गीता

सप्तदशोऽध्यायः

श्रद्धादिभेदः गुणनिमित्तकः

गीता

अर्जुन उवाच—

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।

तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ।। १ ।।

श्रीभगवानुवाच—

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।

सात्त्विकी राजसी चैव तामसी चेति तां ृणु ।। २ ।।

तात्पर्यम्

सदसत्कर्मविवेकः ।। १,२ ।।

न्यायदीपिका

एतदध्यायप्रतिपाद्यमर्थं दर्शयति ।। सदिति ।। सत्कर्मण एव पुरुषार्थसाधनत्वेनानुष्ठेयत्वादसत्कर्मणस्तद्विरुद्धत्वेन त्याज्यत्वादनुष्ठानत्यागयोश्च विविच्याज्ञानेऽसम्भवात्सदसत्कर्मणी विचिच्यात्रोच्येते इति भावः ।। १२ ।।

किरणावली

नन्वस्मिन्नध्याये सदसत्कर्मविवेचनेन साधनप्रतिपादकेऽध्यायपञ्चके कथमन्तर्भाव इत्यतो व्याचष्टे ।। सत्कर्मण एवेति ।। सत्वगुणनिमित्तकश्रद्धापूर्वकतया सत्कर्मण इत्यर्थः ।। असत्कर्मण इति ।। रजस्तमोनिमित्तकदुष्टश्रद्धापूर्वकतयाऽसत्कर्मण इत्यर्थः । एतेन गुणभेदानाहेति भाष्यविरोध इति निरस्तम् । गुणनिमित्तकाः श्रद्धादीनां भेदा गुणभेदा इति प्रमेयदीपे व्याख्यातत्वेनैकवाक्यत्वात् ।। १२ ।।

भावदीपः

अनुष्ठानत्यागयोश्चेति ।। असंभवादित्यनेनान्वयः ।। १२ ।।

भावप्रकाशः

सदसत्कर्मविवेकप्रतिपादकैतदध्यायस्य साधनप्रतिपादकाध्यायपञ्चकेऽन्तर्भावसिध्यर्थमाह ।। सत्कर्मण एव पुरुषार्थसाधनत्वेनेति ।। सदसत्कर्मणी इति । उपलक्षणमेतत् । गुणनिमित्तः श्रद्धादिभेदोऽप्युच्यत इति द्रष्टव्यम् ।। यथोक्तं भाष्ये । गुणभेदान्प्रपञ्चयत्यनेनाध्यायेनेति

।। १२ ।।

वाक्यविवेक

सदसत्कर्मविवेक इति वाक्यं शेषं सूचयन्नवतारयति । एतदध्यायेति ।। १,२ ।।