तात्पर्यम्

तात्पर्यम्

तत्पक्षे त्वैक्यादेरपि मिथ्यात्वात्स्वरूपस्य च सिद्धत्वाद्व्यर्थैव श्रुतिः । लक्षितस्वरूपस्यापि न स्वरूपाद्विशेषः । निर्विशेषत्वोक्तेः । मिथ्याविशेषोक्तौ चाप्रामाण्यं श्रुतेः । मिथ्यात्वं च मिथ्यैव तेषाम् । अतः सत्यत्वं सत्यं स्यात् ।

प्रकाशिका

जीवेशभेदाद्यखिलप्रपञ्चस्य मिथ्यात्वे तदन्तर्गतस्याभेदस्यापि मिथ्यात्वेन प्रतिपाद्याभावादखिलवेदस्यानर्थक्यं स्यात् ।। न च चित्स्वरूपं प्रतिपाद्यम् । तस्यावभासमानत्वेन प्रतिपादनवैय्यर्थ्यादित्याह ।। तत्पक्ष इति ।। न च वाच्यं भेदाभेदादिसकलधर्मरहितं तत्त्वं पदलक्षितं चित्स्वरूपं प्रतिपाद्यमिति तस्यावभासमानात् स्वरूपात् विशेषाभावात् । विशेषसद्भावे निर्विशेषत्वभङ्गात् । निर्विशेषब्रह्मणि मिथ्याविशेषं बोधयति चेत् वेदोऽप्रमाणं स्यात् । व्याहतिश्च स्यात् सर्वमिथ्यात्वेन मिथ्यात्वस्यापि मिथ्यात्वापातात् ।। सर्वसत्यत्वस्य सत्यत्वापातादित्याह ।। लक्षितेत्यादिना ।।

न्यायदीपिका

इतोपि न परमात्मातिरिक्तप्रपञ्चनिषेधो युज्यत इत्याह ।। तत्पक्ष इति ।। यदि परमात्मातिरिक्तः सर्वोपि प्रपञ्चो मिथ्या स्यात् तदा सर्वश्रुतीनां वैयर्थ्यं स्यात् । तथाहि । एकमेवाद्वितीयं यः सर्वज्ञ इत्यादिश्रुतिरैक्यादिधर्मप्रतिपादिका उतात्मस्वरूपप्रतिपादिका । आद्येप्यैक्यसार्वज्ञादिधर्माः किं स्वरूपातिरिक्ताः स्वरूपं वा । नाद्यः । तथात्वे मिथ्यात्वापातात् । द्वितीयस्तु तृतीयेऽन्तर्भवति । नाप्यसौ युक्तः । स्वरूपस्य स्वतः सिद्धत्वेन प्रतिपादनवैयर्थ्यादिति भावः ।

शुद्धस्वरूपस्याप्रतिपाद्यत्वेऽपि भेदाभावसार्वज्ञाद्युपलक्षितस्वरूपस्य प्रतिपाद्यत्वान्न श्रुतिवैयर्थ्यमित्यत आह ।। लक्षितेति ।। लक्षितस्यापि शुद्धाद्विशेषाभावेन तद्वदस्याप्यप्रतिपाद्यत्वान्न तत्प्रतिपादकत्वं श्रुतेर्युक्तमित्यर्थः । कुतः शुद्धाद्विशेषाभावो लक्षितस्येत्यत आह ।। निर्विशेषत्वेति ।। लक्षितमिति यदोक्तं तदैव तस्य निर्विशेषत्वमप्युक्तमेव । अन्यथा विशिष्टत्वापत्त्या मिथ्यात्वापातात् । अतस्तस्य न शुद्धाद्विशेष इति भावः ।। ननु भवतु धर्माणां मिथ्यात्वं तथापि श्रुतेस्तत्प्रतिपादकत्वे को दोष इत्यत आह ।। मिथ्येति ।। इतोपि नात्मातिरिक्तस्य सर्वस्य मिथ्यात्वं युक्तमित्याह ।। मिथ्यात्वमिति ।। आत्मातिरिक्तस्य सर्वस्य मिथ्यात्वे तन्मिथ्यात्वं सत्यं मिथ्या वा । नाद्यः । आत्मातिरिक्तं सर्वं मिथ्येति पक्षक्षतेः । अतो मिथ्येत्येवाङ्गीकार्यमिति भावः । किमतो यद्येवमित्यत आह ।। अत इति ।। इतश्च नात्मविशेषाणां मिथ्यात्वमिति वा आह ।। मिथ्येति ।।

किरणावली

तथात्वे मिथ्यात्वादिति ।। मिथ्यात्वप्रसङ्गादित्यर्थः । स्वरूपातिरिक्तस्यापि सत्यत्वेऽद्वैतहानिप्रसङ्गादिति भावः । मिथ्यात्वापातात् इत्यपि क्वचित्पाठः ।।

द्वितीयस्तु तृतीय इति ।। ऐक्यादिधर्माः स्वरूपभूता इति द्वितीयः । उतात्मस्वरूपप्रतिपादिकेति पक्षेऽन्तर्भवति । तेषामात्मतन्मात्रत्वेन तत्प्रतिपादकानामात्मस्वरूप प्रतिपादकत्वस्यैव प्राप्तेस्तस्य तृतीयत्वम् । आद्यस्य द्वैधा विकल्पितत्वाद्द्वितीयस्याद्य द्वितीयेन्तर्भावाद्दूषणाय तृतीयतया पर्यवसन्नत्वादिति द्रष्टव्यम् ।। स्वरूपस्य स्वतः सिद्धत्वेनेति ।। स्वप्रकाशजीवाभिन्नतया स्वप्रकाशतया सिद्धत्वेनेति वा शुद्धस्यान्यनिरपेक्षप्रकाशरूपत्वाङ्गीकारेण स्वतः सिद्धत्वेनेति वार्थः ।। तद्वदस्येति ।। शुद्धपदबोधितवल्लक्षितपदबोधितस्यापीत्यर्थः ।। लक्षितमिति ।। उपलक्षकं हि तटस्थं नतूपलक्ष्यशरीरप्रविष्टं चित्रगुरित्यादौ दर्शनात् । तथाच लक्षितमिति यदोक्तं तदा तस्य निर्विशेषत्वमप्युक्तमेवेत्यर्थः । यदुक्तमैक्यादिधर्माणां स्वरूपातिरिक्तत्वे मिथ्यात्वप्रसङ्गादनतिरेक पक्षेङ्गीकार्ये श्रुतीनां वैयर्थ्यदोष इति नायं दोषोऽतिरिक्तत्वपक्षे । न च मिथ्यात्वप्रसङ्गः इष्टत्वादिति भावेन शङ्कते ।। ननु भवत्विति ।।

उत्तरग्रन्थसङ्गतत्वेन मिथ्यात्वमित्यादिप्रकारान्तरेण व्याचष्टे ।। इतश्च नात्मविशेषणानामिति ।। आत्मविशेषणानां मिथ्यात्वे श्रुत्यप्रामाण्यप्रसङ्ग उक्तः । युक्तयन्तरेणापि नात्मविशेषणानां मिथ्यात्वमिति वा मिथ्यात्वमित्यादि वाक्यद्वयेनाहेत्यर्थः ।

भावप्रकाशः

तथात्वे मिथ्यात्वापातादिति । स्वरूपातिरिक्तस्यापि सत्यत्वे सदद्वैतभङ्गप्रसङ्गादिति भावः ।। द्वितीयस्तु तृतीय इति । एक्यादिधर्माः स्वरूपभूता इति द्वितीयः आत्मस्वरूपप्रतिपादिके तृतीयेऽन्तर्भवतीत्यर्थः ।। अत्राद्यस्यापि द्वेधा विकल्पितत्वात् द्वितीयस्यापि तृतीयत्वमिति भावः ।। अन्तर्भावो भवत्वित्यतस्तृतीयं दूषयति ।। नाप्यसाविति ।। स्वतः सिद्धत्वेनेति ।। ब्रह्मस्वरूपाभिन्नस्य द्वैतस्य ब्रह्मप्रति स्वतःसिद्धत्वे जिज्ञासुं शास्त्रश्रवणेऽधिकृतं जीवं प्रत्यपि सिद्धत्वमेव बोध्यस्यात्मनो ब्रह्मस्वरूपत्वादिति भावः । इदं च स्वतःसिद्धत्वं स्वमतानुसारेणोक्तं परपक्षेतु ब्रह्मणो वेद्यत्वाङ्गीकारात्प्रतिपादनवैय्यर्थ्यमिति दूषणं द्रष्टव्यम् ।। तद्वदस्येति । शुद्धवल्लक्षितस्येत्यर्थः ।। मिथ्यात्वस्य मिथ्यात्वे तेषामित्यनेन सूचितां युक्तिमाह । आत्मातिरिक्तस्येति ।। सर्वं पक्षन्तेरिति । मिथ्यात्वस्यापि सर्वान्तःपातित्वादिति भावः । उत्तरग्रन्थसङ्गतत्वेन मिथ्याविशेषोक्ताविति वाक्यं प्रकारान्तरेणावतारयति ।। इतश्चेति । येनोक्तदोषः स्यादिति श्रुतिवैय्यर्थ्यरूप इत्यर्थः ।

वाक्यविवेकः

मूले तत्पक्षेत्विति । तत्पक्षेतु श्रुतिव्यर्थैवेत्यन्वयः । एतेन तत्पक्षे एकस्य ब्रह्मस्वरूपत्वेन सत्यत्वात् । प्रत्यक्षे एैक्यं मिथ्येत्ययुक्तमिति परास्तम् । द्वितीयस्तृतीय इति । स्वरूपं वेति द्वितीयः पक्षः स्वरूपप्रतिपादकवेद्याद्यविकल्पस्य तृतीयपक्षे अन्तर्भवतीत्यर्थः । सम्भूय गणनया स तृतीयो भवतीत्यभिप्रेत्य तृतीयेऽन्तर्भवतीत्युक्तमिति बोध्यम् ।। इतश्चेति । पूर्वश्रुतेर्मिथ्याभूतधर्मप्रतिपादकत्वे को दोष इत्याशङ्कोत्तरत्वेन मूलं योजितम् । इदानींतु आत्मधर्माणां मिथ्यात्वे को दोष इत्याशङ्कोत्तरत्वेन मूलं योज्यत इति भेदः ।