तात्पर्यम्

राजससात्विकेषु वर्णभेदः

तात्पर्यम्

सात्त्विकाः स्वल्परजसः क्षत्रियाः सत्त्वराजसाः ।

वैश्याः शूद्रा अतिस्वल्पसत्त्वाधिक्येन तामसाः ।

येतु भागवता वर्णास्तेषां भेदोऽयमीरितः ।

सत्त्वाधिकः पुल्कसोऽपि यस्तु भागवतः सदा

त्रैविद्यमात्रा विष्णोर्ये सर्वाधिक्ये ससंशयाः ।

अन्याधिक्यंन मन्यन्ते श्रीशाद् राजसराजसाः ।

अज्ञा विष्णौ द्वेषहीनाः सर्वे राजसतामसाः ।

पितृगन्धर्वपूर्वाश्च मुनयो देवता इति ।

सात्त्विकास्त्रिविधास्तत्र श्रेष्ठा एवोत्तरोत्तराः ।

देवा इन्द्रो विरिञ्चाद्या इति त्रेधैव देवताः ।

क्रमोत्तराः शिवो वाणी ब्रह्मा चैवोत्तरोत्तराः ।

सत्त्वसत्त्वमहासत्त्वसूक्ष्मसत्त्वश्चतुर्मुखः ।

तस्माद् यावद् विमुक्तिः स्यान्मुक्तावेवं सुखक्रमः’ इति च ।

प्रकाशिका

मुनयः ऋषयः ।। सत्वसत्वानां देवानां मध्ये महांसत्वा विरिञ्चाद्याः ।। तत्रापि सूक्ष्मसत्वश्चतुर्मुख इत्यर्थः ।।

न्यायदीपिका

राजससात्विकेषु भागवतेषु वर्णभेदेनानेकप्रकारेषु विप्रस्वरूपमुक्तम् । क्षत्रियादिस्वरूपं राजसराजसादिस्वरूपं च वाक्यान्तरेण दर्शयति ।। सात्विका इति ।। राजससात्विकेष्विति द्रष्टव्यम् ।। सत्त्वराजसा इति ।। समसत्वराजसा इत्यर्थः ।। अतिस्वल्पसत्वाधिक्येनेति ।। तमसोऽप्यतिस्वल्पतया सत्त्वमधिकं यथा तथैवेत्यर्थः ।। क्षत्रियादिमात्रस्यैवं स्थितिः किमित्यत आह ।। य इति ।। वर्णबाह्या भागवताश्चेत्किमित्यत आह ।। सत्वेति ।। यः पुल्कसोऽपि भागवतोऽसौ राजसेष्वपि सत्वाधिक इत्यर्थः । राजससात्विकानुक्त्वा राजसराजसादीनाह ।। त्रैविद्येति ।। कालतो भागवतान् जायमानान् व्यवच्छिनत्ति ।। त्रैविद्यमात्रा इति ।। सर्वाधिक्य इति ।। सर्वप्रकारेणाधिक्ये इति गमयितव्यम् । सात्विकप्रभेदमाह ।। पितृगन्धर्वेति ।। श्रेष्ठा एवेत्यनेन पितृगन्धर्वपूर्वकाः सात्विकतामसाः । मुनयः सात्विकराजसाः । देवाः सात्विकसात्विका इत्युच्यन्ते ।

देवान् विभज्याह ।। देवा इति ।। क्रमोत्तरा इति ।। सात्त्विकसात्त्विकेषु बृहस्पत्यादयस्तामसा, इन्द्रो राजसो ब्रह्मादिरुद्रावसानाः सात्विका इत्युच्यन्ते । विरिञ्चादीन् विभज्याह ।। शिव इति ।। उत्तरोत्तरा इति ।। सात्विकसात्विकेषु रुद्रस्य तामसत्वं, सरस्वत्या राजसत्वं, ब्रह्मणः सात्विकत्वमुक्तं भवति । एवं चेद्विरिञ्चः किमुच्यत इत्यत आह ।। सत्वेति ।। तस्मादुक्तरीत्या गुणनिबन्धनमेव तेषां तारतम्यं कियत्पर्यन्तमित्यत आह ।। यावदिति ।। तत्र गुणाभावात्साम्यं किमित्यत आह ।। मुक्ताविति ।। गुणाभावेऽप्युक्तप्रकारावस्थितसुखक्रमेणैव तारतम्योपपत्तिरिति भावः ।

किरणावली

क्षत्रियादिस्वरूपमिति ।। राजससात्विकेष्वेव क्षत्रियादिवर्णस्वरूपमित्यर्थः । राजसराजसादीत्यादि पदेन राजसतामस ग्रहणम् । ननु सात्विकाः स्वल्परजसः क्षत्रिया इत्याद्ययुक्तम् । पितृगन्धर्वपूर्वाश्चमुनयो देवता इति सात्विकास्त्रिविधा इत्युत्तर ग्रन्थे मुनीनां सात्विकराजसत्वस्य च वक्ष्यमाणत्वादित्यतो राजसस्थसात्विकेष्वेवेति वक्ष्यमाणं मनसि निधायाह ।। राजससात्विकेष्विति द्रष्टव्यमिति ।। राजससात्विकेषु सात्विकाः स्वल्परजसः क्षत्रिया इत्यादि द्रष्टव्यमित्यर्थः । सत्वराजसा इत्यस्य समरजोयुक्तसात्विका इति वक्ष्यमाणानुसारेणार्थमाह ।। समसत्त्वेति ।। अतिस्वल्पसत्त्वाधिक्येनेत्यस्य सात्विकात्किञ्चिदूनतमोयुक्त सात्विका इति वक्ष्यमाणानुसारेणार्थमाह ।। तमसोप्यतिस्वल्पतयेति ।। क्षत्रियादिमात्रस्येति ।। कर्मवशाज्जायमान क्षत्रियादिमात्रस्येत्यर्थः । येन भागवता इत्यस्य स्वरूपतो ये भागवता वर्णा इत्यर्थः ।। वर्णबाह्या भागवताश्चेदिति ।। स्वरूपतोवर्णबाह्याभावात्कर्मवशाज्जाताः वर्णबाह्या भागवताश्चेत्किं कुत्रान्तर्भूताः प्रतिपत्तव्या इत्यर्थः । सत्वाधिकः पुल्कस इत्यत्र भागवतत्वं विधीयत इत्यन्यथा प्रतीतेरर्थमाह ।। यः पुल्कसोपि भागवतोसौ राजसेष्वपि सत्वाधिक इति ।। ब्राह्मणादिस्वाभाविकवर्णेष्वन्यतम इति भावः ।। राजसराजसादीनिति ।। आदिपदेन राजसतामसा गृह्यन्ते ।। कालतो भागवताञ्जायमानानिति ।। भागवता एव रजोगुणप्राचुर्यदशायां

त्रैविद्यस्त्वपरो धर्मो नानादैवतपूजनम् ।

तत्रापि विष्णुर्ज्ञातव्यो सर्वेभ्योऽभ्यधिको गुणैः ।

इत्युक्त लक्षणत्रैविद्यत्वावस्थापन्ना भवन्ति तेपुनः कालतो योग्यतानुसारेण भगवद्भक्ता जायमाना भवन्ति । तान्व्यावर्तयितुं त्रैविद्यमात्रास्त्रैविद्या एव नित्यत्रैविद्या नित्य संसारिण इत्युक्तमित्यर्थः । ननु तत्रापि विष्णुर्ज्ञातव्यः सर्वेभ्योभ्यधिकोगुणैरिति त्रैविद्यैरपि विष्णूत्कर्षस्य ज्ञातव्यत्वोक्तेः कथं सर्वाधिक्ये ससंशयत्वं तेषामित्यत आह ।। सर्वाधिक्य इतीति ।। प्रजाभ्यो राजेव सर्वेभ्योऽखिलैर्गुणैर्विष्णुरुत्कृष्ट इति ज्ञानेपि वैष्णवशास्त्रोक्तरीत्या सर्वप्रकारेण यत्तारतम्यान्तगतत्वेन प्रत्येकशो निस्सीमगुणत्वेनाधिक्यं तत्र ससंशया इत्यर्थो ज्ञेय इति भावः । अज्ञा विष्णोरिति मूलस्य ये विष्णूत्कर्षाज्ञाः विष्णौ द्वेषहीनाश्चते सर्वे राजसतामसा इत्यर्थः । अत्र द्वेषहीनाः इत्युक्तत्वादेतेपि नित्यसंसारिण इत्यवगन्तव्यम् ।। सात्विकप्रभेदमाहेति ।। जीवास्त्रिविधाः । सात्विका राजसास्तामसाश्चेत्युक्तम् । तत्र सात्विकप्रभेदमित्यर्थः । ननु सात्विकप्रभेदं वक्तुमुपक्रम्य त्रिविधेष्वपि सात्विकत्वमुक्त्वोत्तरोत्तरं गुणज्यैष्ठ्यकथनमयुक्तमित्यतो व्याचष्टे ।। श्रेष्ठा एवेत्यनेनेति ।। अस्योच्यन्त इत्युत्तरेणान्वयः ।

किमित्युच्यन्त इत्यत उक्तम् । पितृगन्धर्वेत्यादिना ।। पितृशब्देन चिरपितरःगन्धर्वपदेन देवगन्धर्वाः पूर्वपदेनाजानजाः । तथा च मनुष्योत्तमानारभ्यमनुष्य गन्धर्वान्ता राजससात्विकाः देवाश्चपितरश्चिराः आजानजा इत्युक्तास्तु सात्विकतामसाः । तत्रापि सात्विक तामसा देवगन्धर्वाः सात्विकतामस राजसाः पितरः । सात्विकतामससात्विकाः आजानजा इति विवेकः । अत एव तेषाक्रमेणशताधिक्यमित्यवगन्तव्यम् । पूर्वकपदेनाजानजग्रहणं कुत इति चेन्न । देवाः पृथगनाख्याताः स्मृताः सात्विकतामसा इति भागवततात्पर्यवचनादत्र च देवा इति देवकुलोद्भवा इत्यर्थः । आजानजा अनाख्याता जाता देवकुले च य इत्यन्यत्रोक्तत्वात् ।। मुनय इति ।। अत्र मुनिपदेनच्यवनादयस्तत्समा बल्याद्याः ऋषयस्त्वेव विज्ञेयाः कार्तवीर्यादयो नृपा इति वक्ष्यमाणत्वात्प्रियव्रताद्याश्चाजानजोत्तरकक्ष्यान्तर्गतास्तच्छताधिका गृह्यन्ते । अतात्विकास्तथाख्याताः स्मृताः सात्विकराजसा इति भागवततात्पर्योक्तेः ।।

देवास्सात्विकसात्विका इति ।। कर्मजाश्च देवा इत्युक्ताः कर्मजेभ्यः शताधिकास्तत्वाभिमानिन इत्यर्थः । सात्विकास्सात्विकास्तत्र तात्विकाः परिकीर्तिता इति वचनात् ।। देवान्विभज्येति ।। सात्विकसात्विकत्वेनोक्तां स्तत्वदेवानित्यर्थः ।। क्रमोत्तरा इतीति ।। क्रमोत्तरा इत्यनेनेत्यर्थः ।। सात्विकसात्विकेषु बृहस्पत्यादय इति ।। देवा इन्द्रः पुरन्दर इत्युक्तरीत्येन्द्राच्छतावरा बृहस्पत्यादयस्तामसास्तच्छताधिक इन्द्रो राजस इत्यर्थः । एतेनेन्द्रबृहस्पत्योर्मध्ये आहंकारिक प्राणस्य सत्त्वादाहङ्कारिक प्राणाद्याः इति वक्तव्यमिति निरस्तम् । आहङ्कारिकस्येन्द्राच्छतावरत्वा भावात् । तर्ह्याहङ्कारिकः प्राणः सात्त्विकसात्त्विकेषु त्रिविधेष्वप्रविष्ट एवस्यादिति चेन्न । बृहस्पतेराहङ्कारिकोदशोत्तरस्तस्मादिन्द्रोदशोत्तर इति दशोत्तरत्वप्रक्रियामाश्रित्य बृहस्पतिः सात्विकसात्विकेषु तामसः । अहङ्कारिकोराजसः इन्द्रः सात्विक इति प्रवेशोपपत्तेः । केचित्तु बृहस्पत्यादय इत्यादिपदेनाहङ्कारिकोपि ग्राह्य इत्याहुः । इन्द्रोविरिञ्चाद्या इत्यादिपदेन पार्वत्यन्तग्रहणे इन्द्रात्पार्वत्या दशोत्तरत्वेन शतोत्तरत्व प्रक्रियामाश्रित्यसात्विकादि विभागानानुगुण्यप्रसङ्गादाह ।। ब्रह्मादिरुद्रावसाना इति ।। दशोत्तरत्वप्रक्रियामाश्रित्यतु इन्द्रस्य तामसत्वं रुद्रस्य सात्विकत्वं बोध्यम् ।। रुद्रस्य तामसत्वमिति ।। शिवादाशायाः शताधिकत्वात्तस्याः ब्रह्मणः शताधिकत्वाद्वाण्याः शतावरस्य रुद्रस्य तामसत्वम् । मध्यस्थाया वाण्या राजसत्वं ब्रह्मणस्तच्छताधिकस्य सात्विकत्वमिति भावः । पृथगनाख्याताः स्मृताः सात्विकतामसाः अतात्विकाः तथाख्याताः स्मृताः सात्विकराजसाः । सात्विकाः सात्विकास्तत्र तात्विकाः परिकीर्तिताः । इति सात्विकत्रैविध्यमुक्त्वा तेषां च सात्विकाः । शेषगरुत्मद्रुद्रतत्स्त्रियः । ततोपि देवी ब्रह्माणी ब्रह्माचैव ततः स्वयमिति । सात्विकसात्विकेष्वपि मध्ये त्रैविध्यं कथं कथं च मूले शिवो वाणीति शिवमात्रग्रहणमिति चेन्न । शतोत्तरत्वप्रक्रियामाश्रित्य सात्त्विकादिविभागप्रस्तावे सात्विकसात्विकतामसत्वेन शिवशेषरुद्राणामेव ग्रहणौचित्येन तत्स्त्रीणां परित्यागोपपत्तेः । भागवततात्पर्यवाक्येतु शतोत्तरत्वप्रक्रियामाश्रित्य सात्विकसात्विकेषु तात्विकेष्विन्द्राधिकानां गरुत्मच्छेष तत्स्त्रिय इत्युक्तानां तदुपलक्षितानां षण्महिषीणां च तामसत्वमुक्तमित्यविरोध इति । केचित्तु टीकायां तात्पर्ये च रुद्रग्रहणं गरुत्मच्छेषयोरिव तत्स्त्रीणामुपलक्षणमिति व्याचक्षते ।

सत्त्वसत्त्वमहासत्त्वसूक्ष्मसत्त्वश्चतुर्मुखस्तस्मादिति मूले तस्मादिति पञ्चमीतृतीयार्थे तेन प्रकारेणेत्यर्थ इति मत्वा व्याचष्टे ।। तस्मादुक्तरीत्येति ।। ततश्च पितृगन्धर्वपूर्वाश्च मुनयो देवाश्च सात्विका उक्ताः । तेष्वपि मध्ये सत्त्वाधिक्याद्देवपदोक्ताः सात्विकाः सत्वसत्वा उक्ताः । तेष्वपि सत्त्वाधिक्याद्विरिञ्चाद्याः सत्त्वसत्त्वमहासत्त्वा उक्ताः । तेष्वपि चतुर्मुखः सत्वाधिक इत्युक्त प्रकारेण चतुर्मुखः सत्त्वमहासत्त्वसूक्ष्मसत्त्व उच्यत इति मूलार्थ इति भावः । शङ्कते ।। गुणनिबन्धनमेव तेषान्तरतम्यमिति ।। यावद्विमुक्तिःस्यादित्यत्र मुक्तावेवं सुखक्रम इत्युपरितनवाक्यादेवं क्रम इति बुद्ध्या विविच्यानुकृष्यते । तथा चैवं क्रमो गुणनिमित्तकः क्रमः यावद्विमुक्तिः स्यात्तावत्पर्यन्तं स्यादिति योजनोक्ता भवति । मुक्तावेवं सुखक्रम इत्यस्यैवमपि मुक्तौ गुणाभावेप्येवमेव पितृगन्धर्वपूर्वकानारभ्य ब्रह्मान्तासकन्यासु संसारेतामसेभ्यो राजसानां तेभ्यः सात्विकानामाधिक्यमित्युक्त प्रकारेणैव प्राक्तामसतयोक्तेभ्यो राजसतयोक्तानां सुखे मुक्तौ शताधिक्यम् । तेभ्यः सात्विकतयोक्तानां शताधिक्यमिति सुखक्रमो ज्ञेयः । तथा च मुक्तौ तारतम्योपपत्तिरित्यर्थं मनसिनिधायाह ।। गुणाभावेप्युक्तप्रकारावस्थितसुखक्रमेणैव तारतम्योपपत्तिरिति भाव इति ।। उक्तप्रकारावसितसुखक्रमेणेति क्वचित्पाठः ।।

भावदीपः

विप्रादिस्वरूपमुक्तमिति ।। विप्रा राजससात्विका इत्यादिनेति भावः ।। इति गमयितव्यमिति ।। अन्यथान्याधिक्यमित्याद्युत्तरवाक्यविरोधादिति भावः ।। गुणाभावादिति ।। सत्त्वादिगुणाभावादित्यर्थः ।। उक्तप्रकारेति ।। श्रेष्ठा एवोत्तरोत्तरा इत्यादावुक्तप्रकारावसितेत्यर्थः ।। इत्युच्यन्त इति ।। ‘‘नराधमास्तामसेषु सात्विका’’ इति पूर्वोक्तस्मृतावित्यर्थः ।। वाक्यद्वयेनोक्तमिति ।। ‘राजसास्तु नरास्तत्रेति’ ‘ये तु भागवता इति च’ वाक्यद्वयेनेत्यर्थः ।। प्रगुक्तरीत्येति ।। शुद्धसत्त्वास्तु परमहंसा इत्यादिनोक्तरीत्येत्यर्थः ।।

भावप्रकाशः

राजसस्थसात्विकेष्वेवेति वक्ष्यमाणानुसारेणाह ।। राजससात्विकेष्वितीति । समरजोयुक्तसात्विका इति वक्ष्यमाणं मनसि निधायाह ।। समसत्वराजसा इति । सत्वात् किञ्चिदूनतमोयुक्तसात्विका इति वक्ष्यमाणानुसारेणाह ।। तमसोप्यतिस्वल्पतयेति । कालतो भागवतान् जायमानानिति । नित्यत्रैविद्यत्वावस्थापन्नान्मुक्तियोग्यानित्यर्थः ।। त्रैविद्यस्त्वपरोधर्मो नानादैवतपूजनम् ।। तत्रापि विष्णुर्ज्ञातव्यः सर्वेभ्योऽभ्यधिकोगुणैरित्यत्र त्रैविद्यस्यापि सर्वोत्तमत्वज्ञानस्योक्तत्वात्कथं सर्वाधिक्ये ससंशया इत्युक्तमित्यत आह ।। सर्वप्रकारेणाधिक्य इति । सर्वेभ्योऽप्यनन्तगुणैरनन्तगुणतयाऽधिक्य इत्यर्थः ।। बृहस्पत्यादय इति । अत्र प्राण आहङ्कारिक एव च । इन्द्रादनन्तर इत्यनुव्याख्यानानुसारेणादावहङ्कारिकप्राणो ग्राह्यः । ब्रह्मादिरुद्रावसाना इति ।। अत्र रुद्रपदेन उपलक्षणया स्वसमसङ्ग्राहकतत्स्त्रियोपि ग्राह्याः ।। तेषां च सात्विकः शेषगरुत्मद्रुद्रतत्स्त्रिय इत्यन्यत्रोक्तत्वात् । ननु तामसास्तामसादैत्याः प्रधाना देवशत्रवः । तामसा राजसास्तेषामनुगास्तेषु सात्विकाः ।। आख्यातासुराः प्रोक्ता मानुषा दुष्टचारिणः । राजसास्तामसाश्चैव मध्या राजसराजसाः । राजसाः सात्विकास्तत्र मानुषेषूत्तमागणाः ।। देवाः पृथगनाख्याताः स्मृताः सात्विकतामसाः । अतात्विकास्तथाख्याताः स्मृताः सात्विकराजसाः । सात्विकासात्विकास्तत्र तात्विकाः परिकीर्त्तिताः ।। तेषां च सात्विकाः शेषगरुत्मद्रुद्रतत्स्त्रियः ।। ततोऽपि देवी ब्रह्माणी ब्रह्मा चैव ततः स्वयमिति भागवततात्पर्येऽनाख्यातासुराणां तामससात्विकत्वेन मनुष्याधमानां राजसतामसत्वेन मध्यपदोदितद्विविधनित्यसंसारिणामपि राजसराजसत्वेन चोक्तत्वात् सात्विकसात्विकतामसराजससात्विकानामसङ्गृहीतत्वात् सात्विकसात्विकतात्विकापेक्षया शेषादीनां तात्विकत्वस्य तदपेक्षया ब्रह्माण्याः सात्विकत्वस्य तदपेक्षया ब्रह्मण इत्येवं ब्रह्मणः सात्विकानां मध्ये पञ्चमसात्विकत्वेनोक्तत्वाच्च तद्विरोध इति चेत् न । तस्याप्येवमेव व्याख्येयत्वात् । तथाहि । अनाख्यातासुराः दुष्टचारिणो मानुषाश्च तेषु सात्विका इति सम्बध्यते । एतदनुसारेण नराधमास्तामसेषु सात्विका इत्यत्रानाख्यातासुरा अपि सङ्ग्राह्याः ।। मध्या एव द्विविधा नित्यसंसारिण एव राजस तामसाराजसराजसाश्च ।। तत्राज्ञा राजसतामसाः त्रैविद्या राजसराजसाः । अनाख्यातादेवाः पितृगन्धर्वपूर्वाः अतात्विकास्तथाख्याता इत्यत्र मुनयोपि ग्राह्याः मुनय इत्यत्रातात्विका अपि तात्विकाः परिकीर्त्तिता इत्यनन्तरं देवा इन्द्रो विरिञ्चाद्या इत्युक्तः सात्विकसात्विकानां त्रेधा विभागो द्रष्टव्यः । सात्विकसात्विकसात्विका अपि तामसादिभेदेन त्रिविधाः । तत्र तामसान् दर्शयति । तेषां च सात्विका इति । तेषां मध्ये सात्विकसात्विकसात्त्विक तामस इत्यर्थः ।। तत्स्त्रिय इत्यनेन शिवो वाणीत्यत्र शिवशब्देन गरुडशेषाविव पार्वत्यादयोपि लक्षणया ग्राह्या इति सूचयति ।। ततोपि देवी ब्रह्माणीति । शेषादिभ्योपि ब्रह्माणी सात्विकी । सात्विकसात्विकसात्विकराजसेत्यर्थः ।। ब्रह्माचैव तत इति । ब्रह्मण्या अपि सात्विकः सात्विकसात्विकसात्विकसात्विक इति न कश्चिद्विरोध इति ।

वाक्यविवेक

अध्याहर्तव्यं दर्शयति । राजससात्विकेष्विति द्रष्टव्यमिति ।। समसत्वराजसा इतीति । यद्यपि एष्वपि सत्वं अत्यल्पमधिकम् । तथापि अल्यस्याधिक्यस्याविवक्षया एवमुक्तमिति बोध्यम् । अन्यथा मोक्षसाधनज्ञानं न स्यात् रजःस्तमोगुणाभिभावकस्यैव सत्वस्य तज्जनकत्वादिति भावः । सर्वप्रकारेणाधिक्य इतीति । गमयितव्यमिति । कैश्चिद्धर्मैराधिक्ये निश्चयवन्तोऽपि सवैर्धर्मैराधिक्ये संशयवन्त इति भावः सर्वाधिक्य इति बोध्यम् ।। ४१ ।।

Load More