तात्पर्यम्

तात्पर्यम्

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।

शरीरयात्राऽपि च ते न प्रसिध्येदकर्मणः ।।

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।

कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ।

ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत ।

न सर्वकर्मणां त्यागः कस्यचिद्भवति क्वचित् ।

त्यागिनो यतयोऽपि स्युः सङ्कोचाद्बाह्यकर्मणाम् ।। इत्यादि ।

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिन’ इत्यादि चोत्पन्नज्ञानतिरोभावनिवृत्त्यर्थम् ।। इत्युपोद्धातः ।

न्यायदीपिका

ज्ञानिनां सर्वकर्माभाव एवास्यार्थः किं न स्यादित्यतो भगवतैव तदसम्भवस्योक्तत्वादित्याह ।। नहीति ।। नात्र ज्ञानिनः शरीरयात्रार्थकर्मत्यागो विवक्षित इति ब्रूमो येनासम्भवः स्यात् । किंतु यज्ञादिकर्मत्याग एव । तस्यैव मोक्षविरोधित्वादिति चेन्न । कामादिरहितयज्ञोदेरबन्धकत्वाभिप्रायेण भगवताऽभिहितत्वादित्याह ।। एतानीति ।। अज्ञविषयोऽयं विधिः किं न स्यादिति चेन्न । ज्ञानिन एव श्रुत्या तथाविधकर्मणो विहितत्वादित्याह ।। ज्ञानीति ।। उदितानि श्रुत्यादौ कर्तव्यतयेति शेषः । तथाप्येतद्बाक्यस्योक्तार्थः कुत इति चेत् समाख्यानादित्याह ।। नेति ।।

यदुक्तमर्जुनो ज्ञानीति तदयुक्तम् । उपदेक्ष्यन्तीत्यस्याज्ञत्वप्रतीतेरित्यत आह ।। उपदेक्ष्यन्तीति ।। नार्जुनस्य ज्ञानित्वेप्येतद्वाक्यस्य विरोधः ।। यत एतत्प्रागुत्पन्नज्ञानतिरोभावनिवृत्त्यर्थमेवोपदेशमाह । नतु प्रागप्राप्तज्ञानलाभार्थमित्यर्थः ।। उपोद्धातः संपूर्णः ।।

किरणावली

मोक्षविरोधित्वादिति ।। स्वर्गमानुष्यादिफलकत्वादिति भावः ।। एतद्वाक्यस्येति ।। ज्ञानयोगेन साङ्ख्यानामित्येतद्वाक्यस्येत्यर्थः ।।

प्रागुत्पन्नेति ।। प्रागुत्पन्नपरोक्षापरोक्षज्ञानतिरोधाननिवृत्त्यर्थमित्यर्थः ।। न तु प्रागप्राप्तज्ञानलाभार्थ मिति ।। न तु प्रागनुत्पन्नयोग्यापरोक्षज्ञानतिरोधाननिवृत्त्यर्थमित्यर्थः । अप्राप्तस्य परोक्षज्ञानस्याप्राप्तरूपविशेषापरोक्षस्य च लाभात् । ‘‘जानन्तोऽपि विशेषार्थज्ञानाय स्थापनायवा ।। पृच्छंति साधव’’ इत्यादेः। विरिञ्चेतरेषां तिरोहितलाभो वा किञ्चिदप्राप्तलाभश्चोच्यत इत्यादि तत्त्वप्रकाशिकावचनाच्चेति ।।

इति संक्षेपेण गीतातात्पर्योक्तिः ।।

भावदीपः

साङ्ख्यानामित्यस्यार्थो ज्ञानिनामिति । शङ्कते ।। नात्रेति ।। यदुक्तमिति ।। ‘सुदुर्दर्शमिदं रूपम्’ इत्यादिनाऽर्जुनो ज्ञानीति यदुक्तमित्यर्थः ।। इति संक्षेपेण गीतातात्पर्योक्तिः ।।

भावप्रकाशः

तथाप्येतद्वाक्यस्येति । ज्ञानयोगेन साङ्ख्यानामित्यस्येत्यर्थः । यदुक्तमर्जुनो ज्ञानीति ।। उत्तमाधिकारिणमात्मनः प्रियतममित्यनेनेत्यर्थः ।

वाक्यविवेकः

उपदेक्ष्यंतीति ।। उपदेक्ष्यंति ते ज्ञानमिति श्लोकेन अर्थादर्जुनस्याज्ञत्वप्रतीतेरिति भावः ।।

उपोद्घातः सम्पूर्णः