गीता

एकः सर्वोत्तमः

गीता

यच्चावहासार्थमसत्कृतोऽसि

  विहारशय्यासनभोजनेषु ।

एकोऽथवाप्यच्युत तत्समक्षं

  तत्क्षामये त्वामहमप्रमेयम् ।। ४२ ।।

पितासि लोकस्य चराचरस्य

  त्वमस्य पूज्यश्च गुरुर्गरीयान् ।

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो

  लोकत्रयेऽप्यप्रतिमप्रभाव ।। ४३ ।।

तस्मात्प्रणम्य प्रणिधाय कायं

  प्रसादये त्वामहमीशमीड््यम् ।

पितेव पुत्रस्य सखेव सख्युः

  प्रियः प्रियायार्हसि देव सोढुम् ।। ४४ ।।

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा

  भयेन च प्रव्यथितं मनो मे ।

तदेव मे दर्शय देव रूपं

  प्रसीद देवेश जगन्निवास ।। ४५ ।।

तात्पर्यम्

एकः सर्वोत्तमोऽप्यसत्कृतः । ‘एकः सर्वाधिको ज्ञेय एष एव करोति यत्’ इति च ।। ४२४५ ।।

प्रकाशिका

‘‘यच्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।। एकोऽथवाऽप्यच्युते’’त्यत्र एकशब्दार्थमाह ।। एक इति ।। ४२४५ ।।

न्यायदीपिका

असत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवापीत्यत्र यद्यप्यहं त्वमेक एव तथापि लोकव्यवहारानुसारेण क्षामय इत्यन्यथाप्रतीतिनिरासायाह ।। एक इति ।। तर्ह्यन्वयो नोपपद्यत इत्यतस्तं दर्शयति ।। अपीति ।। सर्वोत्तमत्वेनासत्कारायोग्योऽप्यसत्कृतोऽसीत्येवोच्यते नान्यत् । अर्जुनस्य भगवदैक्ये मानाभावादिति भावः । एकशब्दः कथं सर्वोत्तमवाचीत्यत आह ।। एक इति ।। एकत्वादेः करोतीति क इत्यर्थः । अन्यनिरपेक्षतया हि कर्ता सर्वोत्तमः ।। ४२४५ ।।

किरणावली

एकत्वादेः करोतीति क इति ।। आद्याक्षरग्रहणेनैशब्द एकस्य द्योतकः । क इति कर्तृत्ववाचककरोतेर्ड इति भावः । गीतायामजानतामहिमानं तवेदमित्यत्रेदमिति महिम्नो यो भावो महिमत्वं तद्विशेषणम् । तदुक्तं बृहद्भाष्ये । अहमेवेदं सर्वोस्मीत्यत्रेदमिति सर्वत्वविशेषणम् । अजानता महिमानं तवेदमित्यादिवदिति । तथा च सखेति मत्वेत्यादिश्लोकद्वयस्यायमर्थः । अच्युत तवेदं प्रत्यक्षसिद्धं महिमानं महिमत्वं महिमि्नस्थितं सर्वाधिक्यलक्षणं भावमजानता मया सखेति मत्वाऽपहासार्थं प्रणयेन वा प्रमादादनवधानाद्वा परमेश्वरावतारत्वविस्मरणाद्वा हे कृष्ण कालवर्ण । हे यादव राज्यानर्ह यदुवंशोद्भव हे सखेति प्रसभं बलात्कारेण यथेच्छमिति यावत् । यद्वचनमुक्तं किञ्च यद्यपि त्वमेकः प्रधानः । अथवा अथापि प्रसभं विहारशय्यासनभोजनेषु विहारे जलप्रपतनपणोपर्यारोहणादिना शय्यासनयोः सहशय्यादिना, भोजनं पूर्वभोजनादिनाऽसत्कृऽतोऽसीति यत्परिहासवचनं तत्तिरस्करणं च प्रति तत्परिहारार्थं त्वामहं समक्षं जनसमक्षं यथाभवति तथा दण्डप्रणामादिना क्षामये क्षमापयामीति । यद्यस्मात् उक्तं यच्च यस्माच्चासत्कृतोऽसि तत्तस्मात्तद्वचनमसत्करणं च प्रति त्वां क्षमापयामीत्यर्थः । महिम्न अज्ञेयत्वं कुत इत्यत उक्तं गीतायामप्रमेयमिति ।। ४२४५ ।।

भावदीपः

करोतीति क इति ।। कृञो डप्रत्ययः । प्रत्युतेत्यस्येत्येवोच्यत इत्यनेनान्वयः

।। ४२४५ ।।

वाक्यविवेकः

एकत्वादिति । एकशब्दोपपदात् करोतेर्ड प्रत्यये समाने लोप इति आद्य ककारस्य लोपे एक इति रूपमिति भावः ।। ४२४५ ।।

इति श्रीमत्सत्यनिधितीर्थश्रीचरणचरणाराधकश्रीसत्यनाथयतिविरचिते

न्यायदीपिकाव्याख्याने वाक्यविवेके एकादशोध्यायः ।।