गीता
गीता
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद् युद्ध्यस्व भारत ।। १८ ।।
तात्पर्यम्
शरीरिणां तु देहहान्यादिनाशो विद्यत एव । ‘येन सर्वमिदं ततमि’ति तस्यैव लक्षणकथनात् । न जीवानां देशतो गुणतश्च पूर्णता ।
न्यायदीपिका
अस्तु हरेः सर्वप्रकारेणाविनाशित्वं तथापि कथं तस्य जीवादतिशय इत्याशङ्का परिहारायोच्यते ।। अन्तवन्त इति ।। अत्रैकस्य शरीरिणो देहनाशमात्रमुच्यत इत्यन्यथा प्रतीति निरासाय व्याचष्टे ।। शरीरिणामिति ।। ईश्वरः सर्वप्रकारेणाविनाशी । शरीरिणां तु नित्यत्वमात्रमेवास्ति । न तु सर्वप्रकारेणाविनाशित्वम् । देहहान्यादिसद्भावात् । अतोऽस्ति जीवादीश्वरस्यातिशय इति भावः ।
अस्त्वविनाशीति श्लोके भगवद्वाचकसद्भावस्तथापि येन सर्वमिदं ततं तदविनाशीति व्याप्तिरूपेणोक्तेः कथं विष्णोरेवेत्यवधार्यत इत्यत आह ।। येनेति ।। यद्यपि व्याप्तिरूपेणेदमुच्यते तथापि सर्वततत्वस्य विष्णुलक्षणत्वेन तत्रैव पर्यवसानाद्युक्तमवधारणमितिभावः ।
कथमिदमीश्वरस्य लक्षणम् । जीवानामपि कालतस्ततत्वेन तत्रातिव्याप्तेरित्यत आह ।। नेति ।। न केवलमत्र कालतस्ततिरुच्यते । अपितु देशतो गुणतश्च । न च सा जीवानामस्तीति भावः । अत्र जीवस्य प्रतिपाद्यतानिषेधपरं भाष्यममुख्यार्थपरं चानुमतमिति न तद्विरोधः । तत्र जीवेभ्योऽपि ततेराधिक्यात् । नत्वेवाहमिति पुनरुक्तेश्चेति ।।
किरणावली
अत्रैकस्य शरीरिणो देहनाशमात्रमिति ।। शरीरिण इत्येकवचनात् देहा अन्तवन्त इत्येवोक्ते दुःखप्राप्त्यपूर्णतयोरप्रतिभासाच्चेत्यर्थः । मात्रैवपदयोरन्यतरवैयर्थ्यमिति चेन्न । नित्यत्वमात्रमस्त्येवेति सम्बन्धस्य विवक्षितत्वात् । यथा चतुर्विधनाशाभावमध्ये त्रयाणामपलापस्तथास्वरूपनाशाभावस्याप्यपलापो नास्तीत्ययोगव्यवच्छेदार्थमेवकार इति द्रष्टव्यम् ।।
भगवद्वाचकसद्भाव इति ।। भगवत्प्रापकस्यापि सद्भाव इत्यर्थः ।। विष्णुलक्षणत्वेनेति ।। यथा या सास्नादिमती सा गौरिति व्याप्तिरूपेण कथनेऽपि सास्नादिमत्त्वस्य गोलक्षणत्वेन तत्रैव पर्यवसानं तथेति भावः । देशतस्तत्वं कालतस्तत्वं गुणतस्तत्वं च पृथक् पृथगेव लक्षणमुच्यत इति विभ्रम्य शङ्कते ।। कथमिदमिति ।। कालतस्ततिरेवोच्यत इति ।। लक्षणत्वेनेति शेषः ।। यद्यपि देशस्ततत्वं क्षणादिकालावयवेषु वर्णाकाशादिष्वप्यस्तीत्यतिव्याप्तिमाशङ्क्य न केवलं देशतः कालतश्च ततिर्लक्षणत्वेनोच्यते । अपि तु गुणतोऽपीति परिहरणीयम् । तथापि भगवतः पूजकाज्जीवादतिशयस्योपपादनायास्य ग्रन्थस्योपक्रान्तत्वेन प्रकृतविवक्षया कालतस्ततत्वस्य जीवसाधारण्यमाशङ्क्य देशतो गुणतश्च तस्य पूर्त्यभावेन तत्साधारण्यनिरासः कृत इत्यनुसन्धेयम् । नन्वात्मन अनादित्वेन हेतुना नित्यत्वे प्रकृतिपुरुषौ दृष्टान्तीकृत्य सङ्ग्रहेण बहुदृष्टान्तकथनायाविनाशि तु तद्विद्धीति श्लोकः प्रवृत्त इत्यभिप्रायेण भाष्ये किं बहुना यद्देशतोऽनन्तं तन्नित्यमेव वेदाद्यन्यदपीत्याहेत्यवतारितम् । अस्मिंश्च भाष्ये । किं बहुनोक्तेन पक्षीकृताज्जीवादन्यदपि यद्देशतोनन्तं वर्णाकाशादिकं तन्नित्यमनादिनित्यमेव प्रायश इति दृष्टान्तदार्ष्टान्तिकयोरुभयोरपि देशत आनन्त्यलक्षणैकधर्मावच्छिन्नयोरनादिनित्यत्वमुच्यत इति जीवस्यापि देशतः आनन्त्यं प्राप्तमिति विरोधः । किं चाविनाशीत्येतत् भगवल्लक्षणपरमित्यस्मिन्मूल उच्यते । भाष्ये तु वर्णाकाशादिपरमित्यतो विरोध इत्यत आह ।। अत्र जीवस्येति ।। अत्राविनाशीति श्लोके । जीवस्य देशानन्त्यवत्त्वेन प्रतिपाद्यताया निषेधपरं भाष्यमित्यतोऽस्य ग्रन्थस्य न तद्विरोधः शङ्कनीयः । अयमाशयः । नात्र जीवस्य देशानन्त्यमङ्गीकृत्य तदन्यदपि यद्देशतोऽनन्तं तदप्यनादिनित्यमित्युच्यते । प्रत्युतेदं भाष्यं जीवस्य देशानन्त्यवत्त्वेन प्रतिपाद्यतानिषेधपरमेव । यद्देशतोऽनन्तं पक्षीकृताज्जीवाद्विलक्षणं वेदादितदनादिनित्यमेवोपलब्धमिति तदत्र दृष्टान्तो भविष्यतीति तदर्थाङ्गीकारात् । द्वितीयं विरोधं परिहरति ।। अमुख्यार्थपरं चेति ।। भाष्यममुख्यार्थपरं चात्रास्मिन् ग्रन्थेऽनुमतमिति न विरोध इत्यर्थः । भगवतस्त्रिविधपरिच्छेदाभावप्रतिपादकतया अयं ग्रन्थोऽमुख्यार्थपरः । भाष्यं तु वर्णादेर्देशपरिच्छेदाभावमात्रपरमित्यत्रानुमतमेवेति न विरोध इति भावः । ननु भाष्यममुख्यार्थपरं चेत् वेदादौ देशतः ततत्ववत् कालतस्ततत्वस्य जीवेष्वपि सत्त्वात् सामान्येन व्याप्तिरूपेण येनेदं सर्वं ततं तदविनाशीति दृष्टान्तदार्ष्टान्तिकोभयसङ्ग्रहसम्भवात्किं भाष्ये जीवस्य प्रतिपाद्यतानिषेधे कारणमित्यत आह ।। तत्र जीवेभ्योऽपि ततेराधिक्यादिति ।। जीवेषु कालतस्ततिमात्रं वेदादौ देशतश्चेति । ततेराधिक्यात् जीवापेक्षया मुख्यत्वाद्वेदादीनामेव प्रतिपाद्यत्वं न दार्ष्टान्तिकस्यापीति भावः। तर्हि यद्देशतः कालतश्चानन्तं वेदाद्यन्यदपीति किं नोक्तमिति चेन्न । कालानन्त्यातिरिक्तानादिनित्यत्वस्याभावेन कालानंत्यस्यावच्छेदकत्वानुपपत्तेः । अत एवात्र न जीवस्य सङ्ग्रहः ।
दूषणान्तरमाह ।। नत्वेवेति ।। नत्वेवाहमित्यत्र त्वमेते जनाधिपाश्च नित्याः अनादित्वात् मद्वदित्यनुमानेन जीवनित्यत्वं साधितम् । दृष्टान्ते विप्रतिपत्ताववच्छेदकोक्तया बहुदृष्टान्तोपादानायाविनाशित्विति श्लोकः प्रवृत्तः । तथाचात्र तन्मात्रे वक्तव्ये पुनर्जीवस्याविनाशित्वप्रतिज्ञानं नत्वेवाहमित्यनेन पुनरुक्तं स्यादिति भावः । यद्वा । ननु भाष्ये जीवनित्यत्वे बहुदृष्टान्तप्रदर्शनायाविनाशीति श्लोकस्य व्याख्यातत्वात्कथमिदं भगवद्विषयं व्याख्यायत इत्यत आह ।। अत्र जीवस्येति ।। अत्राविनाशित्विति श्लोके जीवस्य नित्यत्वे दृष्टान्तप्रदर्शनेन जीवस्य प्रतिपाद्यताया अनिषेधपरं भाष्यं अमुख्यार्थपरम् । चोप्यर्थः । अमुख्यार्थजीवादिपरमप्यनुमतमिति न भाष्यविरोधोऽस्य ग्रन्थस्येत्यर्थः । जीवस्य नित्यत्वे दृष्टान्तप्रदर्शनपरत्वे कुतोऽमुख्यत्वमित्यत आह ।। तत्रेति ।। हरावित्यर्थः । इतश्च भाष्यममुख्यार्थपरमित्याह ।। नत्वेवाहमितीति ।। नत्वेवाहमित्यत्रेश्वरदृष्टान्तेन जीवस्यानादिनित्यत्वमुक्तमत्र तूभयोरनादिनित्यत्वेऽतिशयाभावात्किं तत्पूजयेत्येतदाशङ्कावारणाय त्रिविधपरिच्छेदाभावलक्षणो विशेषो भगवतोऽभिधीयत इति व्याख्याने स्फुटमर्थभेदसम्भवात्तद्विहाय जीवस्यानादित्वहेतुनानित्यत्वे साध्ये दृष्टान्तान्तरकथनपरमिति कथंचिदर्थभेदकथनं पुनरुक्तप्रायमेव । दृष्टान्तान्तरेणापि जीवे नित्यत्वस्यैव साधनाद्धेतुविशेषानुपन्यासात् । भाष्ये तु मुख्यार्थे सिद्धे गौणमर्थान्तरमुक्तमिति भावः ।।
भावदीपः
अत्र जीवस्येति ।। अत्र अविनाशि त्विति श्लोके जीवस्य प्रतिपाद्यतायाश्च निषेध्यतापरं भाष्यममुख्यार्थपरम् । चोऽप्यर्थः । अमुख्यार्थजीवादिपरमनुमतमिति न भाष्यविरोधोऽस्य मूलस्येत्यर्थः । जीवपरत्वेऽमुख्यत्वं कुत इत्यत आह ।। तत्रेति । हरावित्यर्थः । तर्हि मुख्यार्थविष्णुपर एवायं श्लोकोऽस्त्वित्यत आह ।। न त्वेवाहमिति ।।
भावप्रकाशः
शरीरिण इत्येकवचनानुसारेणाह । अत्रैकस्येति ।। शरीरिणांत्विति । शरीरिण इत्येकवचनं तु जात्यभिप्रायमिति भावः ।। नित्यत्वमात्रमेवेति । स्वरूपनाशाभावमात्रमित्यर्थः । सर्वततत्वस्येति । सर्वव्यापित्वस्येत्यर्थः । जीवानामपीति । उपलक्षणमेतत् । काललक्षणानां देशतस्ततत्वात्तत्रातिव्याप्तेरित्यपि द्रष्टव्यम् ।। न च सा जीवानामिति ।। एवं काललक्षणानामपि नास्तीति द्रष्टव्यम् ।। ननु किंबहुना यद्देशतोऽनन्तं तन्नित्यमेव वेदादयन्यदपीत्याह ।। अविनाशीतीति भाष्ये वेदादीत्यादिपदेन काललक्षणानां देशतोऽनन्तमित्यस्योपलक्षणत्वसम्भवेन जीवानां चाविनाशीति श्लोकेप्रतिपाद्यत्वस्याभिमतत्वादत्र न जीवानां देशतो गुणतश्च पूर्णतेति तन्निषेधाद्भाष्यविरोधः स्यादित्यत आह । अत्र जीवस्येति ।। अत्र भाष्यमनुमितमिति सम्बन्धः ।। ननु तत्र जीवस्य प्रतिपाद्यताङ्गीकारादत्र तन्निषेधात्कथमनुमतमित्यत आह । जीवस्य प्रतिपाद्यतानिषेधपरमिति ।। देशतोऽनन्तमित्युक्तत्वात्तस्य चोपलक्षणत्वे ज्ञापकाभावाद्भाष्ये जीवस्य प्रतिपाद्यतानिषेध एवाभिमत इति भावः ।। ननु तथापि भाष्ये वेदादीनां प्रतिपाद्यताङ्गीकारादत्र च गुणतस्ततत्वकथनेन तन्निषेधाद्विरोध इत्यत आह । अमुख्यार्थपरंचेति ।। तथा च येन सर्वमिदं ततमित्यस्यामुख्यार्थविवक्षया भाष्ये वेदादेः प्रतिपाद्यत्वमुक्तं अत्र तु मुख्यार्थविविक्षया तन्निषेधः कृत इति न विरोध इति भावः ।। ननु भाष्यममुख्यार्थपरं चेत्कालतः ततत्वस्य जीवेष्वपि सत्वात् जीवानामपि प्रतिपाद्यत्वं भाष्ये किमिति नोक्तमित्यत आह । तत्र जीवेभ्योऽपि ततेराधिक्यादिति ।। तत्र वेदादिषु देशतः कालतश्च ततत्वस्य सत्वेन जीवापेक्षयापि मुख्यत्वात् वेदादीनामेव प्रतिपाद्यत्वं नतु जीवानामित्यर्थः ।। दूषणान्तरमाह । नत्वेवाहमिति पुनरुक्तेश्चेति । नत्वेवाहमिति श्लोके जीवनित्यत्वस्योक्तत्वादत्रापि तदुक्तौ पुनरुक्तिः स्यादिति भावः ।। न च नत्वेवाहमिति इश्वरनित्यत्वस्याप्युक्तत्वादीश्वरस्याविनाशीति श्लोकप्रतिपाद्यत्वमिति पक्षेऽपि पुनरुक्तिः स्यादिति वाच्यम् ।। पूर्वं नित्यत्वमात्रस्योक्तत्वेनात्र च विशेषतो नित्यत्वस्योच्यमानत्वेनार्थभेदात् ।। जीवस्यच विशेषनित्यत्वस्याभावेनैव पुनरुक्तिपरिहारसम्भवादिति ।
वाक्यविवेकः
इतः परं टीकाभेदेन वाक्यं भिद्यते । तथाहि ।। अस्तु हरेः सर्वप्रकारेण विनाशित्वम् । तथापि कथं तस्य जीवादतिशय इत्याशङ्का परिहाराय अतवन्त इत्यर्धं व्याचष्टे । शरीरिणमिति । इत्येकत्र पाठः– टीकान्तरेतु अस्तु हरेः सर्वप्रकारेणाविनाशित्वम् । तथापि कथं तस्य जीवादतिशय इत्याशङ्कापरिहारायोक्तमन्तवन्त इति ।। तत्रैकस्य शरीरिणो देहनाशमात्रमुच्यते इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे । शरीरिणामिति इति पाठः ।
येन सर्वमिदं ततमित्यनेन कालतस्ततिरेवोच्यत इति मन्यमानः शङ्कते । कथमिदमिति । ननु मुख्यार्थपरेण भाष्येण जीवोऽपि श्लोकार्थतया कुतोन सङ्ग्रहीत इत्यतः जीवादपि वेदादेरतिशयं द्योतयितुं जीवो न संगृहीत इति भावेनाह । तत्र जीवेभ्योऽपीति । जीवग्रहणे बाधकं चास्तीत्याह । नत्वेवाहमितीति ।