श्रीभगवानुवाच

कालशब्दार्थः

श्रीभगवानुवाच—

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो

  लोकान् समाहर्तुमिह प्रवृत्तः ।

ऋतेऽपि त्वा न भविष्यन्ति सर्वे

  येऽवस्थिताः प्रत्यनीकेषु योधाः ।। ३२ ।।

तस्मात्त्वमुत्तिष्ठ यशो लभस्व

  जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।

मयैवैते निहताः पूर्वमेव

  निमित्तमात्रं भव सव्यसाचिन् ।। ३३ ।।

तात्पर्यम्

कालः कलितसम्पूर्णसद्गुणत्वाज्जनार्दनः ।

संहारात् सर्ववित्त्वाद् वा सर्वविद्रावणेन वा’ इति महावराहे ।

अपिशब्देन भ्रात्रादीनप्यृते ।। ३२,३३ ।।

प्रकाशिका

‘‘ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधा’’ इत्यत्र अपिशब्दः समुच्चयार्थः ।। तेनायमर्थो भवति ।। अर्जुनं तद्भ्रातॄन् अश्वत्थाम–कृतवर्म–कृपांश्च विना कुरुपाण्डवसैन्यस्था योधाः सर्वे मरिष्यन्ति इति ।। तदाह ।। अपिशब्देनेति ।। ३२३३ ।।

न्यायदीपिका

परिहारे गुणादेरनुक्तत्वान्नायं तद्विषय इत्यतः कालशब्द एव गुणादिवाचीति भावेन स्मृत्यैव तं व्याचष्टे ।। काल इति ।। कलिताः स्वसम्बद्धाः । कलबन्धने कलसंहरणे कलज्ञाने कलविद्रावण इति पठन्ति । उग्ररूपः किमर्थमिति प्रश्नपरिहारायोक्तं लोकक्षयकृदित्यादि ।। तदुपपाद्यते ऋतेऽपीति । तत्र युधिष्ठिरादीनामप्युर्वरितत्वात्कथं त्वामृते सर्वे मरिष्यन्तीत्युच्यत इत्यत आह ।। अपीति ।। नात्रार्जुनमेकमृते सर्वे मरिष्यन्तीत्युच्यते । किंत्वर्जुनभ्रातॄनश्वत्थामादींश्च विना । अपिपदेन तेषां समुच्चितत्वादिति भावः ।। ३२३३ ।।

किरणावली

प्रकारान्तरेण कालशब्दो निरुच्यते संहारादिति । कलिताः स्वसम्बद्धा इति स्वव्याख्याने संहारादित्यादौ च मूलभूतं धातुव्याख्यानं पठति ।। कल बन्धन इति ।। अत्र कलितसंपूर्णसद्गुणत्वादिप्रवृत्तिनिमित्तैः कालः कालनामेति कालनामकरूपविशेषस्याप्युक्तत्वाट्टीकायामादिपदेन नामरूपग्रहणं युक्तं गुणकर्मणोस्तु नामप्रवृत्तिनिमित्तत्वमिति ध्येयम् । स्पष्टं चैतद्भाष्ये । प्रसिद्धश्च स शब्दो भगवतीति प्रतिज्ञाय नियतं कालपाशेनेति मोक्षधर्मवचनस्य विष्णौ चाधीश्वरे नित्यं धारयन्कालविग्रह इति भागवतवाक्यस्य चोदाहरणात् ।। भ्रातॄनश्वत्थामादीनिति ।। पार्थसेनायां भातृन् । परसेनायामश्वत्थामकृतवर्मयुयुत्सूनित्यर्थः । गीतायां प्रत्यनीकेष्वित्यस्य प्रत्यनीकत्वं तु परस्परतयेति भाष्य एवार्थ उक्तः ।। ३२ ।।

भावदीपः

युधिष्ठिरादीनामिति ।। पञ्चानां पाण्डवानां अश्वत्थामकृतवर्मकृपाणां चेत्यर्थः

।। २२३३ ।।

भावप्रकाशः

अश्वत्थामादींश्च इत्यत्रादिपदेन कृपकृतवर्मसात्यकियुयुत्सूनां ग्रहणम्

।। ३२३३ ।।