गीता
गीता
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि
तथा शरीराणि विहाय जीर्णा
न्यन्यानि संयाति नवानि देही ।। २२ ।।
तात्पर्यम्
जीवस्यापि शरीरसंयोगवियोगावेव जनिमृती यतस्ततो न दुःखकारणमित्याह । वासांसीति ।। २२ ।।
न्यायदीपिका
नन्वस्त्वीश्वरविषये शोकाभावो जीवविषये तु भविष्यति जीवोऽनित्यस्तस्य देहयोगवियोगौ च कौमारादिवदित्युक्तेपि सर्वलोकप्रसिद्धजनिमृतिसद्भावाद्युद्धे च तत्प्राप्तेरित्या शङ्कापरिहारत्वेन श्लोकमवतारयति ।। जीवस्येति ।। शरीरयोगवियोगयोः कौमारादिवच्छोककारणत्वाभावोङ्गीकृतश्चेत्तर्हिजनिमृती अपि न शोककारणम् । यतः शरीरयोगवियोगावेव जनिमृती इत्यर्थः ।। २२ ।।
किरणावली
ननु कथं जीवविषये शोको भविष्यति । जीवः स्वरूपतो नित्यः तस्य देहयोगवियोगौच न शोककारणम् । कौमाराद्यवस्थाविशिष्टदेहयोगवियोगाभ्यां शोकादर्शनात्तद्वदुपपत्तेरित्युक्तत्वादित्यत आह ।। जीवो नित्य इति ।। कौमारादिवदित्युक्तेपि शोको भविष्यतीत्यन्वयः । कुत इत्यत आह ।। सर्वलोकेति ।। देहयोगवियोगयोः कौमारादिवच्छोककारणत्वात् भावेऽपि सर्वलोकप्रसिद्धविशेष्यहानिरूपजनिमृतिसद्भावाच्छोको भविष्यतीत्यर्थः ।। जनिमृतीति ।। लाभहानिरूपजनिमृतीत्यर्थः ।
इदमुक्तं भवति । कौमाराद्यवस्थाविशिष्टदेहहानेपि तावन्न शोक इति प्रसिद्धम् । तत्कस्य हेतोरिति वक्तव्यम् । जरादिविशिष्टदेहान्तरलाभात् हानिः समाधीयत इति चेन्न । तर्हि मरणेपि न कार्यः देहान्तरलाभात् । यदा जीर्णलाभेन समीचीनहानेः प्रतिविधानं सुतरां तदा समीचीनलाभेन जीर्णहानेः । विशेष्यभूतजीर्णवस्त्रत्यागेनाभिनववस्त्रग्रहणे क्लेशाभाववत् जीर्णशरीरविसर्जनेनाभिनवदेहान्तरलाभेपि क्लेशाभावोपपत्तेः । कौमाराद्यवस्थामात्रहानिः अत्रावस्थावतोपीत्यनुपयुक्तं वैषम्यम् । प्राणेभ्योप्यतिप्रेमास्पदनिष्कप्रदानेन पटग्रहणेपि क्लेशाभाववत्प्रियदेहत्यागेन नूतनदेहान्तरस्य ग्रहणसम्भवादिति प्रपञ्चितमेतत्प्रमेयदीपिकायाम् ।। २२ ।।
भावदीपः
मूलं योजयति ।। शरीरयोगवियोगयोरिति ।। २२ ।।
वाक्यविवेकः
जीवो नित्य इतीति । यद्यपि भवद्भिः जीवो नित्य इत्यादिकमुक्तम् ।। तथापि नास्माकं तत्र विश्वासः लोकप्रसिध्या जीवस्य देहयोगातिरिक्तजननमरणानवगमात् ततश्च युद्धगतस्य जीवस्य मरणशङ्कया शोको भविष्यत्येवेत्याशङ्कानिवर्त्तकत्त्वेन वासांसीति गीताश्लोकस्य प्रवृत्तिमभिप्रैतीत्यर्थः । एतेन तात्पर्ये एतन्मूलव्यावर्त्त्यशङ्कायाः अप्रदर्शनात् अवतारयतीत्यनुपपन्नमिति परास्तम् ।। २२ ।।