तात्पर्यम्
अचेतनेषु अयावद्द्रव्यभाविविशेषस्य भेदाभेदौ
तात्पर्यम्
नैकत्वं वाऽपि नानात्वं नियमादस्त्यचेतने ।
भेदाभेदावनुभावादतस्तत्रान्यथागतेः ।
एको मदन्यतोऽन्यश्चेत्येवमेव व्यवस्थितौ ।
भेदाभेदौ चेतनेषु तस्मान्नैकप्रकारता ।
एकमित्येव यज्खातं बहुत्वेनैव तत् पुनः ।
पटाद्यं ज्ञायते यस्माद् भेदाभेदौ कुतो न तत् ।
तन्तुभ्योऽन्यः पटः साक्षात् कस्य दृष्टिपथं गतः ।
अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेत् ।
प्रकाशिका
चेतनेष्वेव स्वगुणादिभिर्भेदाभेदाभावेनैकप्रकारत्वं नाचेतनेषु तत्र भेदाभेदयोरनुभवसिद्धत्वात् । अन्यथा गत्यभावादित्याह ।। नैकत्वमिति ।। गत्यन्तराभावेन एतदेव प्रतिपादयति ।। एकमित्यादिना ।। तन्तूनां परस्परभेदेन पटरूपेणाभेदात् तन्तुभ्योऽन्यस्य पटस्यादर्शनात् पटोत्पत्तेः प्राक्केवलतन्तूनां सद्भावात् तन्तुपटयोर्भेदाभेदौ युक्तौ ।।
न्यायदीपिका
अयावद्द्रव्यभाविविशेषस्य यौ भेदाभेदावुक्तौ तौ समर्थयति ।। नैकत्वमिति ।। एकत्वं नानात्वं च नास्तीत्युक्ते अनिर्वचनीयत्वशङ्का स्यात्तन्निरासाय नियमादित्युक्तम् । अत एकैकस्याभावादिति भावः । अनुभवादन्यथागत्यभावाच्च नैकत्वम् । नापि नानात्वमिति सम्बन्धः । ननु चेतनेऽपि भेदाभेदसद्भावेन चेतनाचेतनयोरेकप्रकारत्वादचेतन इति किं विशिष्याभिधीयत इत्यत आह ।। एक इति ।। अहं मदभिन्नो घटादेर्भिन्न इति चेतने भिन्नप्रतियोगिकावेव भेदाभेदावनुभूयेते । अचेतने त्वेकप्रतियोगिकावेवातो न चेतनाचेतनयोरेकप्रकारतेत्यर्थः । कथमचेतने भेदाभेदावनुभवसिद्धौ इत्यतस्तंत्वाद्यवयवेभ्यः पटाद्यवयविनो भेदाभेदसद्भावेऽनुभवकथनेन तंत्वादीनां पटत्वादिविशेषैर्भेदाभेदसद्भावेऽनुभवः प्रदर्शित एव भवतीति मन्वान आह ।। एकमिति ।। तन्तूनां पटरूपेणैकत्वस्य परस्परं भेदस्य चानुभवादेकैकतन्तोः पटेन भेदाभेदावनुभूयेते । एकैकतन्तोः पटेनात्यन्ताभेदेऽन्योन्यभेदानुभवायोगादिति भावः । गत्यन्तराभावं चाह ।। तन्तुभ्य इति ।। यद्येकैकतन्तोः पटोऽत्यन्तभिन्नस्तर्ह्येकैकतन्तुभ्यः पटः पृथग्दृश्येत । न चैतदस्ति । नाप्येकैकतन्तुना पटोऽत्यन्ताभिन्नः । यथा स्वसंस्थानविशेषेणावस्थितैकैकतन्तुभावे पटाभावानुपपत्तेरिति भावः । सर्वावयवसमुदायस्य स्वयमबहुत्वात्तद्भावेऽवयव्य भावाभावात्संस्थानविशेषेणावस्थिता नामेवावयवत्वादवयविनाऽत्यन्ताभेदो द्रष्टव्यः ।
किरणावली
यौ भेदाभेदावुक्ताविति ।। द्रव्यात्मना स नित्योऽपि विशेषात्मैव जायत इति पूर्वं भेदाभेदावुक्तावित्यर्थः । स्पष्टं चैतट्टीकायाम् ।। समर्थयतीति ।। अनुदात्ते त्वनिबन्धनमात्मनेपदमनित्यमिति चक्षिङो ङित्करणेन ज्ञापितत्वात् समर्थयतीति साधु । अत एव प्रार्थयन्ति शयनोत्थितं प्रिया इति रघुवंशे प्रयोगः ।। अनिर्वचनीयत्वशङ्का स्यादिति ।। येन केनापि रूपेण निर्वचनायोग्यत्वमनिर्वचनीयत्वमिति मायावादिमतम् । तथा च भिन्नाभिन्नविलक्षणत्वेऽनिर्वचनीयत्वशङ्का स्यादिति भावः ।। नियमादित्युक्तमिति ।। अचेतने नियमेनैकत्वं नास्ति । केवलमभेदोमे नास्ति । नियमेन नानात्वमपि नास्ति । केवलो भेदोऽपि नास्तीत्यर्थाङ्गीकारान्नोक्तशङ्कावकाश इति भावः । अतोऽनुभवादिति सामानाधिकरण्यप्रतीति निरासायाह ।। अत एकैकस्याभावादिति ।। भेदमात्रस्याभेदमात्रस्य चेत्यर्थः । तथाचाचेतने नियमेन नैकत्वं नापि नानात्वमित्येकैकस्याभावात् भेदाभेदाविति मूलार्थ इति भावः ।
अनुभवात्तत्रान्यथागतेरित्यत्र गतेरिति पदच्छेदप्रतीतिं निवारयन् प्रकृतसङ्गततया व्याचष्टे ।। अनुभवादिति ।। भेदाभेदानुभवाद्भेदाभेदं विना गत्यन्तराभावाच्चेत्यर्थः । कथमचेतने भेदाभेदावनुभवसिद्धावित्युत्तरत्रैतदाक्षेपात् । अनुभवादित्यादेरयमर्थोऽवगम्यते । मूले अचेतने केवलमेकत्वं नास्ति । केवलं नानात्वं च नास्त्यतो भेदाभेदावित्युक्तम् । कथमचेतनेनैकत्वं नापि नानात्वं येन भेदाभेदावित्यत अनुभवात्तत्रान्यथागतेरित्ययमंशः प्रवृत्तः । अत्रागतेरिति पदच्छेदः । अगतेश्चेति चशब्दोऽध्याहार्यः । तत्रेत्यस्याचेतनेऽधिकरणे भेदाभेदविषये चेत्यर्थः । अगतेश्चेत्यतः परं नैकत्वं नापि नानात्वमिति सम्बन्धः । तथाच तत्राचेतने विषये तत्र भेदाभेदविषयेऽनुभवादन्यथा तौ विनाऽगतेर्गत्यभावाच्च । नैकत्वं नानात्वं नियमादस्ति अतो भेदाभेदाविति योजना द्रष्टव्या ।
इत्येवमेव भेदाभेदौ व्यवस्थितावित्यस्यार्थमाह ।। भिन्नप्रतियोगिकावेवेति ।। स्वप्रतियोगिकः अभेदः अन्यप्रतियोगिको भेद इति भिन्नप्रतियोगिकावित्यर्थः ।। अचेतने त्वेकप्रतियोगिकावेवेति ।। ननु पटः पटादभिन्नः । घटादेर्भिन्न इत्यचेतनेऽपि भिन्नप्रतियोगिकावनुभूयेते तत्कथमवधारणमिति चेन्न । एकप्रतियोगिकौ नानुभूयेते इति नेत्ययोगव्यवच्छेदकत्वाङ्गीकारात् । येन श्यामरूपेण चूतफलस्याभेदो दृष्टस्तेन च भेदस्याप्यध्यवसायादेकप्रतियोगिकयोरप्यनुभवादिति । वक्ष्यते चैतत् ।
नन्वचेतने विशेषविशेषिणोर्भेदानुभवे पृष्टे तन्तुपटयोस्तदनुभवोक्तिरसङ्गतेत्यतस्तां सङ्गमयति ।। तन्त्वाद्यवयवेभ्य इत्यादिना ।। पटत्वादिविशेषैरिति ।। पटत्वादेर्यावद्द्रव्यभावित्वेन पटाभिन्नत्वादिति भावः ।
एकमित्येवेति मूलस्य यत्पटाद्यं वर्तते तत्तेन रूपेणैकमिति यज्ज्ञातम् । अभिन्ना इति ज्ञाताः तन्तवस्तदेव त एव पुनः बहुत्वेन परस्परं भेदेन यस्माज्ज्ञायन्तेऽनुभूयन्ते । तत्तस्मादेकैकतन्तोः पटेन भेदाभेदौ कुतो नेत्यर्थमभिप्रेत्य व्याचष्टे ।। तन्तूनामित्यादिना ।। तन्तूनां परस्परं भेदानुभवेऽप्येकैकस्य तन्तोः पटेनाभेद एव किं न स्यादित्यत आह ।। एकैकतंतोरिति ।। गत्यन्तराभावं चेति ।। भेदाभेदौ विनेति पूरणीयम् । तन्तुभ्य इति बहुवचनबलात्समग्रेभ्यस्तंतुभ्य इत्यन्यथाप्रतीतिनिरासायाह ।। यद्यैकैकतन्तोरिति ।। एकैकतन्तोः पटेन भेदाभेदस्यानङ्गीकारे गत्यन्तराभावस्योच्यमानत्वात्तन्तुभ्य इत्यस्य पटावयवेभ्यः प्रत्येकं तन्तुभ्य इत्यर्थ इति भावः । साक्षान्मुख्यतोऽन्य इति सम्बन्धमुपेत्योक्तमत्यन्तभिन्न इति ।। न चैतदस्तीति ।। एकैकतन्तुभ्यःपटस्य पृथक् दर्शने सर्वैरपि तन्तुभिः पटोऽत्यन्तभिन्नः स्यात् । न चैकैकतन्तुपरित्यागे सर्वतन्तवो नाम सन्तीति सुधोक्तमुपपादनं द्रष्टव्यम् । ननु व्यतिषिक्तयावत्तन्तुभावे पटाभावो नास्त्येव । कथमाक्षेपः । एकैकतन्तुभावे इत्यर्थोऽप्ययुक्तः । अव्यतिषिक्तैकैकतन्तोरनवयवत्वेन तेनात्यन्ताभेदस्याविवक्षितत्वेनानवयवैकैकतन्तुभावे पटाभावस्यैवोपपन्नत्वेनाक्षेपानुपपत्तेरित्यतो व्याचष्टे ।। यथा स्वसंस्थानविशेषेणेति ।। यथास्वं स्वात्मानमनतिक्रम्य यथायोग्यमिति यावत् । संस्थानविशेषेणावस्थितैकैकतन्तुभावे पटाभावानुपपत्तेरित्यर्थः । सति च पटे एकैकत्र पटबुद्धिप्रसङ्ग इति भावः । अंशिनोंशैरभेदोऽयमंशेन तु भिदाभिदेत्यनुव्याख्यानं मनसि निधाय मूलानुक्तं स्वयमाह ।। सर्वावयवेति ।। यद्वा तन्तुभ्य इत्यर्धस्यैव सर्वतन्तुभ्यः तन्तुसमुदायादित्यर्थान्तरमुपेत्याह ।। सर्वावयवसमुदायस्येति ।। अबहुत्वादिति ।। बहुत्वे ह्येकत्वबुद्धिविषयेण पटेनाभेदो न स्यादिति भावः । तद्भावे समुदायभावे । ननु पटोत्पत्तेः पूर्वं तन्तुसमुदायभावेऽपि पटो नास्त्येव तत्कथमुच्यते तद्भावेऽवयव्यभावाभावादितीत्यत उक्तम् ।। संस्थानविशेषेणेति ।। नास्माभिस्तंतुसमुदायभावे पटाभावाभाव उक्तः । किंत्ववयवरूपेण विद्यमानतन्तुसमुदायभावे पटाभावो नास्तीत्युक्तम् । अवयवभूताश्च तन्तवो व्यतिषङ्गविशेषविशिष्टा एवातः केवलतन्तुसमुदायसद्भावे पटाभावोक्तिरयुक्तेति भावः । अथवेदं तन्तुभ्योऽन्य इति मूलवाक्यं व्यतिषङ्गविशेषरहितैर्यावत्तन्तुभिः पटस्य भेदाभेदप्रतिपादनाय प्रवृत्तम् । तथाहि । व्यतिषङ्गविशेषरहितेभ्यस्समग्रतन्तुभ्यो जनिष्यमाणः पटोऽन्यः कस्य दृष्टिपथङ्गतः । एतेषामेवोत्तरत्रातानवितानात्मना पटीभावस्याध्यक्षसिद्धत्वात् । अनन्यश्चेदत्यन्ताभिन्नश्चेत्प्राक् ऊर्ध्वं तन्तुभावे पटाभावः कुतो भवेदतो भेदाभेदाविति । अत एव सुधायां समयपादे इदमेव ब्रह्मतर्कवाक्यमंशिनोंशैरभेदोऽयमित्येतद्व्याख्यावसरे व्यतिषङ्गविशेषरहितसमग्रतन्तुभिः पटस्य भेदाभेदपरत्वेन व्याख्यातं बोध्यम् ।
भावदीपः
भेदाभेदावुक्ताविति ।। भेदाभेदौ च तौ नैव कर्तृभोक्तृविशेषण इत्युक्त्या कर्तृत्वादिविशेषणेतरविशेषणेऽर्थाद्भेदाभेदौ प्राप्तावित्युक्तावित्युक्तं, उक्तप्रायावित्यर्थः ।। समर्थयतीति ।। अनुदात्तेत्त्वनिबन्धनमात्मनेपदमनित्यमिति चक्षिङो ङित्करणेन ज्ञापनात्समर्थयतीति साधु । अत एव ‘प्रार्थयन्ति शयनोत्थितं प्रियाः’ इति रघुवंशे प्रयोगः । अत इत्यस्य व्याख्या एकैकस्येति । भेदमात्रस्याभेदमात्रस्य वेत्यर्थः ।
नन्वचेतने विशेषविशेषिणोर्भेदाभेदादावनुभवे पृष्टे तन्तुपटयोस्तदनुभवोक्तिरसङ्गतेत्यतस्तां सङ्गमयति ।। तन्त्वाद्यवयवेभ्य इत्यादिना ।। एकैकतन्तोरिति पञ्चमी । मूलानुक्तं स्वयमाह ।। सर्वावयवसमुदायस्येति ।। यद्वा तन्तुभ्योऽन्य इत्यर्धस्यैव संस्थानविशेषापन्नेभ्य इत्यर्थमुपेत्येयमुक्तिः ।। अबहुत्वादिति ।। बहुत्वे हि एकत्वबुद्धिविषयपटेनाभेदो न युक्तः स्यादिति भावः । तद्भावे समुदायभावे ।। अवयविनेति ।। संस्थानविशेषापन्नतन्तूनामवयवत्वेन व्यवहारभाजामेवावयवित्वादिति भावः ।
भावप्रकाशः
अनिर्वचनीयत्वशङ्का स्यादिति । यद्यपि–
प्रत्येकं सदसत्वाभ्यां विचारपदवीं नयेत् ।
गाहते तदनिर्वाच्यमाहुर्वेदान्तवादिनः ।
इत्यादिना परैः सत्वानधिकरणत्वमेवानिर्वचनीयलक्षणमुक्तम् ।। तथापि तस्य लक्षणान्तरोपलक्षणादेवमुक्तिरुपपन्नेति भावः ।। अतोऽनुभवादिति । सामानाधिकरण्यप्रतीतिनिरासायाह । अत एकैकस्येति । नैकत्वं नानात्वमिति साध्यद्वये क्रमेण हेतुद्वयमित्यन्यथाप्रतीतिनिरासायाह । अन्यथागत्यभावाच्चेति । भेदाभेदावनुभवादिति भेदाभेदानुभवात् भेदाभेदं विना गत्यन्तराभावाच्चेत्यर्थः । केचिदनुभवाद्भेदानुभवादित्यर्थः ।। अन्यथागत्यभावादिति भेदप्रतीतेः सामानाधिकरण्यस्य गत्यभावादिति व्याचक्षते ।। तन्न । कथमचेतने भेदाभेदानुभावासिद्धवित्याद्युत्तरग्रन्थविरोधात् ।। गत्यभावाच्चेति समुच्चायकचशब्दाध्याहारायोगाच्चेति ।। तन्तुभ्य इति बहुवचनबलाद्यावत्तन्तुभ्य इत्यतः प्रतीतिनिरासायाह । एकैकतन्तोरिति । मुख्यत्वार्थकस्य साक्षादित्यस्यान्य इत्यनेन सम्बन्धमङ्गीकृत्याह । अत्यन्तभिन्न इति । एकैकतन्तुभ्य इति । व्यतिषङ्गविशेषविशिष्टैकैकतन्तुभ्य इत्यर्थः ।। ननु व्यतिषङ्गविशेषविशिष्टैकैकतन्तुभावे यथाभावस्यैव भावात् कस्यानुपपत्तिरित्यत आह । स्वसंस्थानविशेषणेति । व्यतिषङ्गविरहितैकैकतन्तुभाव इत्यर्थः । यावत्तन्तूनां पटेऽभेदः सिद्धान्तेऽङ्गीकृतमुपपादयति ।। सर्वावयवेति ।
वाक्यविवेकः
एकैकस्याभावादिति । केवलभेदस्य केवलाभेदस्याभावादित्यर्थः ।। भिन्नप्रतियोगिकावेवेति । औत्सर्गिकोऽयं नियमः । द्वित्वादिप्रतियोगिकभेदाभेदयोर्भिन्नप्रतियोगिकत्वाभावादिति द्रष्टव्यम् ।