गीता
दुःखशब्दार्थः
गीता
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ।। ८ ।।
कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्तवा फलं चैव स त्यागः सात्त्विको मतः ।। ९ ।।
तात्पर्यम्
मोहं विना दृष्टदुःखमित्येव । दुःखशब्देन केवलमानसम् । कायक्लेशस्य पृथगुक्तेः ।
‘दुःखं तु मानसं ज्ञेयमायासो बाह्य उच्यते ।
विशेषस्य विवक्षायामन्यथा सर्वमेव तु’ इति शब्दनिर्णये ।। ८,९ ।।
प्रकाशिका
‘‘दुःखमित्येव यत्कर्म कायक्लेशभयात् त्यजेत् ।। स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्’’ इत्यस्यार्थमाह ।। मोहं विनेत्यादिना ।। कायदुःखस्य कायक्लेशशब्देनात्र पृथगुक्तत्वात् परिशेषात् दुःखमित्यनेन दुःखविशेषभूतं मानसमुच्यते ।। ८ ।।
न्यायदीपिका
ननु पुरुषार्थसाधनेऽपि कर्मणि दुःखसाधनमिति मिथ्याज्ञानेन तत्स्वरूपपरित्यागस्य राजसत्वकथनात्कथं तामसत्वमित्यत आह ।। मोहमिति ।। मोहं विनेति । परत्रापीदं दुःखसाधनमिति मिथ्याज्ञानं विनेत्यर्थः । दुःखशब्देन शरीरायास उच्यत इत्यन्यथाप्रतीतिनिरासायाह ।। दुःखेति ।। केवलमिति ।। शरीरायासद्वारा प्राप्तं न चेत्यर्थः । शरीरायास एवार्थः किं नस्यादित्यत आह ।। कायेति ।। न केवलमन्यथापुनरुक्तिप्रसङ्गादत्र दुःखशब्दो मानसदुःखार्थः । किं तु तथावचनाच्चेत्याह ।। दुःखमिति ।। अर्थविशेषविवक्षायामेवं ज्ञेयम् । तदभावे द्वयमपि शब्दद्वयेनोच्यत इति भावः ।। ८,९ ।।
किरणावली
राजसत्वकथनादिति ।। दुःखमित्येव यत्कर्मेत्यत्र दुःखसाधनमिति भ्रान्त्या कर्म त्यजेदित्युक्तत्वादित्यर्थः ।। कथं तामसत्वमिति ।। तामसेनापि दुःखसाधनमिति मोहादेव कर्मस्वरूपत्यागस्य क्रियमाणत्वादिति भावः ।। परत्रापीति ।। तामसत्यागो हि कर्मकरणे पारलौकिकं दुःखं सम्भवतीति मिथ्याज्ञानमूलकः । राजसत्यागस्तु नैवंविधमिथ्याज्ञानहेतुकः । किंतु कर्मकरणकाल एव दृष्टदुःखमिदं कर्मातस्तात्कालिकदुःखसाधनत्वान्न करिष्य इति तात्कालिकदुःखसाधनत्वानुसन्धानहेतुक इति भेद इति भावः । तथा च गीतायाः कर्मकरणकाले दृष्टदुःखमिति हेतोरेव यस्त्यजेदित्यर्थः ।। दुःखशब्देनेति ।। दुःखशब्दस्यान्यथा सर्वमेव त्विति वक्ष्यमाणाभिधानबलेन शरीरायासवाचकत्वावधारणादन्यथाप्रतीतिरिति भावः । न च तत्रैव कायक्लेशस्य पुनरुक्तेः कथमन्यथाप्रतीतिरिति वाच्यम् । कर्म कायक्लेशभयाच्छरीरायासभयात् त्यजेत्कायक्लेशभयात्कर्मत्यागः कुत इत्यत उक्तं कर्मदुःखं शरीरायासकारणमिति हेतोरिति व्याख्याने पौनरुक्तयनवकाशात्कथमन्यथाप्रतीत्यनुदय इति भावः । ननु दुःखशब्देन शरीरायासरूपं न विवक्षितम् । किंतु मानसमित्ययुक्तम् । कर्मकरणकाले प्राप्तस्य मानसदुःखस्यापि मोहं विना दृष्टदुःखमित्येवेति प्रागुक्तरीत्या शरीरायासद्वारैव प्राप्तत्वाद्यदि चेदमपि शरीरायासद्वारा प्राप्तं तदा कायक्लेशभयादित्यनेनेवैतत्पुनर्मानसमिति व्यर्थम् । कायक्लेशद्वारकस्यापि मनोवृत्तिरूपत्वादित्यतः प्रवृत्तं केवलमिति पदं तद्व्यावर्त्यकथनपूर्वकं व्याचष्टे ।। केवलमितीति ।। न केवलं मानसपदेन बाह्यम् । शरीरायासरूपं दुःखमत्र न विवक्षितमित्युच्यते । किं तु केवलपदेन शरीरायासद्वारा प्राप्तं च दुःखमत्र न विवक्षितमित्याहेत्यर्थः ।
ननु पारत्रिकदुःखस्य व्यावर्तितत्वाद्भोगादिनिमित्तकस्य क्रियमाणकर्मनिमित्तकत्वाभावात् । कायक्लेशेनाऽप्यकृतत्वे कीदृशदुःखमत्र मानसपदेन विवक्षितमिति चेन्न । कर्मकरणकाले बहुविषयेषु मनःप्रणिधानस्यापेक्षितत्वान्मनोविक्षेपजं दुःखं विवक्षितमित्यङ्गीकारात् ।। शरीरायास एवेति ।। दुःखशब्दस्य शरीरायास एवार्थः किं न स्यादित्यत आह । आचार्यः स्वव्याख्याने बीजं स्वयमेवाहेत्यर्थः । यदि दुःखशब्देन शरीरायासो नविवक्षितस्तर्हि कायक्लेशपदेन दुःखमित्यस्य प्रागुक्तरीत्या वैयर्थ्याभावेपि कर्मदुःखं शरीरायासकारणमिति हेतोर्यस्त्यजेदित्येतावता पूर्णत्वादनेन कायक्लेशभयादिति पृथगुक्तेर्वैयर्थ्यमेव स्यादिति भावः । दुःखं तु मानसमिति मूलस्य दुःखं दुःखशब्दोक्तमुक्तविधं मानसं दुःखं ज्ञेयम् । आयास आयासशब्दार्थो बाह्यः शरीरायासस्तदुच्यते । इदं चैक्ये पौनरुक्तयादिप्रसङ्गेनार्थविशेषस्य विवक्षायामेव ध्येयम् । अन्यथाऽर्थविशेषविवक्षाभावे सर्वं तु सर्वमपि सर्वशब्दोऽनेकार्थः । मानसं दुःखं शरीरायास इत्येतद्द्वयमपि दुःखमायास इति पदद्वयेनोच्यते । पदद्वयस्याप्युभयपरत्वमिति योजनामभिप्रेत्य तात्पर्यमाह ।। अर्थविशेषेति ।। ८,९ ।।
भावप्रकाशः
राजसत्वकथनादिति ।। दुःखमित्येव यत्कर्मेत्यनेनेत्यर्थः ।। पुनर्निरूप्यत इति कार्यमित्येव यत्कर्मेत्यनेन पूर्वमुक्तत्वात्पुनरित्युक्तम् ।। ८९ ।।
वाक्यविवेक
मूले मोहं विना दृष्टदुःखमित्येवेति । यज्ञादिकं परलोके दुःखसाधनमिति ज्ञानं मोहः । तं विना यज्ञादिना दृष्टं दुःखमस्तीति बुध्या कर्मणस्त्यागः राजसस्त्याग इत्यर्थः ।। ८,९ ।।