गीता
गीता
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।। २९ ।।
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ।। ३० ।।
तात्पर्यम्
सर्वभूतेषु स्थितं परमात्मानम् ।। २९, ३० ।।
प्रकाशिका
‘‘सर्वभूतस्थमित्यस्यार्थमाह’’ ।। सर्वभूतेष्विति ।। २९ ।।
न्यायदीपिका
ध्येयमुच्यते ।। सर्वभूतस्थमिति ।। तत्रात्मपदेन जीव उच्यत इत्यन्यथाप्रतीतिनिरासायाह ।। सर्वेति ।। भोक्तरमिति सङ्क्षेपोक्तौ परमात्मन एव ध्येयत्वोक्तेर्योमामित्यनुवादाच्चेति भावः ।। २९ ।।
भावदीपः
अन्यार्थप्रतीतीति ।। ऐक्यार्थप्रतीतीत्यार्थः । आत्मशब्दः परमात्मार्थ इत्यत्र ज्ञापकमाह ।। भोक्तारमितीति ।। पञ्चमान्ते संक्षेपेण ध्येयत्वोक्तावित्यर्थः ।। २९,३० ।।
भावप्रकाशः
प्रतीत एवार्थः किं नस्यादित्यत आह ।। भोक्तारमिति ।। संक्षेपोक्ताविति ।। पञ्चमान्ते परमात्मन एव ध्येयत्वेनोक्तत्वादत्रापिपरमात्मध्येयत्वस्यैव अनुदितत्वात् प्रतीतार्थग्रहणं न युक्तमिति भावः ।। २९ ।।