गीता

गीता

नासतो विद्यतेऽभावो नाभावो विद्यते सतः ।

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ।। १६ ।।

तात्पर्यम्

न च युद्धात्परलोकदुःखमिति शोकः । असत्कर्मणः सकाशाद्भावो नास्ति सत्कर्मणः सकाशादभावो नास्तीति नियतत्वात् ।

सद्भाववाचिनः शब्दाः सर्वे ते सुखवाचकाः ।

अभाववाचिनः शब्दाः सर्वे ते दुःखवाचकाः इति शब्दनिर्णये ।

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।

प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ।।

इति वक्ष्यमाणत्वात् । (गीता. १७२६)

असन्नेव स भवति असद्ब्रह्मेति वेद चेत्’ इत्यादेश्च ।

अन्तो निर्णयः ।

प्रकाशिका

पापमेवाश्रयेदस्मान् हत्वैतानाततायिन’ इत्यादिना यद्युद्धात्परलोकदुःखनिमित्तशोचनमर्जुनस्य तन्निवर्तनपरं नासत इत्येतं श्लोकं व्याचष्टे ।। असत्कर्मण इत्यादिना ।। अत्र सदसच्छब्दौ शुभाशुभपरौ । भावाभावशब्दौ सुखदुःखपरौ तथा वचनादित्यर्थः ।

न्यायदीपिका

ननु पापमेवाश्रयेदस्मानित्यादिना बन्धुहननादिरूपाद्युद्धात्परलोकदुःखं शोकहेतुतयोक्तम् । अतःशोक इत्यत आह ।। नचेति ।। कुतो नेत्यतो हेतुतया नासत इति श्लोकं व्याचष्टे ।। असदिति ।। असत्कर्मण इति दृष्टान्तः । नियतत्वादित्यनेनोत्तरार्ध तात्पर्य मुक्तं भवति । इदं च नारायणद्धिट् तदनुबन्धिनिग्रहरूपत्वात्सत्कर्मैवेतिभावः ।

ननु यथाऽसत्कर्मणा सुखं नास्त्येवं सत्कर्मणा दुःखं नास्तीति वक्तव्ये भावभावयोरभाववर्णनं क्वोपयुज्यत इत्यतो भावाभावशब्दयोरेव सुखदुःखवाचित्वे प्रमाणमाह ।। सद्भावेति ।। सदसच्छब्दयोः सदसत्कर्मवाचित्वं कुत इत्यत आह ।। सद्भाव इति ।। अश्रद्धयेत्युत्तरवाक्यं चात्रग्राह्यम् । भावाभावशब्दपर्याय सदसच्छब्दयोः सुखादौ प्रयोगं प्रमाणं च दर्शयति ।। असन्निति ।। ब्रह्म दुःखीति वेदचेत्तर्हि सवेत्ता दुःख्येव भवति । ब्रह्मसुखरूपमिति वेद चेत्तर्हि वेत्तारं सुखिनं विदुरित्यर्थः । अन्तशब्दस्यानेकार्थत्वादिह विवक्षितार्थमाह ।। अन्त इति ।।

किरणावली

असत्कर्मण इति दृष्टान्त इति ।। यथा सुखसाधनविपरीतकर्मणा सुखं नास्ति तथा दुःखसाधनविपरीतकर्मणा दुःखं नास्तीति दृष्टान्त इत्यर्थः ।। नियतत्वादित्यनेनेति ।। उत्तरार्धे यदसत्कर्म न तत्सुखसाधनम् । यत्सत्कर्म न तद्दुःखसाधनमित्युभयविधयोर्व्याप्त्योरन्तो निर्णयो व्यभिचाराभावः निर्णायको दृष्ट इत्युक्तत्वात् । नियतत्वादित्यनेन तात्पर्यमुक्तमिति भावः । विमतं युद्धं न दुःखसाधनं सत्कर्मत्वाज्ज्योतिष्टोमादिवत् । व्यतिरेकेण ब्रह्महननादिवदिति प्रयोगपक्षे हेतुमुपपादयति ।। इदं चेति ।। सद्भाववाचिनः शब्दा इति भाववाचिन इत्यर्थः । ननु प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यत इत्यत्र सच्छब्दस्य प्रशस्ते कर्मणि प्रयोगोऽस्तीत्युक्तत्वेऽपि असच्छब्दस्यासत्कर्मपरत्वं नोपपद्यते । प्रयोगाभावादित्यत आह ।। अश्रद्धयेति ।। अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थेत्युत्तरग्रन्थे श्रद्धाविरहितं यत्तत्तामसं परिचक्षत इत्युक्तरीत्या तामसत्वादसत्कर्मण्यसच्छब्दस्य प्रयोगोऽस्तीति भावः ।। भावाभावशब्दपर्यायेति ।। ‘‘सद्भावे साधुभावे च सदित्येतत्प्रयुज्यत’’ इति सद्भावशब्दिते भावे सच्छब्दप्रयोगोक्तया भावशब्दस्य सच्छब्दस्य च पर्यायत्वमत एवाभावासच्छब्दयोः पर्यायत्वमवगम्यत इति भावः । अत एव प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यत इत्युत्तरार्धमात्रे उदाहर्तव्ये । भावसच्छब्दयोः पर्यायत्वं ज्ञापयितुं पूर्वार्धोदाहरणं ज्ञेयम् ।। ब्रह्म दुःखीति वेद चेदिति ।। यद्यपि तैत्तिरीयभाष्ये

पञ्चरूपं च तद्ब्रह्म जीवादन्यन्न विद्यते ।।

इति ये तु विजानन्ति तेऽसन्तस्तम आलयाः ।।

जीवादन्यत्परं ब्रह्म पञ्चरूपं च ये विदुः ।।

सन्तस्त इति विज्ञेया मोक्षयोग्या हि ते ध्रुवम् । इति व्याख्यातम् ।

तथाप्यस्य व्याख्यानान्तरत्वान्न विरोधः ।। अन्तशब्दस्यानेकार्थत्वादिति ।। विनाशाद्यनेकार्थत्वादित्यर्थः ।।

भावदीपः

‘नाभावो विद्यते सतः’ इत्येतावता प्रकृतशङ्काऽपरिहारादाह ।। दृष्टान्त इति ।। उत्तरार्धेति ।। ‘उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः’ इत्युत्तरार्धे सदसत्कर्मभ्यां सुखदुःखे न स्त इत्यनयोरर्थयोरन्तो निर्णयस्तत्त्वदर्शिभिर्दृष्ट इत्युक्त्या नैयत्यं लब्धमिति भावः । प्रकृतोपयोगमाह ।। अश्रद्धयेति ।। ‘अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।। असदित्युच्यते पार्थ’ इत्यष्टादशे ‘सच्छब्दः पार्थ युज्यते’ इत्येतस्मात्किञ्चिदुपरितनं वाक्यं च ग्राह्यमित्यर्थः ।। वेत्तेति ।। विद ज्ञाने, वेदितेत्यर्थः । आगमशासनमनित्यमितीडत्र न कृतः ।

भावप्रकाशः

ननु सत्कर्मणो दुःखहेतुत्वाभावेऽपि प्रकृते किमायातमित्यत आह । इदं चेति । सद्भाव इति मूले प्रशस्ते कर्मणीत्युत्तरार्धस्यैव सङ्गतत्वेऽपि तथाशब्दपरामर्शविषयप्रदर्शनार्थं पूर्वार्धोदाहरणमिति द्रष्टव्यम् । अनेन सच्छब्दस्य सत्कर्मवाचित्वसिद्धावपि असच्छब्दस्यासत्कर्मवाचित्वसिध्यर्थमाह । अश्रद्धयेत्युत्तरवाक्यमिति ।। सुखादौचेति ।। न केवलं सदसत्कर्मणः प्रयोगो दर्शित इति चार्थः । आदिपदेन विद्यमानयोरिति ग्राह्यम् ।।

पञ्चरूपं च तद्ब्रह्म जीवादन्यं न विद्यते ।

इति येतु विजानन्ति तेऽसन्तः तमआलयाः ।

जीवादन्यत्परं ब्रह्म पञ्चरूपं चये विदुः ।

सन्तस्त इति विज्ञेयाः मोक्षयोग्या हि ते ध्रुवम् । इति ।

तैत्तरीयभाष्यं मनसि निधाय व्याचष्टे ।। ब्रह्मदुःखीति वेदचेदिति । अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरित्युत्तरार्धं व्याचष्टे । ब्रह्मसुखरूपमिति वेदचेदिति ।। अन्तशब्दस्यानेकार्थत्वादिति ।। विनाशनिर्णयाद्यनेकार्थत्वादित्यर्थः ।

वाक्यविवेकः

मूले सद्भाववाचिन इति । ये शब्दाः सद्भाववाचिनः सतो भावः सत्ता तद्वाचिनः ते सर्वे सुखवाचका इत्यर्थः ।। अश्रद्धयेत्युत्तरवाक्यं चेति ।

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।

असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ।

इति उत्तरं वाक्यं च असच्छब्दस्या सत्कर्मवाचित्वप्रदर्शनाय वक्तव्यमिति मूलकृदभिप्रेतमत्र ग्राह्यमित्यर्थः ।। भावाभावशब्दपर्यायेति । बाधकाभावे यत्पर्यायस्य यद्वाचकत्वं तस्यापि तद्वाचकत्वमिति नियमात् सदसच्छब्दयोः सुखदुःखवाचित्वे प्रतिपादिते भावभावशब्दयोः क्रमेण सुदुःखवाचकत्वं सिध्यतीति भावः । असन्नेव स भवति । असत् ब्रह्मेति वेदचेदिति पूर्वार्धार्थमाह । ब्रह्मेति ।। अस्ति ब्रह्मेति वेदचेत् । सन्तमेनं ततो विदुः इत्युत्तरार्धमाह । ब्रह्म सुखरूपमिति । अनेन ब्रह्म अस्ति सुखवदिति वेद चेत् ततो वेदनान्निमित्तात् । एवं वेत्तारं सन्तं सुखिनं विदुरिति योजनोक्तेति द्रष्टव्यम् ।। अस्तीति तिङ्प्रत्ययः विशेषादेवेति ज्ञाययितुं ब्रह्मसुखरूपमित्युक्तम् ।।