तात्पर्यम्

तात्पर्यम्

चेतनाचेतनं त्वेतत् सर्वं क्षेत्रमितीरितम् ।

क्षितिरेतद् भगवतो यदतः क्षेत्रमीर्यते ।

क्षिणोति त्राति चैवैतत् सोऽतो वा क्षेत्रमुच्यते ।

क्षितिं कृत्वा त्राति चैतदतो वा क्षेत्रमीरितम् ।

एतस्मात् क्षीणमेतेन त्रातमित्यथवा पुनः ।

इच्छाद्यानां क्षेत्रनाम्नामपि नामान्तरं स्मृतम् ।

विशेषा इति यस्मात् ते विशेषविकृतिस्थिताः ।

विशेषात् क्रियते यस्माद् विकारं कार्यमन्तगम् ।

विगतं करणं वाऽत्र पुनर्नाशमृते यतः ।

तत्सम्बन्धाद् विकाराख्या इच्छाद्या अभिमानिनः ।

एतत् सर्वं सर्वदैव निर्दोषणैव चक्षुषा ।

प्रेरयन्नेव जानाति यत् क्षेत्रज्ञो हरिस्ततः’ इति च ।