ्कया पृच्छतीति वक्तव्यं नत्वव्यक्तोपासनादिति वक्तव्यमित्याशङ्काऽपि परिहृतेत्याह ।। एतेनेति क्लेशाधिक्यं ज्ञातव्यमिति । सुष्ट्वाचाराद्यभावे कुपिता श्रीः न प्रसादं करोति भगवांस्तु सुष्ट्वाचारादेरावश्यकत्वेऽपि तदभावप्रयुक्तापराधं सोढ्वा प्रसन्नो भवतीति भावः ।। एकार्थत्वादिति ।। तमप्नित्यशब्दार्थवाचकः ।। अन्यत्समानमिति नित्ययुक्ताः युक्ततमा इति पदयोरेकार्थत्वमिति भावः ।। २३ ।।