गीता

कर्म सर्वथा न त्याज्यम्

गीता

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।

यज्ञदानतपः कर्म न त्याज्यमिति चापरे ।। ३ ।।

निश्चयं ृणु मे तत्र त्यागे भरतसत्तम ।

त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ।। ४ ।।

तात्पर्यम्

‘मनीषिणः’ इत्युक्तत्वात् तेऽप्यनिन्द्याः । अतः ‘त्याज्यं दोषवत्’ इत्यस्यार्थः ‘सङ्गं त्यक्तवा फलं च’ इति ।। ३,४ ।।

प्रकाशिका

‘‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ।। एतान्यपितु कर्माणि सङ्गं त्यक्त्वा फलानि च ।। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तममित्यनेन भगवन्मतेन विरुद्धत्वात् ।। त्याज्यं दोषवदित्येके कर्मप्राहुर्मनीषिण इत्येतन्निगद्यते इति न वाच्यम् ।। मनीषित्वेनोक्तत्वेन निन्दानर्हत्वात् ।। ‘‘कार्यमित्येव यत्कर्म नियतं कुरुतेऽर्जुन ।। सङ्गं त्यक्त्वा फलं चैव सत्यागः सात्विको मतः ।’’ इत्यत्र यथा कर्मणां सङ्गफलत्यागेन कर्मत्यागो वर्ण्यते न तु कर्माकरणेन । तथा त्याज्यं दोषवदित्येके कर्म प्राहुरित्यस्यापि वर्णयितुं शक्यत्वात्तदाह ।। मनीषिण इत्यादिना ।।३,४।।

न्यायदीपिका

सर्वकर्मफलत्यागमिति स्वोक्तत्यागस्वरूपावधारणाय प्रातीतिकी विद्वन्मतविप्रतिपत्तिरुद्भाव्यते ।। त्याज्यमिति ।। अत्र यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तदिति भगवन्मतविरोधित्वात् । त्याज्यं दोषवदिति त्यागपक्षिणो निन्द्या इत्यन्यथाप्रतीतिनिरासायाह ।। मनीषिण इति ।। तन्मतस्य भगवन्मतविरुद्धत्वात्कथं ते न निन्द्या इत्यत आह ।। अत इति ।। कार्यमित्येव यत्कर्मेत्यत्र यथा कर्मणि सङ्गफलत्यागेन कर्मत्यागो वर्ण्यते न तु कर्मस्वरूपत्यागेन, तथा त्याज्यमित्येतदर्थो वर्णयितुं शक्यते । अतो न तस्य भगवन्मतविरोधः । कुतोऽर्थान्तरकल्पनेति चेत् मनीषिण इत्युक्तत्वादेवेति भावः ।। ३,४ ।।

किरणावली

सर्वकर्मफलत्यागमिति । स्वोक्तत्यागस्वरूपावधारणायेति ।। काम्यानां कर्मणामिति श्लोके वैकल्पिककाम्यानां स्वर्गादिफलानिच्छया विशेषणत्यागेन त्यागः नियतकाम्यानां स्वरूपाकरणेन त्यागः संन्यासः । द्विविधानां काम्यकर्मणामेव फलत्यागस्तु त्यागः करणाकरणे न विवक्षिते इति स्वोक्तसर्वकर्मफलत्यागरूपावधारणाय विद्वन्मतविप्रतिपत्तिरुच्यत इत्यर्थः । ननु कथमेतत् विरुद्धार्थवादिनां वैदुष्यायोगादित्यत उक्तम् ।। प्रातीतिकीति ।। कर्म त्याज्यं नत्याज्यमित्यापातप्रतीता विद्वन्मतविप्रतिपत्तिस्सन्देहबीजत्वेनोच्यत इत्यर्थः । त्याज्यं दोषवदित्यनेन हेयः कापालिकानां पक्ष उपन्यस्त इति केचित् । तद्व्याख्याननिरासकत्वेन मनीषिण इत्युक्तत्वादिति मूलमवतारयति ।। अत्रेति ।। अत इति मूलस्यातो निंद्यत्वात्त्याज्यं दोषवदित्यस्यार्थः सङ्गं त्यक्त्वा फलानिचेत्यत्रोच्यत इत्यन्यथाप्रतीतेर्व्याचष्टे ।। कार्यमित्येवेति ।। अनेन–

कार्यमित्येव यत्कर्म नियतं कुरुतेऽर्जुन ।

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्विको मतः ।

इत्यत्रेव त्याज्यं दोषवदित्यस्यापि सङ्गफलत्यागेन कर्मत्यागोऽर्थो वर्णनीय इत्यर्थ उक्तो भवति । अत इत्यस्यावतारिकापूर्वकमर्थमाह ।। कुत इति ।। ४ ।।

भावप्रकाशः

प्रातीतिकीति ।। त्याज्यमित्यनेन स्वरूपत्याग एवोच्यते न त्याज्यमित्यनेन फलेच्छायाकर्त्तव्यत्वमुच्यत इत्यापात प्रतीताविद्वन्मतविप्रतिपत्तिरित्यर्थः ।। अतःशब्दार्थमाह । मनीषिण इत्युक्तत्वादेवेति ।। ३४ ।।

वाक्यविवेक

प्रातीतिकीति । वस्तुतो न विद्वन्मत्तयोर्विरोधः । आपातप्रतीतिमपेक्ष्य विरोधोस्तीऽति भावः ।। ३,४ ।।