तात्पर्यम्
तात्पर्यम्
—न च
‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ ।
‘यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति’ ।
‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ । ‘अविनाशित्वान्न तु तद्द्वितीयमस्ति । ततोऽन्यद्विभक्तं यत्पश्येत्’ । ‘परमं ब्रह्म वेद ब्रह्मैव भवति’ । ‘‘तत् त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्यादि वाक्यविरोधः ।
मुक्तानां स्वरूपज्ञानमस्ति न वृत्तिज्ञानं
‘संज्ञानाशो यदि भवेत्किमुक्त्या नः प्रयोजनम् ।
मोहं मां प्रापयामास भवानत्रेति चोदितः ।
याज्ञवल्क्यः प्रियामाह नाहं मोहं ब्रवीमि ते ।
भूतजज्ञानलोपः स्यान्निजं ज्ञानं न लुप्यते ।
न च ज्ञेयविनाशः स्यादात्मनाशः कुतः पुनः ।
मुक्तावपि वैषयिकभोगाः सन्ति
स्वभावतः पराद्विष्णोर्विश्वं भिन्नमपि स्फुटम् ।
अस्वातन्त्र्याद्भिन्नमिव स्थितमेव यदीदृशम् ।
तदा घ्रणादिभोगः स्यात्स्वरूपज्ञानशक्तितः ।
तदात्मानुभवोऽपि स्यादीश्वरज्ञानमेव च ।
यदाऽन्यं न विजानाति नात्मानं नेश्वरं तथा ।
पुरुषार्थता कुतस्तु स्यात्तदभावाय को यतेत्
तस्मात्स्वभावज्ञानेन भिन्ना विष्णुसमीपगाः ।
भुञ्जते सर्वभोगांश्च मुक्तिरेषा न चान्यथा ।
प्रकाशिका
न च यत्रेत्यादिना श्रुतिभिः अभेदमुक्तमाशङ्क्य भेदपरत्वेन ताः श्रुतीः श्रुन्त्यतरैर्व्याचष्टे ।। संज्ञेत्यादिनाऽर्थान्तरस्यैवावगमादित्यन्तेत ।।
न्यायदीपिका
तथापि न जीवेशभेदो युक्तः । तदभेदाभिधायकश्रुतिविरोधादित्यत आह ।। नचेति ।। कुतो नविरोध इति चेत् अर्थान्तरसम्भवात् । प्रतीत एवार्थः किं नस्यादिति चेन्न । श्रुत्यन्तरेभ्य एवार्थान्तरस्यावगमादित्याह ।। संज्ञेति ।। प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति । न प्रेत्य संज्ञास्तीति याज्ञवल्क्यवाक्यानन्तरं तदभिप्रायमजानंत्या मैत्रेय्याश्चोद्यवाक्यम् । अत्रैव मा भगवान्मोहान्तमापीपन्नप्रेत्य संज्ञास्तीति । तदर्थ उच्यते संज्ञेति । यदि मोक्षे ज्ञानं नश्येत्तर्हितस्यापुरुषार्थत्वं स्यात् । भवति चासौ पुरुषार्थः । अतस्तत्र ज्ञानाभाववचनं मोहकमेवेत्यर्थः । सहोवाच नवा ओ अहं मोहं ब्रवीमीत्यस्यार्थ इतीति । ज्ञाननाशकथनं मोहकमित्यत उच्यते । अविनाशी वा ओ अयमात्मानुच्छित्ति धर्मेति । तस्यार्थो भूतजेति । तत्र भौतिकज्ञानं लुप्यत इति मद्वाक्यार्थो न तु निजज्ञानमपीत्यतो न मद्वाक्यं मोहकमिति भावः । भूतजानाममुक्तानामेतद्विषये ज्ञानं लुप्यत इति वा ।
कुतो निजं ज्ञानं नलुप्यत इत्यत आह ।। नचेति ।। आत्मनाशः आत्मस्वरूपभूतज्ञाननाशः । आत्मातिरिक्तमपि यदा न नश्यति तदा किं वाच्यमति प्रेमास्पदात्म स्वरूपज्ञानं न नश्यतीत्यर्थः । ज्ञेयानाशोपि कुत इत्याशङ्कापरिहाररूपं यत्र हि द्वैतमिव भवति । तदितर इतरं पश्यति तदितर इतरं जिघ्रति । यत्रत्वस्य सर्वमात्मैवाभूत्तत्केनकं पश्येत्केन किं जिघ्रेद्येनेदं सर्वं विजानाति तं च केन विजानीयात् । विज्ञातारमरे केनविजानीयादिति वाक्यं व्याख्यायते ।। स्वभावत इति ।। आत्मातिरेकेण ज्ञेयसद्भाव एव घ्राणादिभोगस्येश्वरज्ञानस्यात्मज्ञानस्य च सम्भवादन्यथासम्भवाज्ज्ञेयसद्भावोङ्गीकार्य इत्यर्थः । निर्विशेषाद्वैते कर्मकर्तृभावविरोधात् । स्वज्ञानं च नोपपद्यते । यो ज्ञेयाभावेभोगाद्यसम्भव उक्तः सोऽप्यस्त्वित्य आह ।। यदेति ।। अन्यद्गन्धादि । कथं भोगाद्यभावे पुरुषार्थताभाव इत्यत आह ।। तदिति ।। पुरुषेणार्थ्योऽहि पुरुषार्थः । नहि भोगाद्यभावं पुरुषोऽर्थयते । तदर्थं यततेवा । अतोभोगाद्यभावरूपो मोक्षो न पुरुषार्थ इत्यर्थः । एतावदरे खल्वमृतत्वमित्युपसंहारवाक्यं व्याक्रियते ।। तस्मादिति ।। भोगाद्यभावेऽपुरुषार्थत्वप्रसक्तेर्भोगाद्यङ्गीकार्यम् । भोगादिसम्भवाच्च भिन्ना विषयादयः ।। ततश्च स्वरूपज्ञानमिति भावः ।
किरणावली
यत्र त्वस्य सर्वमात्मैवाभूदित्यादेरेव साक्षादभेदाभिधायकत्वेन मुखत उपादानेऽपि प्रकरणपरिशुद्ध्या प्रमाणेन व्याख्यातुं प्रवृत्तं संज्ञानाश इत्यादिकं सङ्गमयति ।। प्रज्ञानघन एवेति ।। ज्ञानाभाववचनं मोहकमेवेति ।। न प्रेत्य संज्ञास्तीति वचनेन मोहान्तं मोहो मिथ्याज्ञानं तल्लक्षणं विनाशमापीपत्प्रापयामासेत्युक्तया ज्ञानाभाववचनं मोहकमेवेति तयोक्तमिति भावः । न वा ओ मोहं ब्रवीमीत्यत्र मुह्यतेऽनेनेति मोहो मोहकं वचनमित्यर्थः ।। अस्यार्थ इतीति ।। ओ अयमात्माऽविनाशी अनुच्छित्तिधर्मा अनुच्छित्तिर्धर्मो यस्य सोऽनुच्छित्तिधर्मा । तथा च स्वरूपमात्रस्य नाशाभावाद्धर्मनाशस्य तात्विकत्वात् । न वा ओ मोहं ब्रवीमीत्यपव्याख्याननिरासाय तस्यार्थ उच्यत इत्यर्थः। ओ विज्ञानघनोऽयमात्माऽविनाश्यतोऽनुच्छित्तिधर्मा । न विद्यते उच्छित्तिर्येषान्तेऽनुच्छित्तयः । अनुच्छित्तयो ज्ञानादिधर्मा यस्य सोऽनुच्छित्तिधर्मा । ज्ञानोच्छित्तौ स्वरूपस्यैव नाशप्राप्तेरित्युक्तया वृत्तिज्ञानलोपाभिप्रायेण प्राक् प्रेत्य मुक्तयनन्तरं संज्ञा वृत्तिज्ञानं नास्तीत्युक्तमित्युपनिषल्लब्धमर्थमभिप्रेत्य भावमाह ।। भौतिकज्ञानमिति ।। उक्तं चानुव्याख्याने । याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् । ज्ञानरूपस्य विज्ञाननाशस्तन्नाश एव यदित्यादिना । यद्यपि मनस्त्रिगुणात्मकम् । तथापि भूतैरुपचितत्वात् ज्ञानस्य भूतजत्वोक्तिः । संज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेतिहि । धर्मानुच्छित्तिमेवास्य यतो वक्तयुत्तरश्रुतिरित्यनुव्याख्यानं मनसि निधाय भूतजज्ञानलोपः स्यादित्येतत् प्रकारान्तरेण व्याकुर्वन्नभिप्रायमाह ।। भूतजानामिति ।। भौतिकदेहवताममुक्तानां मुक्तविषये ज्ञानं लुप्यते । मुच्यमानानां विषये मुक्तिपर्यन्तमनुवृत्तं ज्ञानं मुक्तयनन्तरं लुप्यति इति वा मद्वाक्यार्थ इत्यन्वयः । एतेन न प्रेत्य संज्ञास्तीत्यस्य प्रेत्यस्थितानां मुक्तानां विषये अमुक्तानां संज्ञा नास्तीत्यर्थ उक्तो भवति ।। कुतो निजं ज्ञानं न लुप्यत इत्यत आहेति ।। कुतो निजं ज्ञानं न लुप्यत इत्यतः मात्रासंसर्गस्तस्य भवतीति माध्यंदिनश्रुतिवाक्यतात्पर्यमाहेत्यर्थः । तथाचोक्तमनुव्याख्याने । मात्रासंसर्गमप्याह तथा माध्यन्दिनश्रुतिरिति । मीयन्त इति मात्रा रूपादयो विषयास्तेषां संसर्गस्तस्य भवतीति श्रुत्यर्थः । अस्य वाक्यस्य काण्वशाखायामदर्शनेऽपि मैत्रेयीयाज्ञवल्क्यसंवादरूपायां माध्यन्दिनश्रुतौ सत्त्वात् । संयोज्य व्याख्यातं बोध्यम् ।।
व्याख्यायत इति ।। यत्र हि द्वैतमिव भवतीत्यस्य यत्र संसारे द्वैतमिव भिन्नमिव भवति । वस्तुतो न भेदः । औपाधिकत्वात् मिथ्यात्वाद्वा । तदा इतर इतरं पश्यतीत्यादि युज्यते । यत्र यदा मुक्तयवस्थायां सर्वमात्मैवाभूदात्मव्यतिरेकेण किमपि नास्ति तदा केन कं पश्येदित्याद्यपव्याख्याननिवारणाय व्याख्यायत इत्यर्थः । द्वयोर्भावो द्विता भेद इति यावत् । द्विताया इदं धर्मि द्वैतं भिन्नमिति यावत् । यत्रेति यदीत्यर्थः । तदित्यस्य तर्हीत्यर्थः । हिशब्दोऽवधारणे भवत्येवेत्यन्वय इति भावेनोक्तं विष्णो स्फुटं भिन्नमत्यन्तभिन्नं विश्वं यदि मुक्तयवस्थायामपीदृशं भवत्येवाबाधितं स्थितमेव भवेत्तर्हि तदाघ्राणादिभोगः स्यादिति भेदस्यानौपाधिकत्वे अनारोपितत्वे च द्वैतमिवेति कथमुक्तमित्यत उक्तम् । स्वभावतः स्फुटं भिन्नमत्यन्तभिन्नमपीदृशमबाधितमप्यस्वातन्त्र्याद्भिन्नमिवेत्युक्तमिति शेषः । उपनिषदीतर इतरं विजानातीत्यन्तमुपलक्षणम् । स्वयं स्वात्मानमनुभवतीश्वरं च विजानातीत्यपि द्रष्टव्यमिति भावेनोक्तम् । तदात्मानुभवोऽपि स्यादीश्वरज्ञानमेव चेति तदैवेत्येवकारान्वयः । तदैव घ्राणादिभोगः स्वात्मानुभव ईश्वरज्ञानं च स्यादिति द्योतितत्वेन यत्रत्वस्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेदित्यादि व्याख्यातम् । तथा च यत्र त्वस्येत्यनेन यदि निर्विशेषचैतन्यमात्रमवशिष्यते न किमपि चैतन्यातिरिक्तं वस्त्विति मतं स्यात् तदा घ्राणादिना गन्धादिभोगः स्वानुभव ईश्वरज्ञानं च न स्यात् । भवितव्यं च तेन तस्मात् ज्ञेयसद्भावोऽङ्गीकार्य इत्यापादनं विपर्ययपर्यवसानं च विवक्षितम् । तत्र व्यतिरेकव्याप्त्युपपादनाय यत्र हि द्वैतमिव भवतीत्यादिप्रवृत्तिमित्यभिप्रायेण व्याचष्टे ।। आत्मातिरेकेणेति यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीति वाजसनेये चतुर्थाध्याये दर्शनस्यादित्वेन ग्रहणेऽपि द्वितीयाध्याये यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यतीति पाठात् । तदनुसारेण तदा घ्राणादिभोगस्यादिति मूलटीकाप्रवृत्तिरिति ज्ञेयम् । ननु तदात्मानुभवोऽपि न स्यादित्ययुक्तम् । आत्मातिरिक्तज्ञेयाभावेन तज्ज्ञानाभावेऽपि स्वप्रकाशत्वेनात्मानुभवोपपत्तेरित्यत आह ।। निर्विशेषाद्वैत इति ।। यती प्रयत्न इति धातोरात्मनेपदत्वादाह ।। यतते वेति ।। उपसंहारवाक्यमिति ।। एतावदेव खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहारेत्युक्ततर्काणां विपर्यये पर्यवसानमुखेन चतुर्थाध्याये विद्योपसंहारवाक्यमित्यर्थः ।
भावप्रकाशः
प्रज्ञानघन एवेति । प्रज्ञानमूर्तिरयमात्मानादिरपि चरमे जन्मनि एतेभ्यो भूतेभ्यः समुत्थाय भूतात्मकशरीरोत्पत्तिनिमित्तोत्पन्नव्यवहारविषयो भूत्वा पुनस्तानि भूतान्यन्वेव तन्नाशनिमित्तमेव नित्योपि विनश्यति । नष्टव्यवहारगोचरो भवति अपवृज्यत इति यावत् । ततः प्रेत्य मोक्षानन्तरं अस्य मुक्तस्य संज्ञा ज्ञानं नास्तीति याज्ञवल्क्यवाक्यानन्तरमित्यर्थः ।। अभिप्रायमजानंत्या इति ।। भूतजज्ञानलोपः स्यादिति वक्ष्यमाणमभिप्रायमजानन्त्या इत्यर्थः ।। अत्रैवेति ।। भगवानत्रैवावश्यवेदितव्य एव विषये मा मां मोहान्तं मोहाख्यविनाशमपीपदत् ।। प्रापितवान् । कथं प्रेत्य मोक्षानन्तरं संज्ञा ज्ञानं नास्तीत्यर्थः । तस्यापुरुषार्थत्वं स्यादिति । मग्नस्य हि परे ज्ञाने किं नदुःखतरं भवेदिति मोक्षधर्मवचनादित्यर्थः । स होवाचेति ।। ओ मैत्रेयि ज्ञानोपदेशाय प्रवृत्तोऽहं परमप्रियायै ते मोहकं न वदामीत्यर्थः ।। मद्वाक्यार्थ इति ।। न प्रेत्यसंज्ञास्तीति वाक्यार्थ इत्यर्थः ।। नतु निजज्ञानमपीति ।। अनेन न विद्यते उच्छित्तिर्येषां तेऽनुच्छित्तयः, अनुच्छित्तयो धर्मा यस्यासावनुच्छित्तिधर्मेति विग्रहः सूचितो भवति । ननु उच्छित्तिः धर्मो यस्यासावुच्छित्तिधर्मानोच्छित्तिधर्माऽनुछित्तिधर्मेति स्वरूपनाश एवोच्यते । नतु धर्मानुछित्तिरिति चेत् स्वरूपनाशस्याविनाशीत्यनेनैवोक्तत्वात् ।। निर्विकारत्वं तेनोक्तमिति चेत्तथाप्यनुछित्तिरिति बहव्रीहिणैव पूर्णत्वात् धर्मपदवैय्यर्थ्यादिति । तस्मादमुक्तैर्न ज्ञायत इति संज्ञा नास्तीत्युक्तमिति बृहद्भाष्यानुसारेण प्रकारान्तरेण योजयति ।। भूतजानाममुक्तानामिति ।। ज्ञानं लुप्यत इति । अस्मदादीनां मुक्तविषयाकापरोक्षज्ञानं नास्तीत्यर्थः ।। यथाश्रुते नारदादीनां मुक्तविषयकापरोक्षज्ञानस्यास्मदादीनां तद्विषयकापरोक्षज्ञानस्य च सत्वेनानुपपत्तिः स्यादिति भावः । इति वेत्यस्य मद्वाक्यार्थ इत्यनेन सम्बन्धः ।। उपलक्षणमेतत् । मुक्तानां संज्ञाप्यन्यैर्न ज्ञायते । शास्त्रं विनेति बृहद्भाष्यानुसारेण प्रेत्य मुक्तयनन्तरं संज्ञा मुक्तानां नास्ति । अस्मदादिभिः शास्त्रं विना न ज्ञायत इत्यप्यर्थो द्रष्टव्यः ।। अत एव सुधायामित्यादिरेव मद्वाक्यार्थ इत्यत्रादिपदप्रक्षेप इति भावः ।
निजं ज्ञानं न लुप्यत इति पूर्ववाक्यानुसारेण व्याचष्टे ।। आत्मस्वरूपभूतेति ।। यत्र हि द्वैतमिव भवतीति । द्वयोर्भावो द्विता भेद इति यावत् । तस्या इदं धर्मि द्वैतम् । भिन्नं वस्त्वित्यर्थः ।। अत्र द्वैतस्य पारतन्त्र्यादिवशब्दः । यत्र द्वैतसद्भावः तत्रैव दर्शनादिभोगो द्रष्ट इति व्यतिरेकव्याप्तिरनेनोक्ता ।। इदानीं प्रसङ्गमाह । यत्रत्वस्येति । यदि निर्विशेष्यचैतन्यमात्रमविशिष्यते न किमपि वस्त्विति मतं स्यात्तदा दर्शनघ्राणादिभोगो न स्यात् । तथा येनेश्वरेणेदं सर्वं जीवो विजानाति तज्ज्ञानाभावश्च प्रसज्यते ।। एवं विज्ञातुरात्मनो ज्ञानं न स्यात् निर्विशेषत्वेन कर्तृकर्मभावविरोधादित्यापादनमेवास्य वाक्यस्यार्थः ।। नवा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्यामित्युक्तत्वात्पुरुषार्थतेत्यत्रैकाक्षराधिकत्वेऽपि न दोषः । यती प्रयतन इति धातोरात्मनेपदित्वादाह । यतते वेति ।
वाक्यविवेकः
ननु ज्ञेयाभावे घ्राणादिभोगाभावः, इश्वरज्ञानाभावश्चास्तु । आत्मज्ञानाभावः कुतः इत्यत आह । निर्विशेषाद्वैत इति । आत्मातिरिक्तस्य ज्ञेयस्य मिथ्यात्वाङ्गीकारे निर्विशेषाद्वेतवादः अङ्गीकृतो भवति । ततश्चात्मज्ञानाभावश्च प्राप्नोति । ज्ञातृज्ञेयभावनिर्वाहकयोर्भेदविशेषयोरभावात् इति भावः । मूले यतेदिति । चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदमिति वचनात् यतेदिति परस्मैपदं साधु ।