गीता

कर्मणां पञ्चकारणानि

गीता

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ।। १४ ।।

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।

न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ।। १५ ।।

तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।

पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ।। १६ ।।

तात्पर्यम्

अधिष्ठानं शरीरादि ।। १४१६ ।।

प्रकाशिका

‘‘अधिष्ठानं तथा कर्तेत्यत्राधिष्ठानशब्दार्थमाह ।। शरीरादीति ।। १४१६ ।।

न्यायदीपिका

अधिष्ठानपदस्यात्र विवक्षितमर्थमाह ।। अधिष्ठानमिति ।। १४१६ ।।