गीता

गीता

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।

रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ।। १७ ।।

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ।। १८ ।।

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।

रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ।। १९ ।।

परस्तस्मात्तुभावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।

यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ।। २० ।।

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ।। २१ ।।

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।

यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ।। २२ ।।

तात्पर्यम्

सहस्रमिति बह्वेव । ब्रह्मणः परब्रह्मणः ।

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके’ इति वाक्यशेषात् ।

नहि विरिञ्चाहन्येव सर्वव्यक्तलयः ।

नित्यस्यापि हरेः कालो द्विपरार्धात्मकस्त्वयम् ।

अहः श्वासो निमेषश्चेत्यप्रवृत्त्योपचर्यते’ इति च ।। १७ ।।

प्रकाशिका

‘सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो दिनम्’ इत्यादेरर्थमाह ।। सहस्रमित्यादिना ।। यत्परब्रह्मणोऽहस्तदनेकसहस्रयुगपर्यन्तं द्विपरार्धात्मकं रात्रिश्चाहरादीत्युच्यते । ‘अव्यक्ताः सर्वाः प्रभवन्त्यहरागमे इत्यादि वाक्यशेषविरोधात् । न हि विरिञ्चाहरागमे सर्वपदार्थोत्पत्तिर्युज्यत इत्यर्थः । कालप्रवृत्तिकृतविकाराभावात् विष्णोरहरादि कल्पनम् औपचारिकमित्याह ।। नित्यस्येति

।। १७२२ ।।

न्यायदीपिका

मत्प्राप्तावेवापुनरावृत्तिरित्युक्तस्थापनायाशेषसृष्टिप्रलयादिकर्तृत्वमात्मन उच्यते ।। सहस्रेति ।। तत्र सहस्रपदं दशशतवाचीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे ।। सहस्रमिति ।। बह्वेव प्रसिद्धसहस्रादिति शेषः । ननु चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यत इत्यादौ युगसहस्रमात्रस्य विरिंचदिनादित्वेनोक्तत्वात्कथं सहस्रपदं ततोऽपि बह्वर्थमित्यत आह ।। ब्रह्मण इति ।। नात्र चतुर्मुखस्याहोरात्रमुच्यते येन सहस्रपदं ततोऽपि बह्वर्थं नस्यात् । किं तु परब्रह्मणो द्विपरार्धात्मकमहोरात्रमिति भावः । कुतो ब्रह्मपदेन परब्रह्मेत्यङ्गीकृत्य तदहोरात्रपरत्वमुच्यते । विरिंचाहोरात्रपरत्वं किं नस्यादित्यत आह ।। अव्यक्तादिति ।। एवं वाक्यशेषसद्भावेऽपि कुतो नास्य विरिंचाहोरात्रपरत्वमित्यत आह ।। नहीति ।। अहनीति तदवसान इत्यर्थः । एवं नाहरागमे सर्वव्यक्तिप्रभव इत्यपि द्रष्टव्यम् । ननु कथं भगवतोऽहोरात्रसद्भावः । कालकृतविकाराभावात् । परनामनिमेषकान्त इत्यादौ द्विपरार्धकालस्य निमेषत्वेनोक्तत्वाच्चेत्याशङ्कां स्मृत्यैव परिहरति ।। नित्यस्येति ।। निर्विकारस्येत्यर्थः । उपचारे बीजमप्रवृत्त्येति । रात्राविव प्रलयकाले प्रवृत्त्यभावादन्हीवान्यदा प्रवृत्तिसद्भावात् प्रलयादिकालो रात्र्यादित्वेनोपचर्यत इत्यर्थः ।। १७२२ ।।

किरणावली

तत्र सहस्रपदमिति ।। सहस्रयुगपर्यन्तं युगसहस्रान्तां इत्युभयत्रेत्यर्थः । उपलक्षणमेतत् । सहस्रवृत्तं तदहः स्वयं भुवोनिशाचतन्मानमितमित्यादौ रात्रित्वेनोक्तत्वाच्चेति द्रष्टव्यम् ।। द्विपरार्धात्मकमहोरात्रमिति ।। द्विपरार्धात्मकमहरिति द्विपरार्धात्मिका रात्रिरिति योज्यम् । रात्र्यागमे प्रलीयन्त इत्युक्तत्वात्कथमहनीत्युच्यत इत्यत आह ।। अहनीति तदवसान इति ।। ननु नित्यस्य जीवस्यास्त्येवाहोरात्र सद्भाव इति नित्यत्वमहोरात्र सद्भावेन विरोधीत्यतः कालकृतविकाराभावादिति शङ्कानुसारेण व्याचष्टे ।। निर्विकारस्येत्यर्थ इति ।। नित्यत्वं शश्वदेकविधतया विवक्षितमिति भावः ।। उपचारेबीजमिति ।। उपचारे गौणीवृत्तौ प्रवृत्तिनिमित्तातिरिक्तधर्मेण सादृश्यरूपं बीजमित्यर्थः ।। १७२२ ।।

भावदीपः

द्विपरार्धात्मकेति ।। ब्रह्मण आयुःशतं परसंज्ञकं तस्यार्धद्वयात्मकेत्यर्थः ।। तेऽर्चिषमभिसम्भवन्तीति श्रुतिः । अर्चिरादिनेति तु सूत्रम् । अर्चिर्ज्योतिःपदयोरेकार्थत्वात् ज्योतिषः प्रथमप्राप्यतयेत्युक्तम् ।। १७२२ ।।

भावप्रकाशः

बहुत्वस्य त्रित्वे पर्यवसानमित्यन्यथाप्रतीतिनिरासायाह ।। प्रसिद्धसहस्रादिति ।। द्विपरार्धात्मकमिति । ब्रह्मवर्षशतात्मकमहस्तावत्परिमिता रात्रिश्चेत्यर्थः ।। ननु परमात्माहन्यपि सर्वव्यक्तिप्रलयाभावात् किं विशिष्याभिधीयते विरिञ्चाहनीतीत्यत आह । अहनीति । तदवसान इति । अव्यक्ताद्व्यक्तय इति वाक्यशेषसूचितां युक्तिमाह ।। एवं नाहरागम इति । निमेषत्वेनोक्तत्वाच्चेति । तथा चात्र द्विपरार्धात्मककालस्याहोरात्रत्वकथने तद्विरोधः स्यादिति भावः ।। ननु नित्यत्वेन कालकृतविनाशाभावेऽपि तत्कृतवलीपलितादिविकारसम्भवात्किमर्थमहरादेत्रौपचारिकत्वमित्याशङ्कापरिहाराय व्याचष्टे । निर्विकारस्येत्यर्थ इति ।। नन्वप्रवृत्याहस्त्वेनोपचर्यते इत्यनुपपन्नमह्नि अप्रवृत्तेरभावादित्यत आह । रात्राविव प्रलयकाल इति ।। १७२२ ।।

वाक्यविवेकः

अहनि लयाभावादाह ।। तदवसान इति ।। २२ ।।