तात्पर्यम्
तात्पर्यम्
भ्रम इत्यस्यैव भ्रमत्वे अन्यस्या भ्रमत्वमेव भवति । सुखदुःखादिविषयं ज्ञानमात्मस्वरूपमेवेति तस्य भ्रमत्वे छद्मना विनैव शून्यवादो भवति । नहि वृत्तिज्ञानविषयमज्ञानादिकं तेषामपि । भ्रमस्य चाविद्याकार्यत्वाङ्गीकारात् । आत्मस्वरूपस्याप्यविद्याकार्यत्वं स्यात् । दुर्घटत्वं भूषणमित्युक्ते दुर्घटत्वं सुघटत्वं चोभयं भूषणमस्माकमित्युत्तरम् । नहि प्रमाणसिद्धस्य दुर्घटत्वे वाऽपवादो दृष्टः । दुर्घटत्वं भूषणमिति वदद्भिरात्मनोऽप्यविद्यात्वमङ्गीकृत्य तदयुक्तमित्युक्ते तत्रापि भूषणत्वं किमिति नाङ्गीक्रियते ? अतिसुकरत्वात् । नचाऽत्मनोऽप्यविद्यात्वं वदतां तेषामुत्तरम् । अतोऽनन्तदोषदुष्टत्वाद्धीति प्रसिद्ध्यैव भगवता निराकृताः ।। २२ ।।
न्यायदीपिका
सुखाद्यनुभवो भ्रम इत्यर्थसाधकश्रुतेः प्रामाण्यासिद्धेर्न तया सुखाद्यनुभवस्य भ्रमत्वसिद्धिरित्युक्तम् । अथ तस्य श्रौतानुभवस्यापि भ्रमत्वोपपत्त्या सुखाद्यनुभवस्याभ्रमत्वमेव भवति । नतु तेन तस्य भ्रमत्वसिद्धिः । परस्परविरुद्धयोरन्यतरनिषेधस्येतरविधिनान्तरीयकत्वादिति भावेनाह ।। भ्रम इति ।। इतोऽपि न सुखाद्यनुभवस्य भ्रमत्वमित्याह ।। सुखेति ।। यदि सुखाद्यनुभवो भ्रमस्तर्हि यत्प्रच्छन्नं नैरात्म्यमतमङ्गीकृतं तत्प्रकटितं स्यात् । सुखादिविषयानुभवस्यात्मस्वरूपत्वादित्यर्थः । सुखादिविषयानुभवस्यात्मरूपत्वं भवन्मत एव नास्मन्मते । किंतु मनोवृत्तिरूपत्वमेवेत्यतोऽपसिद्धान्त इत्याह ।। नहीति ।। नन्वस्तु सुखाद्यनुभवस्य भ्रमत्वमात्मस्वरूपत्वं च । तथापि कथमात्माभावप्रसङ्ग इत्यत आह ।। भ्रमस्येति ।। सुखादिविषयानुभवस्य भ्रमत्वेऽविद्याकार्यत्वं स्यात् । भ्रमस्याविद्याकार्यत्वाङ्गीकारात् । तथाचात्मनोऽप्यविद्याकार्यत्वं स्यात् । सुखादिविषयानुभवस्यात्मस्वरूपत्वात् । अविद्याकार्यत्वे चात्मनो मिथ्यात्वं दुर्निवारमिति भावः ।
अस्त्वेवमात्मनो युक्तया दुर्घटत्वम् । तथापि न तद्बाधकम् । आत्मनः प्रमाणसिद्धत्वात् । नहि प्रमाणसिद्धस्य युक्तया दुर्घटत्वमात्रेण बाधोऽस्तीत्याशङ्क्य परिहरति ।। दुर्घटत्वमिति ।। यद्यात्मनः प्रामाणिकत्वाद्युक्तया दुर्घटत्वमपि न बाधकमित्युच्यते । तर्हि सुखादीनामपि दुर्घटत्वं सुघटत्वं वास्तु । न तद्बाधकं प्रमाणसिद्धत्वादिति वक्तव्यमित्यर्थः । युक्तया दुर्घटत्वमस्तु न तद्बाधकमिति कथमित्यत आह ।। नहीति ।। अङ्गीकृत्यचेदमुक्तम् । युक्तया दुर्घटत्वमपरिहृत्य तस्याबाधकत्वाभ्युपगमेऽतिप्रसङ्गः स्यादित्याह ।। दुर्घटत्वमिति ।। यदि युक्तया दुर्घत्वं न बाधकमित्यात्मास्तित्वं दुर्घटतयाऽङ्गीक्रियते तर्ह्यात्मनोऽविद्यात्वं दुर्घटमप्यङ्गीक्रियताम विशेषादित्यर्थः । प्रामाणिकस्यैव युक्तया दुर्घटत्वं न बाधकमित्युच्यते । नचात्मनोऽविद्यात्वं प्रामाणिकम् । येन युक्तया दुर्घटत्वमबाधकं स्यादित्यत आह ।। अतीति ।। नात्मनोऽविद्यात्वमप्रामाणिकम् । किञ्चिच्चेतनं किञ्चिदचेतनमित्यङ्गीकारे गौरवप्राप्तेः । सर्वस्याचेतनत्वाङ्गीकृतेरेव ज्यायस्त्वमिति युक्तिसिद्धत्वादिति भावः । न केवलं प्रामाणिके युक्तया दुर्घटत्वमबाधकम् । किंतु यदङ्गीकारे प्रमाणाविरोधस्तत्रैव । आत्मनोऽविद्यात्वं प्रमाणविरुद्धमतो युक्तया विरुद्धत्वं तत्र बाधकमेवेत्यत आह ।। नचेति ।। आत्मनोऽविद्यात्वं वदतां प्रतिपक्षिणामुक्तरीत्या न कोपि प्रमाणविरोधोऽस्तीति भावः । नन्वेवमनुभवबलेन कार्यकारणसम्बन्धस्य सुखदुःखादिभोगस्य च सत्यत्वं वदता भगवताऽनुभवस्य भ्रमत्वमभ्युपगच्छतां मतमेवं किमिति न निराकृतमित्याशङ्कां परिहरन्नुक्तमुपसंहरति ।। अत इति ।। अनुभवभ्रमत्वस्य स्फुटमुक्तरीत्यानन्तदोषदुष्टत्वप्रतीतेर्न स्वयं भगवता तन्निराकृतिः कृतेति भावः ।। २२ ।।
किरणावली
सुखाद्यनुभवो भ्रम इत्यर्थसाधकश्रुतेरिति ।। ‘‘विमुक्तश्च विमुच्यत’’ इत्यादिश्रुतिप्रामाण्यग्राहके साक्षिण्यनाश्वासेन साधकाभावेन प्रामाण्यासिद्धेः । न तया सिद्धप्रामाण्यया सुखाद्यनुभवस्य भ्रमत्वसिद्धिरित्युक्तमथेदानीं तस्य श्रौतानुभवस्य शुक्तिरूप्यानुभववदनुभवत्वा विशेषेण भ्रमत्वस्योपपत्तिसिद्धत्वात् । सुखाद्यनुभवस्याभ्रमत्वसिद्धिरित्यर्थः ।। परस्परविरुद्धयोरिति ।। श्रौतानुभवः सुखानुभवश्चेति द्वौ परस्परविरुद्धौ तयोरन्यतरस्य श्रौतानुभवस्य प्रामाण्यनिषेधस्यान्यतरस्य सुखाद्यनुभवस्य प्रामाण्यविधिनान्तरीयकत्वात् । व्याप्तत्वादित्यर्थः । भ्रम इत्यस्येति मूलस्य सुखाद्यनुभवो भ्रमः इत्येवं विषयीकुर्वतः श्रौतानुभवस्य भ्रमत्वेऽन्यस्य तद्विरुद्धस्य सुखाद्यनुभवस्याभ्रमत्वमेव भवतीत्यर्थः ।। प्रच्छन्नं नैरात्म्यमतमिति ।। आत्माख्यं वस्तु नास्त्येव सर्वं शून्यमिति यन्नैरात्म्यमतं तन्मायिनाप्यङ्गीकृतम् । निर्विशेषचैतन्यस्य शून्याद्विशेषाभावात् । परं तु वेदवाद्यहमिति तस्योक्तया प्रच्छन्नं तदिदानीमात्मस्वरूपभूत सुखाद्यनुभवस्य भ्रमत्वोक्तया प्रकटितं स्यादित्यर्थः । नहि वृत्तिज्ञानविषयमिति मूले सुखादिकमिति वक्तव्ये अज्ञानादिकमित्यज्ञानस्य स्वपदेन ग्रहणमज्ञानस्य वृत्तिज्ञानेन सह विरोधान्न तद्विषयत्वमतः सुखादीनामपि शुक्तिरजतादिवदाविद्यकत्वान्न वृत्तिविषयत्वमिति तन्मतीययुक्तिसूचनार्थम् ।। नहि प्रमाणसिद्धस्येति ।। अन्यथा अणोरणीयानिति प्रमाणसिद्धस्य यशोदादिप्रत्यक्षसिद्धस्याणुत्वमहत्त्वयौगपद्यस्य युक्तया दुर्घटस्य बाधप्रसङ्ग इति भावः । दुर्घटत्वं भूषणमित्यतः पूर्वमात्मनः प्रमाणसिद्धत्वात् । युक्तयेति शेषः । दुर्घटत्वं सुघटत्वमित्यतः पूर्वं युक्तयेति शेषः । उभयं भूषणमित्याशयः प्रबलप्रमाणसिद्धानां युक्तया दुर्घटत्वं सुघटत्वं चोभयं भूषणमतः तदुभयमस्तु युक्तिदौर्घट्यं न बाधकमित्यर्थमभिप्रेत्य व्याचष्टे ।। यद्यात्मन इत्यादिना ।। अत्र सुघटत्वं चेति युक्तावनादरं सूचयति । तथाचोक्तं तत्वोद्योतटीकायाम् । दुर्घटत्वे सुघटत्वे वा नानिर्वचनीय(त्व)सिद्धिरित्येतद्व्याख्यावसरे । तर्केनादरं सूचयितुं सुघटत्वेवेत्युक्तमिति ।
ननु प्रमाणसिद्धस्य युक्तया दुर्घटत्वेऽपवादो बाधो न दृष्ट इत्येतत्परस्य साधकत्वम् । तेन प्रमाणसिद्धस्यात्मसत्यत्वस्य युक्तया दुर्घटत्वेऽपवादो बाधो न दृष्ट इत्येतदङ्गीकारेण तदभ्युपगत प्रमेयाविरोधादित्यत आह ।। अङ्गीकृत्येति ।। प्रमाणप्रमितस्य युक्तया दुर्घटस्य न बाध इत्येतदङ्गीकृत्येत्यर्थः । नन्वङ्गीकारवादोऽयमिति कुतः प्रमाणसिद्धस्याणुत्वमहत्त्वादिविरुद्धधर्मयौगपद्यस्य युक्तया दुर्घटस्याप्यबाधस्य सिद्धान्ते स्वीकारादित्यत आह ।। युक्तयेति ।। यौक्तस्य दौर्घट्यस्य परिहारो द्वेधा । अघटितघटनापटीयस्याचिन्त्यशक्तया युक्तेराभासत्ववर्णनेन वा । तत्राद्यो यथाऽणुत्वमहत्वयौगपद्यादौ । द्वितीयो यथा । विश्वं सत्यमित्यादि प्रमाणसिद्धस्य विश्वसत्यत्वस्य दृश्यत्वादियुक्तया यथा वैशसर्वेश्वर इत्यादि प्रमाणप्राप्तस्य विष्णोः सर्वेश्वरत्वस्य चेतनत्वयुक्तया दौर्घट्ये युक्तेराभासत्ववर्णनेन परिहारः । न चात्राप्रमितस्यात्मनः सह्यत्वे आत्मस्वरूपस्य सुखाद्यनुभवस्य भ्रमत्वयुक्तिविरोधोऽचिन्त्य शक्तया परिह्रियते । नापि युक्तेराभासत्ववर्णनेन त्वयैवभ्रमत्वस्य भ्रमस्य चा विद्याकार्यत्वस्य मिथ्यात्वस्य च स्वीकृतत्वादेवं प्रकारद्वयेन युक्तया दौर्घट्यमपरिहृत्य प्रमाणसिद्धत्वमात्रेणात्मसत्यत्वस्य युक्तया दौर्घट्यमबाधकमित्युक्तेऽतिप्रसङ्गः स्यादित्याहेति भावः ।।
तर्ह्यात्मनो विद्यात्वमिति ।। नात्मा विद्यारूपश्चेतनत्वादिति युक्तया दुर्घटमपीत्यर्थः । शङ्कते ।। न केवलमिति ।। प्रमाणविरुद्धमिति ।। विज्ञानमानन्दब्रह्म सत्यं ज्ञानमित्यादि प्रमाणविरुद्धमित्यर्थः ।। अत इति ।। आत्माविद्यात्वस्य प्रमाणविरुद्धत्वात् । तत्र कल्पनागौरवतर्कलक्षणप्रमाणसिद्धेऽप्यात्माविद्यात्वलक्षणेऽर्थे युक्तया विरुद्धत्वम् । नात्माऽविद्याचेतनत्वादिति युक्तया विरुद्धत्वं बाधकमेवेत्यर्थः ।। आत्मनोऽविद्यात्वमिति ।। उक्तरीत्या कल्पनागौरवमित्युक्तरीत्याऽत्मनो विद्यात्वं साधयतां प्रतिपक्षिणामस्माकं न कोपि प्रमाणविरोधस्तथाहि न तावत्प्रत्यक्षविरोधः । नाहमविद्येति प्रत्ययाभावात् । भावे वा तस्य भेदविषयस्य प्रामाण्यानङ्गीकारात् । नाप्यनुमानविरोधश्चेतनत्वहेतोरात्माविद्यात्वं वदतां कल्पनागौरवमित्युक्तरीत्या सिद्धत्वात् । नाप्यागमविरोधः नात्माविद्येत्यागमाभावात् । भावे वोक्तरीत्या साक्षिण्यनाश्वासेन तत्प्रामाण्यग्रहणोपायाभावादिति भावः ।। नन्वेवमिति ।। पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणानित्यत्र हिशब्दसूचितानुभवबलेन कार्यकारण सम्बन्धस्य सुखादिभोगस्य च सत्यत्वं वदता भगवतानुमतस्य भ्रमत्वमभ्युपगतां मतमेवं तात्पर्यकृदुक्तरीत्या किमिति न निराकृतमित्यर्थः ।। उक्तरीत्येति ।। नहि ज्ञानाज्ञानेत्यादिना बहुलग्रन्थेन भगवत्पादोक्तरीत्येत्यर्थः । अतोऽनन्तदोषदुष्टत्वादिति उक्तस्यानुभवभ्रमत्वस्य स्फुटमनन्तदोषदुष्टत्वप्रतीतेरुपपाद्यांशा भावाद्धीति हिशब्दसूचितप्रसिद्ध्यैवानुभवबलेनैव कार्यकारणसम्बन्धो भोगश्च मिथ्येतिवदन्तो निराकृता इत्यर्थः ।। २२ ।।
भावदीपः
इत्यर्थसाधकश्रुतेरिति ।। विमुक्तश्चेत्यादिश्रुतेरित्यर्थः ।। अङ्गीकृत्य चेदमुक्तमिति ।। प्रमाणसिद्धस्य युक्त्या दुर्घटत्वं न बाधकमितीदं चाङ्गीकृत्योक्तमित्यर्थः ।। तत्रैवेति ।। दुर्घटत्वमबाधकमित्यनुषङ्गः ।। उक्तरीत्येति ।। किञ्चिच्चेतनमित्यादिनोक्तरीत्येत्यर्थः ।। कार्यकारणसम्बन्धस्येति ।। कार्यकारणकर्तृत्वस्यैव पुरुषः प्रकृतिस्थो हीति पुनरुक्तसुखादिभोगस्य चेत्यर्थः ।। एवमिति ।। तात्पर्यकृदुक्तरीत्येत्यर्थः ।। उक्तरीत्येति ।। न हि ज्ञानाज्ञानेत्यादिनोक्तरीत्येत्यर्थः ।। प्रकृतिस्थत्व इति ।। देहेन्द्रिययुक्तत्व इत्यर्थः ।। तत्रेति ।। जीवभावेन शरीरसम्बन्ध इत्यर्थः । सगुणत्वमित्यत्र तत्कारणमित्यनुषङ्गः ।। तदनुपपत्तेरिति ।। देहत्वसगुणत्वाद्यनुपपत्तेरित्यर्थः ।। २२ ।।
भावप्रकाशः
परस्परविरुद्धयोरिति । परस्परविरुद्धयोरुभयोरेव धर्मयोर्मध्य इत्यर्थः ।। अन्यथा घटे गोत्वनिषेधोप्यश्वत्वविधाना भावेन व्यभिचारापत्तेः । एवमपि वन्ध्यापुत्रे नित्यत्वनिषेधेऽप्यनित्यत्वविध्यभावोन व्यभिचारवारणाय सति धर्मिणीत्युपस्कर्तव्यम् । प्रच्छन्नं नैरात्म्यमतमिति । आत्मनः परमार्थतो निर्विशेषत्वाङ्गीकारेण शून्याविशेषापत्या नैरात्म्यमतमिमेवार्थादङ्गीकृतं स्यादिति भावः ।। मुखतो नैरात्म्यस्यानुक्तत्वात्प्रच्छिन्नमित्युक्तम् । कथमात्माभावप्रसङ्ग इति । भ्रमस्यापि शुक्तयादिवत् सत्यत्वादिति भावः ।। सुघटत्वं वेति । अत्र सुघटत्वमिवदुर्घठत्वमप्यस्विति सुघटत्वं दृष्टान्तत्वेनोक्तमिति द्रष्टव्यम् ।। एवं किमिति न निराकृतमिति । मूलकारेणैव गीताकृतैव प्रपञ्चेन किमिति न निराकृतमित्यर्थः ।। २२ ।।
वाक्यविवेक
न तया सुखाद्यनुभवस्य भ्रमत्वसिद्धिरित्युक्तमिति । अनुभवो भ्रान्त इत्युक्ते भ्रान्तित्वप्रमाणं तत्प्रमाण्यं च कुतः सिद्धेत् इत्यत्रोक्तमित्यर्थः ।। यत् प्रच्छन्नमिति । शून्यवादिनः आत्मशब्दवाच्यवस्तु नास्त्येव शून्यमेव तत्वमिति वदन्ति । त्वया तु शून्येति नामाकृत्वा शून्यमेव गोप्येनाङ्गीकृतम् । इदानीं त्वदङ्गीकृतम्य तत्वस्य शून्यत्वं प्रकटितमित्यर्थः ।। भगवतेति ।। गीतोपदेशकेन कृष्णेनेत्यर्थः ।। न तन्निराकृतिः कृतेति । विस्पष्टमिति शेषः ।। २२ ।।