तात्पर्यम्
चेतनगतविशेषाः विशेषिणा अभिन्नाः
तात्पर्यम्
भेदाभेदौ च तेनैव कर्तृभोक्तृविशेषणे ।
मदन्य इत्यनुभवो यतो नैवास्ति कस्यचित् ।
भेदो विशेषणस्यापि नाऽन्तरस्य क्वचिद् भवेत् ।
शुद्धस्वरूप इत्यादावभेदस्यैव दर्शनात् ।
अपृथग्दृष्टिनियमाद् बलज्ञानादिकस्य च ।
ऐक्यं बाह्यविशेषाणां पृथग्दृष्ट्यैव तन्नतु ।
विशेषहेत्वभावेऽपि द्वैविध्यं कल्प्यते यदि ।
कल्पनागौरवाद्यास्तु दोषास्तत्रातिसङ्गताः ।
प्रकाशिका
भेदाभेदावेव सर्वत्र युक्तौ विशिष्टविशेष्ययोः न त्वत्यन्ताभेदः कुत्रापीति न वाच्यम् । अहं कर्तेत्यादिषु अत्यन्ताभेददर्शनात् इत्याह ।। भेदाभेदौ चेति ।। कर्ताऽहमन्यश्चासावित्यनुभवाभावात् ।। कर्तृत्वभोक्तृत्वविशेषणवच्छुद्धस्वरूपो मुक्तता । अत्र शुद्धस्वरूपत्वादिविशेषणस्य विशेष्येणाभेद एवाऽऽन्तरविशेषणत्वेनाभेद दर्शनात् ।। तथा बलज्ञानादिविशेषणस्यापि विशेष्येणात्यन्ताभेदः पृथग्दृष्ट्यभावात् यथा शुक्लः पट इत्यत्र शौक्ल्येनात्यन्ताभेदः पटस्य दृश्यते न त्वौपाधिकेन कार्ष्ण्येन ।। एवं देहोपाधिकधर्माणामुपाधिनिवृत्तौ निवर्तमानानां जीवाभेदः । अत्रात्मनः कर्तृत्वभोक्तृत्वादिरौपाधिको भिन्नधर्मः, ज्ञानादिः स्वाभाविकधर्म इति निर्हेतुककल्पनं कल्पनागौरवानुभवविरोधोपहतम् ।। ज्ञानमौपाधिकं भिन्नधर्मः स्यात् अविशेषादित्यतिप्रसङ्गोपहतं च । तदेतदाह ।। विशेषेति ।।
न्यायदीपिका
ननु विशिष्टविशेष्ययोर्भेदाभेदौ किं न स्याताम् । तथात्वे भेदेन प्रश्नासम्भवस्य परिहर्तुं शक्यत्वादभेदेनानवस्थादेश्च परिहर्तुं शक्यत्वादिति चेत् । किं विशिष्टविशेष्ययोः क्वचिद्भेदाभेदावङ्गीक्रियेते उत सर्वत्रापि । आद्ये संप्रतिपत्तिः । अयावद्द्रव्यभाविविशेषणविशिष्टस्य विशेष्येण भेदाभेदाङ्गीकारात् । द्वितीयं दूषयति ।। भेदाभेदाविति ।। तौ परेणाङ्गीकृतौ । सर्वत्र विशिष्टविशेष्ययोरिति शेषः ।। कर्तृभोक्तृविशेषण इति ।। कर्तृत्वभोक्तृत्वे विशेषणे यस्य विशिष्टस्य तस्मिन्नित्यर्थः । कर्तृत्वभोक्तृत्वादियावद्द्रव्यभाविविशेषणविशिष्टविषये कर्ता भोक्ता मदन्योऽहं चेति विशेषेण भेदाभेदानुभवाभावादिति भावः । एतेन कर्तृभोक्त्रादिविशिष्टविशेष्ययोरभेदप्रतिपादनेनैव यदुक्तं सर्वचेतनविशेषाणामाविर्भावतिरोभाववतां कर्तृत्वादीनां विशेषिणाऽभिन्नत्वं तदपि समर्थितं भवति । अथ नित्याभिव्यक्तानां स्वरूपत्वादीनां चाभेदं साधयति ।। भेद इति ।। नित्याभिव्यक्तस्येति शेषः ।। आन्तरस्येति ।। देहोपाधित्वं विना चेतनगतस्येत्यर्थः । शुद्धस्वरूप इत्यादौ शुद्धस्वरूपत्ववस्तुत्वादीनां नित्याभिव्यक्तविशेषाणां शुद्धस्वरूपो मुक्त इति सामानाधिकरण्येनाभेदस्यैव दर्शनाद्विशिष्टविशेष्ययोरेभेदे विशेषणाभेदस्य नियतत्वादिति भावः । आविर्भावतिरोभाववतां कर्तृत्वादिविशेषाणां विशेषिचैतन्यैक्यमर्थतः पूर्वं सिद्धम् । अथ गुणत्वेन पराभ्युपगतानां तादृशानामेव ज्ञानादिविशेषाणामपि विशेष्यैक्यं साधयति ।। अपृथगिति ।। पृथक्त्वेन दर्शनाभावनियमादित्यर्थः ।
ननु यथोच्यते शुद्धस्वरूप इत्यादि यथा च कर्ता भोक्ता बलवान् विद्वानिति तथा कृष्णः स्थूल इत्यादि चोच्यते । अतो देहनिमित्तानां कार्ष्ण्यादिविशेषाणामपि चैतन्यैक्यं स्यादित्यत आह ।। बाह्येति ।। नास्माभिरुभयविधविशेषविशिष्टविशेष्ययोः सामानाधिकरण्यमात्राद्विशेषाणां चैतन्यैक्यमुच्यते । किं तु भेदादर्शने सति सामानाधिकरण्येन । नचात्र कृष्णदेवदत्तयोः भेदादर्शनं येन च कार्ष्ण्यं देवदत्तस्वरूपं स्यात् । भेदस्यैव दृष्टत्वादिति भावः ।
एके तु शुद्धस्वरूपत्वादीनां नित्याभिव्यक्तानामेव विशेषाणां चैतन्यैक्यं न तु कर्तृत्वादीनामिति मन्यन्ते । तान्निराकरोति ।। विशेषेति ।। शुद्धस्वरूपत्वादीनामेव चैतन्यैक्यं न तु कर्तृत्वादीनामिति द्वैविध्यं किं यत्किञ्चिद्धेतुबलेन कल्प्यते तद्विना वा । नाद्यः । तददर्शनात् । न द्वितीयः । कर्तृत्वादीनामप्यैक्योपपत्तौ वृथा द्वैविध्यकल्पने कल्पनागौरवप्रसङ्गात् । अप्रामाणिकप्रमाणविरुद्धकल्पनप्रसक्तेश्च । यदि कल्पनागौरवादिदोषानङ्गीकृत्यापि कर्तृत्वादीनां भिन्नत्वमुच्यते तर्हि शुद्धस्वरूपत्वादयोऽपि विशेषा भिन्ना एवेत्यतिप्रसङ्गः स्यात् । परस्य दोषभयाभावादिति भावः । एवं चेतने विशेषादेरत्यन्ताभेदः समर्थितः । तन्न्यायेनाचेतनेऽपि यावद्द्रव्यभाविनो विशेषादेर्विशेषिणाऽत्यन्ताभेदो द्रष्टव्यः ।
किरणावली
अनवस्थादेश्चेति ।। अत्रादिपदेन विशिष्टाद्विशेष्यस्यात्यन्तभेदपक्षे प्राप्तं विशेष्यस्य निर्विशेषत्वमत एव प्रमाणाविषयत्वमत एवासत्वमिति दोषत्रयं गृह्यते । पूर्वं भेदाभेदयोरप्रस्तुतत्वात् ताविति परामर्शोऽयुक्त इत्यतः परबुद्धिस्थपरामर्श इति भावेनाह ।। तौ परेणाङ्गीकृताविति ।। ननु क्वचिद्भेदाभेदयोः परेणाङ्गीकृतयोरस्माभिरप्यङ्गीकारान्निषेधोऽनुपपन्न इत्यतो द्वितीयविकल्पनिषेधसमुच्चयार्थ इत्युक्तं भवति । कुतो न सर्वत्र विशिष्टविशेष्ययोर्भेदाभेदावित्यतः यावद्द्रव्यभाविस्थले तदभावादित्युपपादनाय कर्तृभोक्तृविशेषण इत्यादि वाक्यं प्रवृत्तम् । तत्र कर्तृभोक्त्रिति भावप्रधानमित्यभिप्रेत्य विग्रहं दर्शयति ।। कर्तृत्वभोक्तृत्वे इति ।।
विशेषणद्वयमन्योपलक्षणार्थमित्यभिप्रेत्योपलक्ष्यतावच्छेदकधर्मं दर्शयन्नाह ।। कर्तृत्वभोक्तृत्वादियावद्द्रव्यभाविविशेषणेति ।। मूले भेदाभेदाभावे हेतुतया भेदाभेदयोरुभयोः समुच्चितयोरनुभवाभावे वक्तव्ये मदन्य इत्यनुभवो यतो नैवास्तीति भेदाभावमात्रोक्तिरपूर्णेत्यतो मूलमुपलक्षणं मत्त्वा भावमाह ।। कर्ता भोक्ता मदन्योऽहंचेतीति ।। उक्तं च श्रीमत्पद्मनाभतीर्थीये । कर्ताहमन्यश्चासावित्यनुभवाभावादिति ।। यदुक्तं चेतनविशेषाणामिति ।। द्रव्यात्मना स नित्योऽपि विशेषात्मैव जायत इत्यत्रेति शेषः ।। आविर्भावतिरोभाववतामिति ।। व्यक्तिशक्तिरूपेण स्थितानामित्यर्थः । भेदो विशेषणस्यापीत्यत्राध्याहार्यं दर्शयति ।। नित्याभिव्यक्तस्येति ।। चेतनविशेषणस्य विशेषिणा भेदो नास्तीत्येतावता पूर्णत्वादान्तरस्येति व्यर्थम् । किंच शुद्धत्वस्वरूपत्वादीनां चेतनान्तर्गतत्वं कथमन्तर्बहिश्च व्याप्य चेतननिष्ठत्वादित्यत अर्थमाह ।। आन्तरस्येति ।। आन्तरस्येत्यस्य चेतनगतस्येत्यर्थो नतु चेतनान्तर्वर्तिन इत्यर्थः । ननु कृष्णोऽहं स्थूलोऽहमिति कार्ष्ण्यस्थौल्यादेश्चेतननिष्ठत्वेन प्रतीतेस्तेषामपि चेतनभेदो न स्यादित्यत उक्तम् ।। देहोपाधित्वं विना चेतनगतस्येति ।। देह उपाधिर्यस्य सः देहोपाधिस्तस्य भावो देहोपाधित्वं तद्विना चेतनगतस्येत्यर्थः । यथाहि कर्दमोपाधिकं कार्ष्ण्यं कृष्णं वस्त्रमिति परंपरासम्बन्धेन वस्त्रे व्यवह्रीयते । नतु कार्ष्ण्यं वस्त्रगतमेवं कृष्णोऽहमित्यत्र देहोपाधिकं कार्ष्ण्यमात्मनि व्यवह्रीहते । न तच्चेतनगतम् । तथा च देहोपाधित्वं विना परंपरासम्बन्धेन चेतने व्यवह्रीयमाणत्वं विना चेतनगतस्येत्यर्थः । प्रपञ्चयिष्यते चैतत् । एतेन मनोवृत्तिरूपाणां ज्ञानादीनामान्तराणामभेदसाधनेऽपसिद्धान्तः स्यादिति निरस्तम् । तेषां मनःपरिणामतया मनोगतानां स्वामितासम्बन्धेनात्मनि प्रतीयमानत्वेऽपि स्वरूपत्वचेतनत्वादिवत्स्वरूपसम्बन्धेन चेतनगतत्वाभावात् ।
ननु तथापि चिन्तनादिक्रियाणां नीचोच्चतादिरूपाणां सुखदुःखानुभवकृतविकाराणां वाऽत्मगतत्वात् । तेषां चात्मना भिन्नाभिन्नत्वाच्चेतनगतस्य कथं भेदनिषेधः । चिन्तनादिक्रियाणां च मुक्तावुच्छेदतस्तथा । भेदाभेद इति बृहद्भाष्यविरोधात् । किञ्चापृथक्दृष्टीत्युत्तरवाक्यमनेन गतार्थम् । तत्र ज्ञानादीनां चेतनगतानामभेदसाधनादित्यतो नित्याभिव्यक्तस्येति शेष इत्युक्तम् । चिन्तनादीनां मुक्तावुच्छेदेन नित्यत्वस्याभावान्न विरोधः । नित्यानामपि ज्ञानादीनां नित्यव्यक्तत्वाभावादत्र नित्यव्यक्तानामभेदसाधनान्नानेनोत्तरवाक्यस्य गतार्थतेति भावः ।
शुद्धस्वरूप इत्यादावित्यत्रादिपदार्थं दर्शयन् केषां केनाभेददर्शनं कथं च भेददर्शनमित्यत आह ।। शुद्धस्वरूप इत्यादाविति ।। शुद्धस्वरूपो वस्तुभूतश्चेतनो मुक्त इत्यादि प्रयोगे शुद्धत्वस्वरूपत्वचेतनत्वादीनां नित्याभिव्यक्तविशेषाणां विशेष्येणाभेदस्यैवात्यन्ताभेदस्यैवानुभवादित्यर्थः । तत्र हेतुः ।। शुद्धस्वरूपो मुक्त इति सामानाधिकरण्येनेति ।। शुद्धत्वादिविशेषणविशिष्टानां विशेष्यभूतमुक्तसामानाधिकरण्येनेत्यर्थः । सामानाधिकरण्यं नामात्रभिन्नप्रकृतिनिष्ठैकविभक्तित्वम् । तच्चाभेदे शक्तम् । शुक्लः पट इत्यादौ तथा दर्शनादिति भावः । नन्वैक्येन सामानाधिकरण्यं अन्यथा घटः कलश इत्यपि प्रयोगापत्तेरिति चेन्न । सविशेषाभेदाङ्गीकारेण विशिष्टविशेष्ययोरेव सामानाधिकरण्यव्यवहारोपपत्तेः । घटस्य घटेन तदभावान्न सामानाधिकरण्यम् । तदुक्तमनुव्याख्याने समयपादीये ।
अभेदेन प्रतीतिश्च कार्यकारणपूर्वके ।
अभावान्ते पदार्थेऽस्मिन् सविशेषोऽवसीयत । इति ।
सुधायां च यत्र केवलमभेदः प्रतीयते न तत्र सामानाधिकरण्यव्यवहारो भवति । यथा घटः कलश इति । यत्र त्वभेदः प्रतीयमानो विशेषेण सहित एव प्रतीयते विशेषश्च भेदप्रतिनिधिः । तत्र सामानाधिकरण्यव्यवहारं प्रसूयत इति । ननु सामानाधिकरण्यव्यवहारबलेन विशिष्टविशेष्ययोरभेदावगमेऽपि विशेषणानां विशेष्यैक्यं कुत इत्यत आह ।। विशिष्टविशेष्ययोरिति ।। अभेद इति ।। अत्यन्ताभेद इत्यर्थः । तेन दण्डी देवदत्त इत्यादौ विशिष्टविशेष्ययोरभेदेपि दण्डदेवदत्तयोस्तदभावात् व्यभिचार इति निरस्तम् ।। नियतत्वादिति ।। सर्वज्ञेश्वरयोरभेदेन सार्वज्ञस्य तदभिन्नत्वस्य विज्ञानमानन्दं ब्रह्मेत्यादिश्रुतिसिद्धत्वादिति भावः । यद्वा सामानाधिकरण्येन विशिष्टस्य यावद्विशेष्यभावित्वेन च विशेष्यात्यन्ता भेदे विशेषणसम्बन्धं विना वैशिष्ट्यानुपपत्त्या विशेषणस्यापि यावद्विशेष्यभावित्वावश्यंभावाद्विशेषणाभेदस्य नियतत्वादिति भावः । ननु कर्तृभोक्तृविशेषण इत्यत्राविर्भावतिरोभाववतां कर्तृत्वादियावद्द्रव्यभाविधर्माणां विशेषिणाऽत्यन्ताभेदस्योक्तत्वादपृथक्दृष्टिरित्यादिकं गतार्थमित्यतोऽवतारयति ।। आविर्भावेति ।। पूर्वं कर्तृत्वभोक्तृत्वादिविशिष्टविशेष्ययोरैक्यप्रतिपादनेन कर्तृत्वादीनां शक्तिव्यक्तिरूपेण स्थितानामपि धर्माणां विशेषिचैतन्यैक्यमर्थतः सिद्धम् । नतु साक्षात्तत्साधितम् । इह तु धर्मविशेषाणां ज्ञानादिगुणानां साक्षादेव विशेष्यैक्यं साधयतीति नानुमेयविशेषेण पुनरुक्तिरिति भावः । मूलानुसारेण बलादीनामिति वक्तव्ये तार्किकैर्बलस्य गुणत्वेन पृथग्गणनाज्ज्ञानादीनामित्युक्तम् ।
ननु ज्ञानादीनामस्माभिरपि गुणत्वेनाङ्गीकारात्पराभ्युपगतानामित्युक्तिरयुक्तेत्येतदप्यनेनैव निरस्तम् । परैरभ्युपगतानामित्यर्थस्वीकारात् । यद्वा अस्माभिः शुभधर्ममात्रे गुणत्वस्य क्वचिदुक्तेस्तार्किकैर्नियमेन ज्ञानसुखादीनामेव गुणत्वाङ्गीकारादिति बोध्यम् । अपृथक्दृष्टिनियमादित्यस्यापृथक्त्वेनाभेदेन दृष्टिनियमादित्यर्थो न युक्तः । भेदप्रतिनिधिविशेषप्रतिबन्धेन ज्ञानमेवाहमिति साक्षादभेदग्राहकसाक्ष्यनुभवाभावादित्यतो व्याचष्टे ।। पृथक्त्वेन दर्शनाभावनियमादिति ।। कुण्डबदरयोर्दण्डदेवदत्तयोर्यथा पृथक्त्वेन दर्शनमस्ति तथा नियमेन पृथक्त्वेन दर्शनाभावस्य साक्षिसिद्धत्वादित्यर्थः । अत एवोत्तरवाक्ये बाह्यविशेषाणां पृथक्दृष्ट्यैव तन्न त्विति वक्ष्यते । तथा च कुण्डबदरदण्डदेवदत्तादिप्रतीतितो व्यावृत्ततया गुणगुण्यादिप्रतीतेरध्यवसायादभेदमन्तरेण व्यावृत्तिहेतोरभावादसति निमित्तान्तरे समस्तभेदवस्त्वन्तरप्रतीतितो व्यावृत्तोऽयमभेद एव पर्यवस्यतीति पृथक्दर्शनाभावेनैक्यं साधनीयम् । तथा च प्रयोगः । ज्ञानादिकं विशेष्यात्यन्ताभिन्नम् । नियमेन ततो भेदेनादृष्टत्वात् । व्यतिरेकेण बदरदण्डादिवदिति । अत्र नीरविशिष्टक्षीरे भेदेनानुपलभ्यमानेऽप्यैक्याभावाच्च । तत्फलश्यामरूपे स्वसद्भावदशायां कुण्डबदरयोरिव भेदेन प्रतीत्यभावेऽप्यत्यन्ताभेदाभावात् । व्यभिचार इत्यतो नियमेनेत्युक्तम् । केनापि कदापीत्यर्थः । नीरक्षीरपृथक्त्वस्य हंसेनोपलब्धेः । चूतफले पीतरूपोत्पत्त्यनन्तरमिदानीं न नीलं फलमिति भेदप्रतीतेरिति भावः । कृष्णःस्थूल इत्यादि चोच्यत इति । कृष्णः स्थूलो देवदत्त इति सामानाधिकरण्येनोच्यत इत्यर्थः ।। अत इति ।। सामानाधिकरण्येन विशिष्टविशेष्ययोरैक्ये विशेषणस्य कार्ष्ण्यादेरपि विशेषिचैतन्यैक्यं स्यादित्यर्थः ।। उभयविशेषेति ।। नित्यव्यक्तशक्तव्यक्तोभयविशेषेत्यर्थः ।। भेदस्यैवेति ।। शरीरस्यैव कार्ष्ण्यविशिष्टत्वेन देवदत्तचैतन्यस्य कृष्णेन शरीरेण मम देह इत्यत्यन्तभेदस्यैव दर्शनात् । कृष्णोऽहमिति व्यपदेशमात्रस्योपचरितत्वाङ्गीकारादिति भावः । तथाचानुव्याख्याने । उपचारश्च कृष्णोऽहमिति कर्दमलेपने । वस्त्रस्य यद्वदेवं स्यादिति ।। तददर्शनादिति ।। ननु कथं तददर्शनं कर्तृत्वभोक्तृत्वज्ञानादिधर्माणां विषयोपाधिकत्वात् भिन्नत्वम् । शुद्धत्वस्वरूपत्वादीनामनौपाधिकत्वादभिन्नत्वमिति चेन्न । क्रियाशक्तिज्ञानशक्तिभोगशक्तीनामनौपाधिकत्वात् । शक्तिं प्रति विषयस्याहेतुत्वादन्यविशेषितत्वमात्रेणौपाधिकत्वे शुद्धत्वं दोषाभावः । स्वरूपत्वं सर्वव्यावृत्तरूपत्वं सर्वव्यावृत्तये यस्मात्स्वशब्दोऽयं प्रयुज्यत इति वचनादित्येवं तेषामप्यन्यविशेषितत्वेनौपाधिकत्वं स्यादिति भावः ।।
कल्पनागौरवेति ।। कर्तृत्वादिकं भिन्नं वस्तुस्वरूपत्वादिकमभिन्नमिति कारणविशेषं विना द्विधाकल्पने कल्पनागौरवमित्यर्थः । आद्यपदार्थमाह ।। अप्रामाणिकेत्यादिनातिप्रसङ्ग इत्यन्तेन ।। आद्यपदेन केवलानिष्टमतिप्रसङ्गश्च गृह्यते । केवलानिष्टं द्विविधं अप्रामाणिककल्पनं प्रामाणिकहानं चेति । कर्तृत्वादीनां भिन्नत्वमप्रामाणिकम् । अपृथक्दृष्टिनियमादित्यैक्ये प्रमाणस्योक्तत्वाद्भेदकल्पनं प्रमाणविरुद्धकल्पनं प्रामाणिकहानरूपमिति यावत् । अतिप्रसङ्गं स्पष्टयति ।। यदीति ।। उक्तं च श्रीमत्पद्मनाभतीर्थीये । निर्हेतुकं कल्पनं कल्पनागौरवानुभवविरोधोपहतमतिप्रसङ्गदुष्टं चेति । विशेषादेरित्यादिपदेन विशिष्टाकारपरिग्रहः ।।
भावदीपः
अहं चेति ।। अन्य इति योज्यम् ।। यदुक्तमिति ।। द्रव्यात्मना स नित्योऽपीत्यत्रेति योज्यम् ।। समर्थितमिति ।। मदन्य इत्यनुभवाभावस्योक्तत्वादिति भावः ।। नित्याभिव्यक्तानाम् ।। धर्मिणा सहैव ज्ञातानामित्यर्थः ।। आविर्भावतिरोभावेति ।। कादाचित्कप्रतीतिकानामित्यर्थः ।। पूर्वमिति ।। भेदाभेदौ च तौ नैव कर्तृभोक्तृविशेषणे । मदन्य इत्यनुभवो यतो नैवेत्युक्तेरर्थादैक्यं सिद्धमित्यर्थः । तादृशानां आविर्भावतिरोभाववतामित्यर्थः ।। उभयविधविशेषेति ।। स्वाभाविकान्योपाधिक रूपोभयविधविशेषेत्यर्थः । विशेषादेरित्यादिपदेन विशिष्टाकारग्रहः ।
भावप्रकाशः
तौ परेणाङ्गीकृताविति । पूर्वभेदाभेदयोर प्रस्तुतत्वादिति भावः । क्वचिद्भेदाभेदयोरङ्गीकृतत्वान्निषेधोऽनुपपन्न इत्यत आह । सर्वत्र विशिष्टविशेष्ययोरितीति । कर्तृभोक्त्रिति विशेषणद्वयग्रहणमन्योपलक्षणार्थमित्यभिप्रेत्योपलक्ष्यतावच्छेदकधर्मं दर्शयन्नाह । कर्त्तृत्वभोक्तृत्वादियावद्द्रव्यभावि विशेषणेति । मदन्योऽहं चेति । भेदस्याननुभवेन भेदाभेदाभावसाधने न्यूनतापत्तेरिति भावः ।। यदुक्तं चेतनविशेषाणामिति । वस्तुस्वरूपमस्त्येवेत्यत्रेत्यर्थः । अपृथग्दृष्टीत्युत्तरवाक्येनैकार्थ्यपरिहारायाह । नित्याभिव्यक्तस्येति शेष इति । मनोवृत्तिरूपज्ञानादीनामान्तरेणाभेदसाधनेऽपसिद्धान्तः स्यादित्यत आह । देहोपाधित्वं विनेति । सामानाधिकरण्येनाभेदस्यैव दर्शनादिति शुद्धत्वादिकं मुक्तभिन्नं मुक्तसमानाधिकरणत्वाद्यद्यत्समानाधिकरणं तत्तद्भिन्नं यथासंप्रतिपन्नमित्यनुमानप्रयोगोऽत्र द्रष्टव्यः ।।
ननु शुद्धस्वरूपो मुक्त इति विशिष्टविशेष्ययोः सामानाधिकरण्येन भेदेऽपि विशेषणस्याभेदः कुतः दण्डी देवदत्त इत्यादौ विशिष्टविशेष्ययोरभेदेऽपि विशेषणविशेष्ययोरभेदाभावादित्यत आह । विशिष्टविशेष्ययोरभेद इति । अत्यन्ताभेद इत्यर्थः । अर्थतः पूर्वं सिद्धमिति । भेदाभेदौ चेत्यत्रार्थात्सिद्धम् । अत्र तु मुखतः साध्यत इति न तेनास्य पुनरुक्ततेत्यर्थः ।। तादृशानामेवेति ।। आविर्भवतिरोभाववतामेवेत्यर्थः । उत्तरवाक्ये पृथग्दृष्टेरभेदाभावहेतुत्वेनोक्तत्वादत्राभेदसाधने पृथग्दृष्ट्यभाव एव हेतुत्वेन वक्तव्य इत्यभिप्रेत्याह । पृथक्त्वेन दर्शनाभावनियमादिति । बलज्ञानादिकं चेतनाभिन्नं तस्मान्नियमेन भेदेनादृष्टत्वात् व्यतिरेकेण घटवदिति प्रयोगोऽत्र द्रष्टव्यः । नीरमिश्रे क्षीरे व्यभिचारवारणाय नियमेनेति विशेषणम् । केनापीत्यर्थः ।। क्षीरेतु हंसादिभिर्नीराद्भेदेन दृष्टत्वसत्वेन न व्यभिचार इति भावः ।। तथापि नष्टपदार्थे भेदस्यैवाभावेनानष्ठपदार्थाद्भेदेनादृष्टत्वस्य सत्वेन व्यभिचारवारणाय भेदेनादृष्टत्वे सति तत्समानाधिकरणत्वादिति विशेष्यं द्रष्टव्यम् । विशेष्यमात्रस्य कृष्णो देवदत्त इत्यत्र व्यभिचारवारणाय विशेषणांशः । नचैवं सति नियमपदं व्यर्थमिति वाच्यम् । तद्बलेनैव विशेष्यांशस्य सिद्धत्वादिति भावः । भेदो विशेषणस्यापीति वाक्योक्तानुमानस्य व्यभिचारं शङ्कते । ननु यथोच्यत इति ।। यथा च कर्त्तेति । एतच्च व्यभिचारचोदनं भेदाभेदौ चेत्यत्र भेदाभेदनिराकरणोपलक्षितस्यात्यन्ताभेदसाधकस्य समानाधिकरणत्वहेतोरिति द्रष्टव्यम् । उभयविशेषविशिष्टेति । नित्याभिव्यक्तव्यक्तयव्यक्तियुतविशेषविशिष्टेत्यर्थः । किं तु भेदादर्शने सतीति । अत्र क्षीरमिश्रनीरे व्यभिचारवारणाय विशेष्यांशः कृष्णो देवदत्त इत्यत्र व्यभिचारनिवारणाय विशेषणांश इति द्रष्टव्यम् । यत्किञ्चिद्वेतुबलेनेति । यत्किञ्चित्प्रतीतिकरणेत्यर्थः ।। आद्यशब्दार्थमाह । अप्रामाणिकप्रमाणविरुद्धेति । अप्रामाणिकानेककल्पनं कल्पनागौरवम् ।। मुखत उक्तम् ।। अप्रामाणिकमादिशब्देनेति भेदो द्रष्टव्यः ।। अतिप्रसङ्गत इत्यत्रातिप्रसङ्ग इति व्याख्यातुमाह ।। यदि कल्पनागौरवादिति । यो भेदाभेदाविति वस्तुस्वरूपमस्त्येवेत्यर्थः ।।
वाक्यविवेकः
अभेदेनानवस्थादेरिति । यद्यपि भेदाभेदयोर्धर्मिभ्यां भिन्नाभिन्नत्वात् न भेदपरंपरानवस्था परिहर्तुं शक्यते तथापि विशिष्टविशेष्ययोरेव भेदाभेदौ तयोस्तु धर्मिभ्यामत्यन्ताभेद इत्याशयेनानवस्थापरिहारस्योक्तत्वात् न कश्चिद्दोषः ।। अर्थतः पूर्वं सिद्धमिति ।। कर्तृत्वभोक्तृत्वादिविशेषणानां विशिष्टस्य च भेदाभेदौ न स्त इत्युक्तया अर्थात् ऐक्यं सिद्धं भवतीत्यर्थः ।।