तात्पर्यम्

तात्पर्यम्

न च जीवस्य क्षेत्रज्ञनाम

क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचिता अनित्याः ।

आविर्हिताश्चापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः’  इति हि भागवते ।

अतः ‘एतद् यो वेत्ति’ इत्युक्ते जीवस्यापि किञ्चिज्ज्ञानात् तत्प्राप्तेस्तन्निवारणार्थं ‘क्षेत्रज्ञं चापि मां विद्धि’ इत्याह । अन्यथा ‘एतद् यो वेत्ति’ इत्युक्तेनैव सिद्धत्वात् ‘क्षेत्रज्ञं चापि’ इति व्यर्थम् । भेदपक्षे तु नामनिरुक्तयर्थं ‘एतद् यो वेत्ति’ इति । सर्वाभेदमपि केचिद् वदन्तीति क्षेत्रं च ज्ञश्चेति व्युत्पत्तिं निवारयति । क्षेत्रज्ञं मां सर्वक्षेत्रेषु स्थितत्वेन विद्धीत्यर्थः । तत्पक्षे तु ‘यो वेत्ति’ इत्युक्त ईश्वरस्यापि क्षेत्रज्ञत्वं सिद्धमेव । सर्वाभेदविवक्षायां च सर्वं क्षेत्रज्ञमिति वक्तव्यम् । ‘सर्वक्षेत्रेषु’ इति व्यर्थम् । न च तत्पक्षे मामित्यस्य कश्चिद् विशेषः । किन्त्वेक एव क्षेत्रज्ञ (अहम्) इति वक्तव्यम् ।। ३ ।।

प्रकाशिका

एतद्यो वेत्तीत्यादेरर्थमाह ।। क्षेत्रज्ञ इत्यादिना ।। ‘‘सर्वतः पाणिपादादि’’रित्यादिना ‘‘सर्वतः पाणिपादम् ।। तदि’’त्यादेरर्थ उच्यते ।। अत्र जीवाद्भिन्नः क्षेत्रज्ञः प्रतिपाद्यते ।। सर्वतः पाणिपादादिप्रभाववत्वात् ।। एतदर्थं प्रमाणेनोपपादयति ।। क्षेत्रज्ञ एता इति ।। अत एवोक्तं भगवता क्षेत्रज्ञं चापि मां विद्धीति ।। वैयर्थ्यात्तदाह ।। अत एतदित्यादिना ।। एतद्यो वेत्ति इत्येतत् स्वपक्षे घटयति ।। भेदेत्यादिना ।। क्षेत्रज्ञं चापीत्येतद्व्याचष्टे ।। क्षेत्रज्ञमिति ।। एतद्योवेत्तीत्यनेनेश्वरस्यापि क्षेत्रज्ञत्वसिद्धेः क्षेत्रज्ञं मामित्यनूद्य सर्वक्षेत्रेषु स्थितत्वेन विधीयते इत्यर्थः ।। जीवादिनेश्वरस्यैक्यविधाने दूषणमाह ।। सर्वेत्यादिना ।। ३ ।।

न्यायदीपिका

एतद्यो वेत्तीत्येतज्जीवविषयतया प्रतीतिनिरासाय वचनान्तरेण व्याचष्टे । ।। क्षेत्रज्ञ इति ।। यः क्षेत्रं जानाति स सर्वोपि क्षेत्रज्ञोऽतो विष्णुरिति किं विशिष्योच्यत इत्यत आह ।। नहीति ।। किमयं स्वयं क्षेत्रान्तर्भूतः सन् तज्जानातीत्यपेक्षायामाह ।। असाविति ।। अनेन न सत्तदिति व्याख्यातं भवति । सर्वासन्निहितत्वात्कथं सर्वज्ञानं हरेरित्यत आह ।। स इति ।। एतेन बहिरन्तश्चेति व्याख्यातं भवति । विष्णोः सर्वजीवाभिन्नत्वात्कथं तेषु स्थितिरित्यत आह ।। विलक्षणश्चेति ।। कथं वैलक्षण्यमित्यत आह ।। सर्वत इति ।। केशादिषु पाण्यादिशक्तिमत्त्वं युक्तिविरुद्धमित्यतः प्रतीतत्वान्न युक्तिविरुद्धमिति भावेनाह ।। कृष्णेति ।। अनेन सर्वत इत्युक्तार्थं भवति । का नाम भगवत्पाण्यादिशक्तिरित्यत आह ।। सर्वेति ।। वेत्तीत्येतत्कर्मणोऽप्युपलक्षकम् । अनेन सर्वेन्द्रियगुणेति व्याख्यातं भवति । सर्वेन्द्रियगुणा आभास्यन्तेऽनुभूयन्तेऽनेनेति । भगवतः पाण्यादिमत्त्वे श्रुत्यादावनिन्द्रियत्वोक्तिः कथमित्यत आह ।। स इति ।। अनेन सर्वेन्द्रियविवर्जितमित्युक्तार्थं भवति । ज्ञानादिगुणसद्भावे कथं तस्य निर्गुणत्वोक्तिरित्यत आह ।। गुणैरिति ।। कुत एवं निर्गुणत्वश्रुतेरर्थान्तरं कल्प्यते । सर्वथा गुणराहित्यमेव किं न स्यादित्यतः तस्य सर्वकल्याणगुणमूर्तिमत्त्वेन प्रमाणसिद्धत्वादित्याह ।। सर्वेति ।। अनेन निर्गुणमित्युक्तार्थं भवति । हरेः पाणिपादादिमत्त्वेऽचरत्वोक्तिः कथमित्यत आह ।। अन्यथेति ।। क्वचिच्चरत्वोक्तेः कथं विकारित्वाभाव इत्यत आह ।। चर इति ।। अनेनाचरं चरमेव चेति व्याख्यातं भवति । कथं सर्वगतस्य चरणमित्यतो न तस्य सर्वगतत्वमेव किं त्वणुत्वं मध्यमत्वं चास्तीत्याह ।। व्याप्त इति ।। अनेन सर्वमावृत्य तिष्ठति । हृदि सर्वस्य विष्ठितमित्याद्युक्ततात्पर्यं भवति । तद्दूरे तद्वन्तिक इत्यादौ विरुद्धधर्मोक्तयेश्वरस्य निःस्वभावत्वोक्तेः कथमुक्तं युक्तं स्यादित्यतस्तद्धटयति ।। सर्वगत्वादिति ।। अनेन दूरस्थमिति व्याख्यातं भवति । व्याप्तत्वाणुत्वादीनां वस्त्वन्तरे सहानवस्थानात्कथं हरौ सह स्थितिरित्यत आह ।। अनन्तेति ।। अनन्ताव्ययशक्तित्वेऽपि विरोधिनः कथं तेऽत्र सन्तीत्यत आह ।। नचेति ।। क्षेत्रज्ञनाम्नो जीवे प्रसिद्ध्यभावाच्च नात्रासावुच्यत इत्याह ।। नचेति ।। क्वचित्सद्भावेऽपि तदमुख्यमिति भावः । न च विष्णावपि क्षेत्रज्ञनाम्नो न प्रसिद्धिरिति वाच्यम् । उक्तवचन एव प्रसिद्धत्वात् । वचनान्तरेऽपि तत्प्रसिद्धिं दर्शयति ।। क्षेत्रज्ञ इति ।। मनसो विभूतीर्मनसो विकारान् । मायारचिताः निमित्तभूतस्वेच्छारचिताः ।

इतश्चैतद्यो वेत्तीत्येतन्न जीवपरमित्याह ।। अत इति ।। यतोऽत्र न जीवो विवक्षितोऽत एव एतद्यो वेत्तीति भगवदभिप्रायेण सामान्यतः क्षेत्रज्ञशब्दस्य व्युत्पादितत्वात् । जीवस्यापि किञ्चित् क्षेत्रज्ञानसद्भावात्तस्य क्षेत्रज्ञत्वप्राप्तेस्तन्निराकरणाय क्षेत्रज्ञं मामित्युक्तमित्यर्थः । जीवस्य क्षेत्रज्ञत्वनिराकरणाय क्षेत्रज्ञं मामित्युक्तिरिति कुत इति चेत् ।। किमेतद्यो वेत्तीत्यस्येश्वरपरत्वमभ्युपगम्येदमुच्यते उत जीवविषयत्वम् । पक्षद्वयं दूषयति ।। अन्यथेति ।। एतद्यो वेत्तीत्यस्येश्वरपरत्वमङ्गीकृत्य क्षेत्रज्ञं मामित्यस्य जीवव्यावर्तकत्वानङ्गीकारे परमेश्वरस्यैतद्यो वेत्तीत्यनेनैव क्षेत्रज्ञत्वसिद्धेः क्षेत्रज्ञं मामिति पुनस्तद्वचनस्य वैयर्थ्यं स्यात् । एतद्यो वेत्तीत्यस्य जीवपरत्वमङ्गीकृत्य क्षेत्रज्ञं मामित्यस्य जीवव्यावर्तकत्वानङ्गीकारे वक्तव्यस्य जीवक्षेत्रज्ञत्वस्यैतद्यो वेत्तीत्युक्तेनैव पूर्णत्वात्क्षेत्रज्ञं मामिति निरर्थकं विरुद्धार्थं च स्यादिति भावः ।

एतद्यो वेत्तीत्यस्य जीवपरत्वेऽपि नोत्तरवाक्यवैयर्थ्यम् । जीवस्य क्षेत्रज्ञत्वमुक्त्वा ईश्वरस्याप्युच्यत इति क्षेत्रज्ञत्वेनोक्तजीवस्य क्षेत्रस्य चेश्वरैक्यमुच्यत इति वा सार्थक्योपपत्तेः । प्रत्युतैवमनभ्युपगम्येश्वरस्यैव क्षेत्रज्ञत्वाङ्गीकृतावेतद्यो वेत्तीति व्यर्थं स्यात् । क्षेत्रज्ञं चापीत्यनेनैवेश्वरस्य क्षेत्रज्ञत्वसिद्धेरित्यत आह ।। भेदेति ।। जीवस्य क्षेत्रज्ञत्वमुक्त्वा तस्येश्वराभेद उच्यत इत्यादियोजनामनङ्गीकृत्येश्वरस्य क्षेत्रज्ञत्वाङ्गीकारेऽप्येतद्यो वेत्तीति सार्थकमेव । क्षेत्रज्ञनामनिरुक्तयर्थत्वादित्यर्थः । क्षेत्रं जानातीति क्षेत्रज्ञ इति क्षेत्रज्ञनामनिरुक्तेः प्रसिद्धत्वात् क्षेत्रज्ञं चापि मामित्येतावतैवालं किं निरुक्त्येत्यत आह ।। सर्वेति ।। क्षेत्रज्ञं चापि मां विद्धि इत्येवोक्ते क्षेत्रं च ज्ञश्चेति क्षेत्रज्ञ इति व्युत्पत्त्या जडजीवात्मकत्वमीश्वरस्यैवोच्यत इति प्रतीतिः स्यात्तन्निराकरणाय प्रसिद्धाऽपि व्युत्पत्तिरुच्यते । न च प्रसिद्धव्युत्पत्तिं परित्यज्यैवं व्युत्पत्त्या शङ्काप्राप्तिरेव नास्तीति वाच्यम् । जडजीवात्मकस्य सर्वस्यापीश्वरेणाभेदमङ्गीकुर्वतां तथा प्रतीतिसम्भवादिति भावः ।

ईश्वरस्य क्षेत्रज्ञनामनिरुक्तिर्जीवस्य तदभाव इत्येतत्सर्वस्यैतद्यो वेत्तीश्वरस्तं क्षेत्रज्ञं प्राहुरित्यादिवाक्य एव ईश्वरवाचिपदप्रक्षेपेण वक्तुं शक्यत्वात्तदर्थं पृथग्वाक्यकल्पने गौरवमित्यत आह ।। क्षेत्रज्ञमिति ।। नोत्तरवाक्ये जीवव्यावृत्त्यर्थमेव स्वस्य क्षेत्रज्ञत्वमात्रमुच्यते । येन गौरवं स्यात् । किंतु जीवव्यावृत्त्यर्थमीश्वरस्यास्फुटमुक्तं क्षेत्रज्ञत्वं स्फुटमनूद्याव्यक्तादिशरीरस्य कथं क्षेत्रशब्दवाच्यत्वमित्यतः क्षीयतेऽत्रेश्वरेणेति क्षेत्रमित्यर्थसूचनाय स्वस्य क्षेत्रे स्थितिश्चोच्यत इति भावः ।

यदुक्तमेतद्यो वेत्तीति जीवस्य क्षेत्रज्ञत्वमुक्त्वा क्षेत्रज्ञं चापीति ईश्वरस्यापि तदुच्यतेऽतो न वैयर्थ्यमिति । तन्निराचष्टे ।। तत्पक्ष इति ।। एतद्यो वेत्तीत्यस्य जीवविषयत्वपक्षे क्षेत्रं जानातीति क्षेत्रज्ञ इति व्युत्पत्तेर्जीव इवेश्वरेऽपि साम्येन एतद्यो वेत्तीत्युक्तयैवेश्वरस्यापि क्षेत्रज्ञत्वं सिध्यत्येवातः क्षेत्रज्ञं चापीति वाक्यं व्यर्थमेवेति भावः । क्षेत्रज्ञतयोक्तजीवस्य क्षेत्रस्य चेश्वराभेदकथनाय क्षेत्रज्ञं चापि मां विद्धीति सार्थकमित्युक्तं दूषयति ।। सर्वेति ।। यदि क्षेत्रज्ञं चापि मामित्यत्र क्षेत्रक्षेत्रज्ञरूपस्य सर्वस्याभेदो विवक्षितः स्यात्तर्हि सर्वक्षेत्रं क्षेत्रज्ञं चापि मां विद्धीति वक्तव्यं सर्वक्षेत्रेष्विति सप्तमीप्रयोगोऽनुपपन्नः स्यादिति भावः । तर्हि क्षेत्रज्ञस्यैवेश्वराभेदोऽत्रोच्यताम् । तथात्वे बाधकाभावादित्यत आह ।। नचेति ।। यदि क्षेत्रज्ञतयोक्तजीवस्येश्वरस्य चैक्यमत्र विवक्षितं स्यात्तर्हि क्षेत्रज्ञोऽहं चैक एवेति वक्तव्यम् । नतु क्षेत्रज्ञमनूद्येश्वरत्वविधानं युज्यते । जीवमनूद्य मां विद्धीति विधातुमस्येश्वरस्यापि जीववत्कल्पितत्वेन विशेषाभावादिति भावः ।। ३ ।।

किरणावली

जीवविषयतयेति ।। एतत् यो जीवो वेत्ति तं क्षेत्रज्ञ इति प्राहुः । क्षेत्रज्ञं जीवं च मां विद्धि इत्यन्यथाप्रतीतिनिरासायेत्यर्थः । विलक्षणश्च जीवेभ्यः सर्वेभ्योऽपीति मूलेऽपिरभिव्याप्तौ । सदैव चेति चशब्दः सर्वरूपेष्वपीति समुच्चयार्थे । यद्वा चोहेतौ । सर्वतःपाणिपादादिरिति मूले यतः सर्वतः पाणिपादादिस्तस्माद्विलक्षण इत्यन्वयः । यतः सर्वत्र सर्वरूपेषु केशादिष्वपि सर्वत्रावयवेषु पाण्यादिशक्तिमानतः सर्वतः पाणिपादादिरित्यपि योज्यम् । अणोरणुतरैरित्यस्य पाणिपादादिसंयुतैरणोरणुतरैरनन्तरूपैः सर्वत्र परमाणुप्रदेशे ततोप्यणुतरेषु प्रदेशेषु च स्थितत्वात् । सर्वरूपेष्वप्यङ्गाङ्गिभावेन स्थितत्वाद्वा सर्वत्र देशे विभावव्याकृताकाशे च स्थितत्वाद्वेत्यर्थः । सर्वेन्द्रियाणां विषयान्वेत्तीत्यस्य एकैकशः सर्वेन्द्रियैः सर्वविषयान्वेत्ति चक्षुषारूपमिवर सादीन्सर्वविषयान्वेत्तीत्यर्थः । यद्वा सर्वावयवैः सर्वेन्द्रियाणां विषयाननुभवतीत्यर्थः । वेत्तीत्येतत्कर्मणोऽप्युपलक्षणमिति पाण्यादिसर्वेन्द्रिय कर्माण्यादानादीनीन्द्रियान्तरैरवयवान्तरैश्च करोतीत्यपि ग्राह्यमित्यर्थः ।। अनेनेति ।। श्रुत्यादावनिन्द्रियत्वोक्तेर्गतिद्वयप्रदर्शनेन सर्वतः पाणिपादं तत्सर्वतोऽक्षीत्याद्युक्त्वा पुनः सर्वेन्द्रियविवर्जितमिति तद्राहित्यप्रतिपादकं वाक्यमपि व्याख्यातं भवतीत्यर्थः । अन्यथाविरोधादिति भावः ।। अनेन निर्गुणमित्युक्तार्थमिति ।। निर्गुणं गुणभोक्तृचेति विरुद्धवत्प्रतीयमानं वाक्यमुक्तार्थमित्यर्थः । अन्यथा भावराहित्यादचर इति मूलस्यान्यथा भावो विकारस्तद्राहित्यादचरः । चरतेर्गत्यर्थत्वात्पूर्वभावस्य स्वातन्त्र्यादेर्गमनराहित्यादचर इति भावः ।। क्वचिच्चरत्वोक्तेरिति ।। चरत्वोक्तयान्यथाभावस्य विकाराख्यस्य प्राप्तत्वात्कथं विकाराभाव इत्यतश्चरत्वोक्तिर्न विकारित्वेनेति भावेन चर इत्यस्यार्थान्तरमाहेत्यर्थः । मूले चर एव च । चरणात्सर्वदेशेष्वित्यस्य सर्वदेशेषु चरणादेव चरश्च न तु विकारित्वादित्यर्थः । चरणाच्चर इत्येवोक्तेऽन्यथाभावादित्येव प्रतीयात्तथाच न विरोधशान्तिर्भवतीत्यतः सर्वदेशेष्वित्युक्तम् । सर्वदेशेषु सञ्चारित्वादित्यर्थः । यद्वान्यथाभावराहित्यादित्यस्य गमनक्रियया देवदत्तस्येव खे(स्वे)दवेदनादिविक्रियाभावादित्यर्थः । अकर्माक्लिष्टकारित्वादिति वचनात् । यद्वा । यस्मिंस्थाने स्वयं स्थितः ततश्चलनाख्यान्यथाभावशब्दितविक्रियाभावादित्यर्थः । क्वचिच्चरत्वोक्तेरित्यस्य ससध्रीचीः सविषूचीर्वसान इत्यादौ चरत्वोक्तेः कथमेकस्मिन्नेव स्थाने स्थितिरिति भावः । मूले चर एवेत्येवकारस्त्वचरोऽपि चरो भवत्येवेत्ययोगत्यवच्छेदार्थः । च शब्दस्त्वचिन्त्यशक्तयाख्यघटकसमुच्चयार्थः । सर्वदेशेष्वित्यस्य यस्मिन्देशे स्वयं स्थितस्तत्रापि चरणादित्यर्थः ।।

कथं सर्वगतस्य चरणमित्यतो न तस्येति ।। यत्सर्वगतं रूपं न तस्य सर्वगतत्वमेव किंत्वणुत्वं मध्यमत्वं चास्तीत्यर्थः । तथा च युगपदणुत्वमहत्त्वसद्भावात् विभोरपि चलनमुपपद्यत इति भावः ।। अनेन सर्वमावृत्य तिष्ठति हृदि सर्वस्य विष्ठितमित्याद्युक्ततात्पर्यमिति ।। सर्वमावृत्य तिष्ठतीति विभुत्वेनोक्तस्यैव हृदि सर्वस्य विष्ठितमित्यणुत्वोक्तेरत एव एषम आत्मान्तर्हृदये ज्यायानित्युक्तस्यैवैष म आत्मान्तर्हृदयेऽणीयानित्यणुत्वं श्रुतिसिद्धमिति भावः । इत्यादीत्यादिपदेन भूतेषु स्थितमिति मध्यमपरिमाणत्वमुच्यते । तत्तदाकारतया तत्र तत्र स्थितेर्विवक्षितत्वाद्धृदयस्थत्वस्य हृदि सर्वस्येत्यनेन प्राप्तत्वादिति भावः ।। अनेन दूरस्थमितीति ।। तद्ब्रह्मसर्वमावृत्य तिष्ठतीत्युक्तरीत्या सर्वगतत्वाद्दूरस्थमन्तिके चेति समुच्चये एकश्चशब्दः । अपरस्त्ववान्तरे चेत्यनुक्तावान्तरसमुच्चयार्थ इति व्याख्यातं भवतीत्यर्थः ।

नन्विदमाकाशसाधारणमिति चेन्न । आकाशे योंशस्समीपेऽस्ति न स एव दूरेऽस्ति । भगवतस्तु योंशः समीपेऽस्ति स एव दूरे स्ति तस्यैव सर्वगतत्वादिति भावः । तदन्यत्र विरोधिन इति मूलस्य तदन्यत्र सहानवस्थानलक्षणाविरोधवन्त इत्यर्थः । न च तत्र विरोधिन इत्यस्य तत्र सहानवस्थानलक्षणविरोधयुक्ता न भवन्ति प्रमाणैस्सहावस्थानप्रतीतेरिति भावः ।। क्वचित्सद्भावेऽपीति ।।

क्षेत्रज्ञास्समवर्तन्त गात्रेभ्यस्तस्य धीमत इति विष्णुपुराणादावित्यर्थः ।। उक्तवचन एवेति ।। क्षेत्रज्ञो भगवान्विष्णुरित्युदाहृतवचन एवेत्यर्थः । क्षेत्रज्ञ एता इति भागवत वचनस्य शुद्धः पारतन्त्र्यादि दोषरहितः क्षेत्रज्ञो विष्णुरविशुद्धकर्तुरस्वतन्त्रकर्तुर्भ्रान्त्यासतः कर्तृत्वाभिमानवतो वा जीवस्य मायया निमित्तभूतेश्वरेच्छया रचिता मनसो विभूतीः । मनोविकारान्बाह्यविषयानुभव सुखादीन्विचष्टे पश्यति । कीदृशान् आविर्हिताः जाग्रदवस्थायामाविर्भूतानन्ययोरवस्थयोस्तिरोहिता नित्यर्थः ।। यतोऽत्रेति ।। यतोऽत्र जीवो न विवक्षितोऽत एव क्षेत्रज्ञं मामित्युक्तमित्यन्वयः । वह्निमत्त्वादेव धूमवत्त्वमितिवत् व्यापकायोगव्यवच्छेदार्थमेव शब्दस्तथा च यतोऽत्र क्षेत्रज्ञं चापि मां विद्धीत्युक्तमतो जीवोऽत्र न विवक्षित इति ज्ञायत इति साध्यसाधनभावो द्रष्टव्यः । क्षेत्रज्ञशब्दस्य भगवति प्रसिद्धत्वे क्षेत्रज्ञं मामिति पुनः किमर्थं वक्तव्यमित्यत उक्तम् ।। तस्य क्षेत्रज्ञत्वप्राप्तस्तन्निराकरणायेति ।। प्रापकं किमित्यत उक्तम् ।। एतद्यो वेत्तीत्यादिना ।। शङ्कते ।। जीवस्य क्षेत्रज्ञत्वनिराकरणायेति ।। ईश्वरपरत्वमिति जीवपरत्ववदीश्वरपरत्वमपीत्यर्थः ।। जीवविषयत्वमिति ।। जीवमात्रविषयत्वमित्यर्थः । आद्यपक्षोत्तरत्वेन योजयति ।। एतद्यो वेत्तीत्यस्येति ।। ईश्वरपरत्वमिति अस्मदुक्तरीत्येश्वरमात्र परत्वमित्यर्थः । परमेश्वरस्येति त्वद्रीत्या जीववत्परमेश्वरस्येत्यर्थः ।। द्वितीयपक्षोत्तरत्वेन योजयति ।। एतद्यो वेत्तीत्यस्य जीवपरत्वमिति ।। जीवमात्रपरत्वमित्यर्थः ।। विरुद्धार्थं च स्यादिति ।। एतद्यो वेत्ति तमेव क्षेत्रज्ञं प्राहुरित्यस्य मां च क्षेत्रज्ञं विद्धीत्यनेन विरोधादिति भावः । शङ्कते ।। एतत् यो वेत्तीत्यस्य जीवपरत्वेऽपीति ।। वैयर्थ्यं विगतप्रयोजनत्वं विरुद्धप्रयोजनत्वं च नेत्यर्थः । कुतो नेत्यत आह ।। जीवस्येति ।। एतद्यो वेत्तीत्यत्र यच्छब्दस्यजीवमात्रपरत्वं स्वीकृत्य तस्य क्षेत्रज्ञत्वमुच्यते । उत्तरवाक्ये जीववदीश्वरस्याप्युच्यत इति सार्थक्योपपत्तेरित्यन्वयः । प्रकारान्तरेण सार्थक्यमाह ।। क्षेत्रज्ञत्वेनोक्तजीवस्य क्षेत्रस्य चेति ।। क्षेत्रज्ञं चापि मामित्यत्र क्षेत्रज्ञंश्चेति व्युत्पत्तिमभिप्रेत्य ज्ञशब्दार्थोक्तिः । क्षेत्रज्ञत्वेनोक्तजीवस्येति । द्वन्द्वानुप्रविष्टक्षेत्रशब्दमनुवदति ।। क्षेत्रस्य चेति ।। महाभूतानीत्युक्तक्षेत्रस्य चेत्यर्थः । अत एव परस्परसमुच्चये चापिशब्दाविति भावः ।। प्रत्युतैवमनभ्युपगम्येति ।। एतद्यो वेत्तीत्यत्र जीवस्य क्षेत्रज्ञत्वमुक्त्वा क्षेत्रज्ञं चेत्यत्रेश्वरस्याप्युच्यत इति वा क्षेत्रज्ञाभेदेनेश्वरस्य क्षेत्रज्ञत्वमुच्यत इति वा अनभ्युपगम्येश्वरस्यैव क्षेत्रज्ञत्वं न जीवस्येत्यङ्गीकृतावित्यर्थः ।। इत्यादियोजनामिति ।। आदिपदेन क्षेत्रज्ञं च मां विद्धीति योजनायाः जीवस्य पूर्ववाक्ये क्षेत्रज्ञत्वमुक्त्वात्रेश्वरस्यापि मां च क्षेत्रज्ञं विद्धीति योजनायाश्च ग्रहणम् । ईश्वरस्येति । ईश्वरस्यैवेत्यर्थः । क्षेत्रं च ज्ञश्चेति व्युत्पत्तिं निवारयतीत्ययुक्तम् । विग्रहप्रदर्शनेऽपि समासाप्रदर्शनेन न्यूनत्वात् । व्युत्पत्तिनिवारणस्य प्रयोजनाभावान्नेयं व्युत्पत्तिरित्यनुक्तत्वाच्चेत्यतो व्याचष्टे ।। क्षेत्रज्ञं चापि मां विद्धीत्येवोक्त इति ।। ईश्वरस्य क्षेत्रज्ञ(त्वे)नामनिरुक्तिर्जीवस्य तदभाव इत्येतत्सर्वस्येति ।। तदभाव इत्यतः परमीश्वरस्य जीवजडात्मकत्वप्रतीत्यनुत्पादनमिति संयोज्यम् । तेन सर्वस्येत्युपपन्नम् ।। ईश्वरस्य क्षेत्रज्ञत्वे नामनिरुक्तिरिति ।। एतत्सर्वस्येति सुकरम् ।। आदिवाक्य एवेति ।। प्रथमवाक्य एवेत्यर्थः । किंत्वित्यतः परमव्यक्तादिशरीरस्येत्यादि योज्यम् । अव्यक्तादिरूपशरीरस्येत्यर्थः । तर्हि मां सर्वक्षेत्रेषु विद्धीत्येतावतापूर्णत्वात् । क्षेत्रज्ञं मामिति व्यर्थमित्यत उक्तमस्फुटमित्यादि । एतद्यो वेत्तीति सर्वनामशब्दप्रयोगादस्फुटमित्यर्थः । स्फुटानुवादस्य प्रयोजनमुक्तं जीवव्यावृत्त्यर्थमिति । नन्वेतद्यो वेत्तीश्वरस्तमितीश्वरपदप्रक्षेपेणैव स्फुटं तस्मात्क्षेत्रज्ञत्वलाभेन जीवव्यावृत्तेः सिद्धेः । क्षेत्रज्ञं मामित्यनुवाद एव व्यर्थ इत्यनुवादांशे गौरवं तदवस्थमिति चेन्न । एतद्यो वेत्तीति प्रथमवाक्येऽधिकेश्वर पदस्य प्रयोगादप्युत्तरवाक्ये मां सर्वक्षेत्रेषु स्थितत्वेन विद्धीत्युक्तस्य स्वस्य विशेषणतया क्षेत्रज्ञमिति पदसंयोजन एव खल्वनुवादव्याजेनाहमेव क्षेत्रज्ञ इति स्फुटप्रतिभासादन्यथैतद्यो वेत्तीश्वरस्तं क्षेत्रज्ञ इति प्राहुर्मां सर्वक्षेत्रेषु स्थितत्वेन विद्धीत्युक्ते ईश्वरस्य क्षेत्रज्ञत्वं स्वस्य क्षेत्रस्थितिमात्रमिति प्रतीतिप्रसङ्गेन स्वस्य क्षेत्रज्ञत्वालाभ इति भावः । तदिदमुक्तं ईश्वरस्यास्फुटमुक्तं क्षेत्रज्ञत्वं स्फुटमनूद्येति । क्षीयतेऽत्रेति स्थीयत इत्यर्थः । क्षिनिवासगत्योरिति धातोः ।।

तर्हि क्षेत्रज्ञस्यैवेति ।। यदीश्वरानुवादेन क्षेत्रज्ञत्वविधानेश्वरक्षेत्रज्ञत्वस्यैतद्यो वेत्तीति व्युत्पत्त्या जीवादीश्वरेऽपि साम्येनैतद्यो वेत्तीत्यनेनैव सिद्धेर्वैयर्थ्यदोषः प्राप्नोति । तर्हि क्षेत्रज्ञानुवादेनेश्वराभेद अत्रोच्यताम् । तथात्वे वैयर्थ्यरूपबाधकभावादित्यर्थः । न च तत्पक्षे मामित्यस्येति मूलं योजयितुं परिष्करोति ।। यदि क्षेत्रज्ञतयेत्यादिना ।। नन्वद्वैतवाक्यं त्रेधा प्रवर्तते । ईश्वरमनूद्य जीवाभेदविधानेन यथा वासुदेवस्सर्वमिति । सोऽहमस्मीति च । जीवमनूद्येश्वराभेदविधानेन यथात्वं तदसीति । अहं ब्रह्मास्तीति च । उभयानुवादेनैक्यविधानेन यथा नेह नानास्तीति तेषां पक्षः । तथा च पक्षत्रयेऽप्यैक्यलाभात् ।। क्षेत्रज्ञोऽहं चैक एवेति वक्तव्यं न तु क्षेत्रज्ञमनूद्येश्वरत्वविधानं युज्यत इति ।। कथं न युज्यत इत्यतो मूलं साध्याहारं योजयति ।। जीवमनूद्येत्यादिना ।। एतेन मामित्यतः पूर्वं जीवमनूद्येति शेषः । मामित्यतः परं विद्धीति शेषः । इति शब्दात्परं विधातुमिति शेष इत्युक्तं भवति । अस्येत्यनुवादेनेश्वरस्येति व्याख्यानम् । जीवाद्विशेषाभावमुपपादयितुमुक्तं जीववत्कल्पितत्वेनेति । इदमुक्तं भवति । सत्यमित्थमद्वैतवाक्यं त्रेधा प्रवर्तत इति परेषां प्रक्रियेति । किंतु सानुपपन्ना अमात्यमेतं राजानं विद्धीत्यत्रामात्याद्राज्ञो विशेषसद्भावादमात्यानुवादेन राजत्वविधावमात्यस्यापि विशेषो ज्ञापितो भवति । न च तथा जीवानुवादेनेश्वरत्वविधिरुपपन्ना । जीवादीश्वरस्य विशेषाभावात् । उभयोरपि कल्पितत्वाविशेषात्तुल्ययोश्चैक्यविधानेऽन्यतरानुवादेनान्यतरैक्य विध्ययोगादुभयानुवाद एवोचितः । व्यवहारदशायां विशेषोऽस्ति चेत्तर्हि ईशानुवादेन जीवत्वविधिरयुक्त ईशकोपप्रसङ्गात् । ननु पक्षत्रयेऽपि विशिष्टैक्यस्य बाधितत्वाद्भागत्यागलक्षणया चैतन्यैक्यं वक्तव्यम् । विशेषविचारो युक्त इति चेन्न । व्यवहारदशामालंब्यैवात्र क्षेत्रज्ञत्व विचारस्य प्रक्रान्तत्वादिति भावः ।। ३ ।।

भावदीपः

न सत्तदिति ।। न सत्तन्नासदुच्यत इति गीतावाक्यं व्याख्यातमित्यर्थः ।। कर्मणोऽप्युपलक्षणमिति ।। सर्वकर्मेन्द्रियकर्माणि करोति चेत्यपि ज्ञेयमित्यर्थः ।।

अनेनेतीति ।। इति व्याख्यातमितीति पूर्वेणान्वयः ।। इत्याद्युक्ततात्पर्यं भवतीति ।। महत्त्वाणुत्वपरिमाणरूपेण हृदि विष्ठितमित्युक्तं भवतीत्यर्थः ।। उक्तवचन एवेति ।। क्षेत्रज्ञो भगवान्विष्णुरिति प्रागुक्तवचन एव प्रसिद्धत्वादित्यर्थः । मनोविकारात् ज्ञानेच्छादीनित्यर्थः । व्यर्थपदस्यार्थद्वयमाह ।। निरर्थकं विरुद्धार्थं च स्यादिति ।। जीवस्य क्षेत्रज्ञत्वपक्षे भगवतः क्षेत्रज्ञत्वोक्तेर्विरोधादिति भावः । शङ्कते ।। एतदित्यादिना ।। उच्यत इतीत्यनन्तरं वाशब्दो योज्यः । क्वचित्तथैव पाठः ।। क्षेत्रज्ञं चापि मामित्यत्र क्षेत्रं चासौ तज्ज्ञश्चेति व्युत्पत्तिमुपेत्य ज्ञशब्दार्थोक्तिर्जीवस्य क्षेत्रज्ञस्येति । यद्वा क्षेत्रज्ञजीवं सर्वक्षेत्रं च मामिति सर्वक्षेत्रपदं द्वितीयान्ततया विपरिणाम्यानुवदति ।। क्षेत्रस्य चेति ।। शङ्कामनुवदति ।। जीवस्येत्यादिना ।। इत्यादियोजनामिति ।। प्रागुक्तव्युत्पत्त्या क्षेत्राभेदश्चोच्यत इति योजनामित्यादिपदार्थः । शङ्कते ।। क्षेत्रं जानातीति ।। इत्येतत्सर्वस्येति ।। इत्यभिमतार्थस्य सर्वस्येत्यर्थः ।। आदिवाक्य एव प्रश्नवाक्य एवेत्यर्थः ।। इतीश्वरवाचिपदप्रक्षेपेणेत्यन्वयः ।। पृथग्वाक्येति ।। एतद्यो वेत्तीति क्षेत्रज्ञं चापि मामिति पृथग्वाक्येत्यर्थः ।। अव्यक्तादिशरीरस्येति ।। इदं शरीरं कौन्तेयेत्यत्रोक्तस्याव्यक्तादिरूपशरीरस्येत्यर्थः । योगव्युत्पत्त्या शरीरशब्दनिर्दिष्टाव्यक्तादेरिति यावत् ।। क्षीयत इति ।। स्थीयत इत्यर्थः । क्षि निवासगत्योरिति धातोः ।। अनुपपन्नः स्यादिति ।। विपरिणामस्त्वगतिकागतिरिति भावः ।। ३ ।।

भावप्रकाशः

कर्मणोप्युपलक्षकमिति । न केवलमेकैकेनेन्द्रियेण सर्वज्ञानेन्द्रियविषयान् वेत्ति किंतु सकलकर्मेन्द्रियसाध्यं कर्माप्येकैकेनेन्द्रियेण करोतीत्यपि द्रष्टव्यमित्यर्थः ।। व्याख्यानप्रकारं दर्शयति ।। सर्वेन्द्रियगुणा इति । सर्वेन्द्रियविषया इत्यर्थः ।। कथं विकारित्वाभाव इति । अन्यथाभावराहित्यादचर इत्युक्तयाचरत्वोक्तेरन्यथाभाव एवार्थ इति सिद्धमित्यभिप्रेत्यैवमुक्तमिति द्रष्टव्यम् ।। क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्तस्य धीमत इति विष्णुपुराणे । क्वचित्सद्भाव इति । उक्तवचन एवेति । क्षेत्रज्ञो भगवान् विष्णुरित्युदाहृतवचन एवेत्यर्थः । अत एवेति । अत्र वह्निमत्वादेव धूमवानितिवत् व्यापकायोगव्यवच्छेदार्थमेव शब्दः । तथा च यत् उक्तरीत्या क्षेत्रज्ञं मामित्युक्तमतोऽत्र जीवो न विवक्षित इति ज्ञायत इति साध्यसाधनभावो द्रष्टव्य इति भावः ।। विरुद्धार्थं चेति । समुच्चयपक्षस्य तत्पक्ष इत्यनेन निराकरिष्यमाणत्वेन चशब्दस्यावधारणार्थत्वेऽङ्गीकर्तव्ये मामेव क्षेत्रज्ञं विद्धीत्येतज्जीवस्य क्षेत्रज्ञत्वप्रतिपादकपूर्ववाक्य विरुद्धार्थं स्यादित्यर्थः ।। समुच्चयपक्षस्येति गूढमाशयमजानानो दूषणद्वयपरिहारं शङ्कते । एतद्यो वेत्तीत्यस्येति । वैय्यर्थ्यमिति ।। विगीतार्थत्वं च विरुद्धार्थत्वं चेत्यर्थः । तस्येति । जीवस्येत्यर्थः ।। उपलक्षणमेतत् । क्षेत्रस्येत्यपि द्रष्टव्यम् ।। अनेन भेदपक्ष इत्येतत् क्षेत्रजीवयोरीश्वरभेदानङ्गीकारपक्ष इति व्याख्यातं भवति ।। तत्पक्षेतु सर्वाभेदविवक्षायां चेत्युत्तरवाक्यद्वयानुसारेणावतारिकादशायां समुच्चयपक्षानन्तरं अभेदपक्षस्योक्तत्वेऽपि भेदपक्ष इति मूलानुसारेणाभेदपक्षमादावुक्त्वाऽदिपदेन समुच्चयपक्षोऽनन्तरं गृहीत इति ज्ञातव्यम् । अस्फुटमुक्तमिति । एतद्यो वेत्तीत्यनेन स्वपरसाधारण्येनोक्तमित्यर्थः ।। यदेतदुक्तमिति । भेदपक्षेत्विति ।। वाक्यस्यावतारिकासमय इत्यर्थः

।। ३ ।।

वाक्यविवेक

अनेनेति । व्यक्ताव्यक्तविलक्षण इति वाक्येन न सत्तन्नासदुच्यत इति गीतावाक्यं व्याख्यातं भवतीत्यर्थः ।। तन्निवारणायेति । अन्यथा क्षेत्रज्ञं चापि मां विद्धीति वाक्यं व्यर्थं स्यादिति भावः । द्वेधा क्षेत्रज्ञं च मां विद्धीति वाक्यस्य सार्थक्यं शङ्कते ।। एतद्यो वेत्तीत्यस्येति । आदिवाक्य एवेति । एतद्यो वेत्तीति प्रथमवाक्य एवेत्यर्थः । पृथक् वाक्यकल्पन इति । एकवाक्यत्वसम्भवे पृथग्वाक्यकल्पने कल्पनागौरवमित्यर्थः ।। एकेनैव वाक्येन विवक्षितार्थबोधनसम्भवे भिन्नाभ्यां वाक्याभ्यां बोधनमयुक्तमिति भावः । एतेन गीतायां वाक्यद्वयसद्भावात् पृथग्वाक्यकल्पने कल्पनागौरवमित्ययुक्तमिति परास्तम् । नोत्तरवाक्य इति । भिन्नाभ्यां वाक्याभ्यां विवक्षितार्थप्रतिपादन प्रयोजनसद्भावात् न कल्पनागौरवदोष इति भावः ।। ३ ।।

Load More