गीता

गीता

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।

अनेकज्नमसंसिद्धस्ततो याति परां गतिम् ।। ४५ ।।

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ।। ४६ ।।

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।

श्रद्धावान्भजते यो भां स मे युक्ततमो मतः ।। ४७ ।।

तात्पर्यम्

तपसश्चैव यज्ञादेर्ध्यानमेव विशिष्यते ।

अज्ञानिध्यानतो ज्ञानं ध्यानं सज्ञानमप्यतः ।

तत्रापि मय्यभक्तस्य नान्यद्ध्यानं प्रयोजकम् ।

अन्यसामान्यविद् यो मे यश्चान्यं नेति पश्यति ।

अवरत्वदृगुदासीनो विद्वेषी चेत्यभक्तयः ।

मद्भक्तोऽपि हि कार्यार्थं यो ध्यायेदन्यदेवताः ।

परिवारतामृते तस्मात् केवलं मदुपासकः ।

वरोऽन्यान् मदधीनांश्च सर्वान् जानन् विशुद्धधीः’

इति च दत्तात्रेयवचनम् ।। ४६,४७ ।।

इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये षष्ठोऽध्यायः ।

प्रकाशिका

तपस्विभ्य इत्यादेरर्थमाह ।। तपस इत्यादिना ।। ४७ ।।

इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य प्रकाशिकायां पद्मनाभतीर्थविरचितायां षष्ठोऽध्यायः ।।

न्यायदीपिका

योगः स्तूयते ।। तपस्विभ्य इति ।। तत्र योगस्य ज्ञानार्थत्वात्कथं ज्ञानादुत्तमत्वमित्यतस्तत्स्मृत्यैव व्याचष्टे । तपस इति ।। अज्ञानिध्यानत इति ।। सम्यग्ध्यानप्रकाराज्ञस्य ध्यानतो ध्यानप्रकारज्ञानमेवोत्तमम् ।। ध्यानप्रकारज्ञानसहितं ध्यानं ध्यानप्रकारज्ञानमात्रतोधिकमित्यर्थः । ध्यानिष्वपि तारतम्यमाह ।। तत्रापीति ।। कीदृशोऽभक्त इत्यत आह ।। अन्येति ।। न भक्तिर्येषुते अभक्तयः । अन्यान्मदधीनाञ्जानन्नित्यनेन परिवारतयाऽन्योपासनमुच्यते । मदुपासकेष्वपि विशुद्धधीर्निष्कामो वर इत्यर्थः । अनेन योगिनामिति श्लोको व्याख्यातो भवति । तथाहि । सर्वेषां योगिनां मध्ये यः श्रद्धाशब्दोदितमद्भक्तिमान्स एव युक्तो मतः । तत्रापि यो मां भजते स एव युक्ततरो मतः । तत्रापि फलकामनां विना यो मां भजते स युक्ततमो मत इति ।। ४७ ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्यटीकायां

जयतीर्थमुनिविरचितायां न्यायदीपिकायां षष्ठोध्यायः ।।

किरणावली

अज्ञानिध्यानतो ज्ञानमित्युक्तमयुक्तम् । ध्यानं नाम स्मरणं तच्चानुभवजन्यं कथमज्ञानिनां ध्यानं स्यादित्यत आह ।। सम्यगिति ।। ध्यानं सज्ञानमप्यत इत्यस्यार्थमाह ।। ध्यानप्रकारज्ञानसहितमिति ।। एतेन तपस्विभ्यः कृच्छ्रचान्द्रायणाद्यनुष्ठातृभ्यः कर्मिभ्यो यज्ञादि कर्तृभ्यः ज्ञानिभ्यो योगानुष्ठान प्रकारज्ञानिभ्य इत्यर्थ उक्तो भवति ।। ४७ ।।

इति श्रीविठ्ठलाचार्यपुत्रेण श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेनविरचितायां

श्रीमन्न्यायदीपकिरणावल्यां षष्ठोध्यायः ।। ६ ।।

भावदीपः

अभक्तय इत्यस्य पुरुषपरत्वलाभायाह ।। न भक्तिर्येष्विति ।। तत्रापीति ।। भक्तेष्वपीत्यर्थः ।। भजते सेवते ।। ४६४७ ।।

इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते षष्ठोऽध्यायः ।।

भावप्रकाशः

सम्यग्ध्यानप्रकाराज्ञस्येति । सर्वथा ध्यानप्रकाराज्ञाने ध्यानमेव न संभवतीति भावः । ध्यानं सज्ञानमाप्यते इत्येतत्तु व्याचष्टे ।। ध्यानप्रकारज्ञानसहितमिति ।। अभक्तस्येत्यादि पूर्ववाक्यानुसारेण विग्रहं दर्शयति ।। न भक्तिर्येष्विति ।। ४७ ।।

इति श्रीमत्सत्यव्रतपादशिष्यसत्यप्रज्ञभिक्षुविरचिते गीतातात्पर्यनिर्णय

न्यायदीपिकाभावप्रकाशे षष्ठोऽध्यायः ।।