गीता

गीता

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।

मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ।। १३ ।।

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।। १४ ।।

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।

माययापहृतज्ञाना आसुरं भावमाश्रिताः ।। १५ ।।

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।

आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।। १६ ।।

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।। १७ ।।

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।

आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ।। १८ ।।

बहूनां जन्मनामन्ते ज्ञानावान्मां प्रपद्यते ।

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ।। १९ ।।

तात्पर्यम्

अचेतनया तन्मेयत्वात्तु मायया ।

लक्ष्म्या वशगया लोको विष्णुनैव विमोहितः ।

ये तु विष्णुं प्रपद्यन्ते ते मायां तु तरन्ति हि ।

लक्ष्मीः सा जडमायाया देवता ते उभे अपि ।

विष्णोर्वशे ततोऽनन्यभक्तया तं शरणं व्रजेत् ।

यादृशी तत्र भक्तिः स्यात् तादृश्यन्यत्र नैव चेत् ।

अनन्यभक्तिः सा ज्ञेया विष्णावेव तु सा भवेत् ।

अन्येषु वैष्णवत्वेन लक्ष्मीब्रह्महरादिषु ।

कुर्याद् भक्तिं नान्यथा तु तद्वशा एव ते यतः ।

एवं जानंस्तमाप्नोति नान्यथा तु कथञ्चन ।

पूर्णं वस्तु यतो ह्येको वासुदेवो नचापरः ।

एवंविद्दुर्लभो लोके ...... ...... ....... ।

न्यायदीपिका

एवं सर्वप्रेरकः परमात्मा कुतो लोकेन न ज्ञायत इत्यत आह ।। अचेतनयेति ।। प्रकृत्येति शेषः ।। तन्मेयत्वादिति ।। विष्णुनैव सम्यक् ज्ञातत्वात् । लक्ष्म्याचेत्यर्थः । अनेन त्रिभिरित्यादेरर्थ उक्तो भवति । ममेत्यस्यार्थो वशगयेति । विष्णुनैवेत्यनेनाचेतनप्रकृत्याद्याहितं स्वविषयमोहं भगवान्कुतो न वारयतीत्याशङ्कानिवारकस्य नाहं प्रकाश इत्यस्यार्थ उक्तो भवति । यदि साक्षाद्भगवत्या लोको मोहितस्तर्हि न कस्यापि ज्ञानमित्यत आह ।। येत्विति ।। अनेन मामेवेत्येतद्व्याख्यातं भवति । भगवत्प्रपत्त्या कथं मायातरणमित्यत आह ।। लक्ष्मीरिति ।। ननु पूर्वं लक्ष्स्या एव भगवद्वशत्वस्योक्तत्वात्कथं ते उभे अपि विष्णोर्वशे उच्येते इत्यत उक्तम् ।। लक्ष्मीः सा जडमाया या देवतेति ।। लक्ष्म्याश्च भगवद्वशत्वे उभयोरपि भगवद्वशत्वं भवति । अचेतनप्रकृतेर्लक्ष्मीवशत्वात् । अतो मोहकप्रकृत्योर्भगवद्वशत्वात्तत्प्रपत्त्या मायातरणं युक्तमेवातस्तं प्रपद्येतेत्यर्थः । अनेन गुणमयीत्येतद्व्याख्यातं भवति । ततोऽनन्यभक्तयेत्यनेनैकभक्तिरित्यादेस्तात्पर्यमुक्तं भवति । अनन्यभक्तिर्नाम कीदृशीत्यत आह ।। यादृशीति ।। तत्र भक्तिविषये । अनेनैकस्मिन् भक्तिर्यस्येति विग्रहः सूचितः । तेन सामानाधिकरण्याङ्गीकारे भक्तिशब्दस्य प्रियादित्वेन पुंवद्भावाप्राप्तिश्च परिहृता । विष्णोः सर्वोत्तमत्वमन्येषां तद्वशत्वं च ज्ञात्वा भक्तिं कुर्वतां किं फलमित्य आह ।। एवमिति ।। एवं जानन्निति ।। ज्ञात्वा भजन्नित्यर्थः । अनेन ज्ञानी त्वात्मैव मे मतमित्याद्युक्तार्थं भवति । अवधारणार्थतुशब्दस्यार्थोनान्यथेति । भगवज्ज्ञानिनामेव मोक्षो नान्येषामिति कुत इत्यत आह ।। पूर्णमिति ।। भगवत एव पूर्णत्वेन मोक्षदानशक्तिर्नान्येषामित्यार्थः । अनेन वासुदेव इत्यस्यार्थ उक्तो भवति । यदि भगवज्ज्ञानेन मोक्षस्तर्हि सर्वेषां स्यादित्यत आह ।। एवंविदिति ।। वासुदेवज्ञानेन मोक्षसद्भावेऽपि तज्ज्ञानिनो न सर्व इति न सर्वेषां मोक्ष इत्यर्थः । एतेन स इति व्याकृतं भवति ।। १३१९ ।।

किरणावली

विष्णुनैवसम्यगिति ।। अनेन तन्मेयत्वात्तेनैव विशिष्य सम्यग्ज्ञेयत्वादिति तु शब्दार्थ उक्तो भवति । लक्ष्म्याचेत्यनेन तु शब्दश्च शब्दार्थ इत्यप्युक्तं भवति ।। अनेन त्रिभिरित्यादेरिति ।। त्रिभिरित्यादिश्लोकद्वयस्येत्यर्थः । एवं सर्व प्रेरकः परमात्मा । कुतो लोकेन न ज्ञायत इत्यत आद्यश्लोकः प्रवृत्तः । तत्राचेतनया प्रकृत्या लक्ष्म्याच लोको मोहित इत्यनेन त्रिभिरिति श्लोको व्याख्यातः । सत्त्वादि गुणत्रयात्मकचित्प्रकृत्या तदभिमानिचित्प्रकृत्याच मोहितं जगदित्युक्तत्वात् । कथमनादिकाले मोहानत्ययो बहूनामित्यतो दैवीति द्वितीय श्लोकः प्रवृत्तः । तन्मेयत्वान्मायया लक्ष्म्यावशगया लोको मोहित इत्यनेन दैवीह्येषेति द्वितीय श्लोको व्याख्यात इत्यर्थः । तत्र वशगयेत्यनेन देववशगत्वाद्दैवीति व्याख्यातमिति प्रतीयतेऽतो व्याख्येयं दर्शयति ।। ममेत्यस्यार्थ इति ।। ततश्चैषा मोहिका गुणमयी तदभिमानिनी माया तेन भगवतैव विशिष्य ज्ञेयत्वान्मायानामिका दुर्गा दुरत्यया । तत्कुतो मोहं कोपि नात्येतुं शक्नोति । साकल्येन भगवदेकज्ञेयत्वेनातिशक्तित्वात् । किञ्च सृष्ट्यादिक्रीडादिमद्देवस्य परमप्रियत्वाद्दैवी अतश्चातिसमर्थत्वाद्दुरत्यया । दैवी मम वशगाहं हि देव इति गीतार्थ उक्तो भवतीति भावः । विष्णुनैवेत्यस्यास्मिन्श्लोकद्वये व्याख्येयं दर्शयति ।। विष्णुनैवेत्यनेनेति ।। विष्णुसामर्थ्येनैतदिच्छयैव विमोहित इत्यनेन नाहं प्रकाश इत्युत्तरग्रन्थगतश्लोकस्येत्यर्थः । तथा च भाष्यमज्ञानं च मदिच्छयेत्याह नाहमिति । योगेन सामर्थ्योपायेन माययाच । मयैव मूढो नाभिजानातीति ।।

साक्षाद्भगवत्येति ।। साक्षाद्देवसम्बन्धिन्या लक्ष्म्येत्यर्थः । साक्षान्मोहितो मुख्यतो मोहित इति वा ।। पूर्वं लक्ष्म्या एवेति ।। दैवी मम मायेति गीतार्थतया लक्ष्म्या वशगयेत्यत्रेत्यर्थः ।। लक्ष्म्याश्च भगवद्वशत्व इति ।। पूर्वं लक्ष्म्या भगवद्वशत्वे उक्तेप्युभयोरपि भगवद्वशत्वमुक्तप्रायमेव न त्वेकस्या एवेति भावः । कथमुक्तप्रायं इत्यतो लक्ष्मीः सा जडमायाया देवतेत्यस्य तात्पर्यमाह ।। अचेतन प्रकृतेरिति ।। कथमनेनोक्तशङ्कापरिहार इत्यतस्तं शरणं व्रजेदित्यस्यार्थमाह ।। अत इत्यादिना ।। अनेनेति ।। गुणमयी गुणाभिमानिन्यत एव गुणप्रधानेति व्याख्यातं भवतीत्यर्थः ।। ततोनन्यभक्तयेत्यनेनेति ।। ततो विष्णोरेव सर्वोत्तमत्वात् । अनन्यभक्तया तं शरणं व्रजेदित्यनेनैवेत्यर्थः । एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिन इत्याद्यर्थवादस्य भक्तया तं शरणं व्रजेदिति विधितात्पर्यकत्वादिति भावः । तत्रेति प्रकृतविष्णुपरामर्शे विष्णावेव तु साभवेदित्यत्र तु विशिष्यैतादृशी भक्तिर्विष्णावेव भवेन्नान्यत्रेति पुनरुक्तं स्यादित्यतः तत्रेत्येतत्सामान्येन व्याचष्टे ।। तत्र भक्तिविषय इति ।। अनेनेति ।। विष्णावेवेति सप्तमीनिर्देशेनेत्यर्थः ।। तेनेति ।। एकस्मिन् भक्तिर्यस्येति व्यधिकरणबहुव्रीहयाश्रयणेनैका मुख्यैकविषयिणी वा भक्तिर्यस्येति सामानाधिकरण्याङ्गीकारे समानाधिकरणे स्त्रियाम पूरणीप्रियादिष्विति सूत्रेण उक्तपुंस्कात्परस्यानूङः स्त्रीप्रत्ययस्य पुंवद्रूपं स्यात् एकार्थे स्त्रीलिङ्गे परतः न तु पूरण्यां प्रियादौ च परत इति पुंवद्भावस्य प्रियादौ परतो निषेधात् भक्तिपदस्य प्रियादौ पाठात्तस्मिन्परत एकपदस्य पुंवद्भावा प्राप्तिरेका भक्तिरेवेति समासप्राप्तिश्च परिहृतेत्यर्थः । व्यधिकरणबहुव्रीह्याश्रयणादिति भावः । नन्वेकतद्धिते चेति सूत्रे तद्धिते उत्तरपदे च परत एकशब्दस्य ह्रस्वो भवतीत्युक्तत्वात् । एका भक्तिर्यस्येति विग्रहाश्रयणेपि एकभक्तिरिति रूपं सिद्ध्यतीति व्यर्थं व्यधिकरण बहुव्रीह्याश्रयणमिति चेन्न । सत्यमेकभार्य इत्यादि प्रयोगसिद्धये एकतद्धिते चेति सूत्रे विशिष्यैकशब्दस्योत्तरपदे परतो ह्रस्वो विहित इति । तथाप्युत्तरपदं यदि प्रियादिष्वन्यतमत्स्यात्तदा न ह्रस्वः । प्रियादिष्वपूरणीत्यस्य विशेष शास्त्रत्वात् । एकतद्धिते चेति सूत्रस्य प्रियादिव्यतिरिक्तोत्तरपदपरतया सावकाशत्वात् । तथा चापूरणी प्रियादिष्वित्यनुसारेण पुंवद्भावाप्राप्तौ व्यधिकरणबहुव्रीह्याश्रयणं युक्तमेव । यद्वा । पुंवद्भावाप्राप्तिश्च परिहृतेत्यस्य व्यधिकरणबहुव्रीह्याश्रयणेन प्रियादिष्वपूरणीति सूत्रप्राप्तपुंवद्भावाप्राप्ति प्रसक्तिरेव परिहृता । च शब्दादेकतद्धिते चेति सूत्रानुसारेण सामानाधिकरण्याङ्गीकारेणैकभक्तिरिति स्वरूपसिद्धावप्येकस्मिन्विष्णावेव भक्तिमान्नान्यत्र तादृशभक्तिमानिति विवक्षितार्थ विशेषाप्राप्तिश्च परिहृतेत्यर्थाङ्गीकारात् । एकविषयिणी भक्तिरेकभक्तिरित्यर्थाङ्गीकारे लक्षणादोष इति भावः । भक्तेः प्रकृतत्वादेवं भजन्निति वक्तव्यमेवं जानन्निति तु कथमित्यतस्तदनुगुण्यायावतारयति ।। विष्णोरिति ।। ज्ञानीत्वात्मैवमेमतमित्याद्युक्तार्थमिति ।। आप्नोतीति व्युत्पत्त्या मे ज्ञानी आत्मा मां प्राप्तेत्युक्तार्थमित्यर्थः । वक्ष्यते चैतत् । आदिपदेन बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यत इत्यस्य ग्रहणम् । नान्यथात्विति मूलेतु शब्दोऽवधारणे । अन्यथा ज्ञानाभावे कथं च केनाप्युपायेन तं नैवाप्नोतीत्यर्थः ।। अनेन वासुदेव इत्यस्येति ।। गीतायामिति शब्दो हेतौ । इति हेतुप्रकरणप्रकारादिसमाप्तिष्विति वैजयन्ती । तथा च वासुदेवः सर्वं पूर्णमिति हेतोः । सहि ज्ञान्येवानुत्तमां गतिमास्थित इत्यर्थः । मुक्तो भवतीत्यर्थः ।। स इति व्याकृतमिति ।। स महात्मा सुदुर्लभ इति व्याकृतमित्यर्थः ।। १३ ।।

भावप्रकाशः

तन्मेयत्वादित्यत्र तच्छब्दपरामृश्यमवधारणार्थकतुशब्दस्य तदित्यनेन सम्बन्धं च दर्शयन् तेनैव मेयत्वस्यासम्भवं च परिहरन् लक्ष्म्येत्यनन्तरं समुच्चायकचशब्दमध्याहृत्य व्याचष्टे । विष्णुनैव सम्यक् ज्ञातत्वादिति ।। अस्य माययेति मूलेन सम्बन्धः । तथाच विष्णुनैव सम्यक् ज्ञातत्वान्मायाशब्दवाच्ययेत्यर्थः ।। मूले विष्णुनैव स्वतन्त्रकर्त्रा तद्वशगयाऽचेतनप्रकृत्या तन्मेयत्वान्मायाशब्दवाच्यया लक्ष्म्याच लोको मोहित इत्यन्वयो द्रष्टव्यः । ममेत्यस्येति ।। गीतागतस्येत्यर्थः । तत्रेत्यस्य विष्णावित्यर्थकत्वे विष्णावेव तु सा भवेदित्यस्य गतार्थता स्यादत आह । तत्र भक्तिविषय इति ।। अनेनेति । विष्णावेवत्विति कथनेनेत्यर्थः ।। ननु एका भक्तिर्यस्येत्येव विग्रहः किं न स्यादित्यत आह । तेनेति ।। प्रियादित्वेनेति । स्त्रियाः पुंवत्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिष्विति सूत्रे प्रियादिगणस्य पुंवद्भावनिषेधादित्यर्थः । यद्यप्येका भक्तिर्यस्येति विग्रहेऽपि एकतद्धिते चेति सूत्रेण उत्तरपदमात्रे एकशब्दस्य हृस्वत्वविधानात् सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्य इत्यत्र प्रियादिनिषेधानाश्रयणाच्च पुंवद्भावो भविष्यति । तथाप्यस्मिन्पक्षे भगवत एव भक्तिविषयत्वरूपार्थविशेषसिद्धिरिति भावः ।। पूर्ववाक्यप्रकृतभक्तिं कुर्वतां फलस्यैवात्र वक्तव्यत्वात् ज्ञानफलकथनमसङ्गतमित्यत आह । ज्ञात्वाभजन्नित्यर्थ इति । ज्ञानवाचकशब्देन ज्ञानविशेष्यभूतायाः भक्तेरुपलक्षणमित्यर्थः ।। इत्याद्युक्तार्थमिति ।। ज्ञानी आप्नोतीत्यात्मा परमात्मप्राप्तिरूपमुक्तिमाप्नोतीत्येवमुक्तार्थमित्यर्थः ।। तुशब्दस्येति ।। ज्ञानीत्विति तुशब्दस्येत्यर्थः ।। वासुदेव इत्यस्येति ।। वासुदेवः परमात्मा सर्वं पूर्णं वस्तु इति हेतोः मां प्रपद्यत इत्युक्तमोक्षदातृत्वमुपपन्नमित्यर्थ उक्त इत्यर्थः । स इतीति । स महात्मेत्येतदित्यर्थः ।। १३१९ ।।

वाक्यविवेकः

अनेन त्रिभिरित्यादेरिति ।। त्रिभिर्गुणमयैर्भावैरिति गीतावाक्यं गुणमयैः जडप्रकृतिचित्प्रकृतिविष्णुभिः त्रिभिर्भावैर्मोहितं जगत् मां नाभिजानातीति व्याख्यातं भवतीत्यर्थः ।। विष्णुनैवेत्यनेनेति । विष्णुनैव विमोहित इति मूलेन नाहं प्रकाशः सर्वस्येति गीतावाक्यस्यार्थ उक्तो भवतीत्यन्वयः । तत् गीतावाक्ये किमर्थं प्रवृतं इत्यत उक्तम् ।। अचेतनेति ।। माययापहृतज्ञान इति श्लोकेनाचेतनप्रकृत्या मोहोक्तौ तर्हि भगवान् कुतो मोहं न निवारयतीत्येषा शङ्का प्राप्नोति तत्परिहाराय नाहं प्रकाशः सर्वस्येति गीतावाक्यं प्रवृत्तमित्यर्थः ।। तेन सामानाधिकरिण्याङ्गीकार इति ।। एकभक्तिरित्यत्र सामानाधिकरिण्याङ्गीकारे स्त्रियाः पुवंद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामिति सूत्रखण्डप्राप्तस्य पुंवद्भावस्य अपूरणीप्रियादाविति प्रतिषेधात् पुंवद्भावाप्राप्तिलक्षणो दोषः सामानाधिकरण्याङ्गीकारेण परिहृतो भवतीत्यर्थः ।। ननु सामानाधिकरण्यमेवास्तु पुंवद्भावेन रूपसिध्द्यसम्भवेपि एकतत्पितेचेति सूत्रविहितेन कत्त्वेन(?) रूपसिद्धिसम्भवादिति चेत् न । अनेन सूत्रेण स इत्यर्थकस्यैकशब्दस्यत्व सिद्धावपि मुख्यार्थकस्य सत्वासिद्धेः सामानाधिकरण्ये चात्रैकशब्दस्य मुख्यार्थकत्वात् ।। अवधारणार्थकतुशब्देति ।। ज्ञानीत्वित्यत्र तुशब्दस्येत्यर्थः ।। विद्यादिति ।। न केवलं पृथक् कृता सेवा विद्यादि चैहिकभोगाय भवतीत्यर्थः ।। १३१९ ।।

Load More