गीता

गीता

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।

स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ।। २६ ।।

तात्पर्यम्

लक्ष्म्यादिभिः कृतो बन्धो योऽनादिः पुरुषस्य तु ।

तमत्येतीह यो विद्वान् स विज्ञेयो गुणात्ययी’ इति च प्रवृत्ते ।

तत्कृतबन्धात्ययात् तदधिकविष्णुप्राप्तेश्च तदत्ययीत्युच्यते । यथा द्वारपालमतीत्य राजानं गच्छतीति । ब्रह्मणि भूयं ब्रह्मभूयम् । ब्रह्मेति प्रकृता महालक्ष्मीः

अतीत्य त्रीणि रूपाणि महालक्ष्मीं प्रपद्यते ।

तया त्वनुगृहीतोऽसौ वैष्णवो विष्णुगो भवेत्’ इति च ।। २६ ।।

प्रकाशिका

महालक्ष्म्याः प्रकृतिशब्देन तद्रूपाणां श्रीभूदुर्गाणां सत्वरजस्तमःशब्दैः प्रस्तुतत्वात्तदविरोधेन ‘‘सगुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पत’’ इत्येतद्योजयति ।। लक्ष्म्यादिभिरिति ।। ब्रह्मेति प्रकृतेति ।। मम योनिर्महद्ब्रह्मेति प्रकृतेत्यर्थः ।। २६ ।।

इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य प्रकाशिकायां

पद्मनाभतीर्थविरचितायां चतुर्दशोऽध्यायः ।।

न्यायदीपिका

ननु गुणशब्देन श्यादीनां विवक्षितत्वात्सगुणान्समतीत्यैतानिति तदत्ययः कथमुच्यते । अशक्यत्वादित्यत आह ।। लक्ष्म्यादिभिरिति ।। लक्ष्मीति श्रीरुच्यते । स्मृत्युक्तार्थानुवादेनार्थान्तरं चाह ।। तदिति ।। उभयत्र प्रयोगं दर्शयति ।। यथेति ।। यथा द्वारपालकृतबन्धात्ययेन गच्छन् द्वारपालमतीत्य राजानं गच्छतीत्युच्यते ।। यथाच यो राजानं गच्छति स द्वारपालमतीत्य गच्छतीत्युच्यते तथैवेत्यर्थः । ब्रह्मभूयायेत्यस्य ब्रह्मभावायेत्यन्यथाप्रतीतिनिरासायार्थमाह ।। ब्रह्मणीति ।। अत्र ब्रह्मेति भगवानित्यन्यथाप्रतीतिनिरासायाह ।। ब्रह्मेति ।। मम योनिर्महद्ब्रह्मेति महालक्ष्म्या एव ब्रह्मशब्देन प्रकृतत्वादत्रापि सैवोच्यत इत्यर्थः । प्रमाणान्तरसमाख्याऽनेनाऽप्येतत्साधयति ।। अतीत्येति ।।२६।।

किरणावली

गुणशब्देनश्यादीनामिति ।। सत्वं श्रीः सद्गुणप्रभेत्याद्युक्तत्वादिति भावः । ननु श्रीभूदुर्गारूपाणां मूलरूपमहालक्ष्म्यादिभिरित्यादिशब्दायोग इत्यत आह ।। लक्ष्मीति श्रीरुच्यत इति ।। ननु स्ववचनेन व्याख्याय प्रमाणोदाहरणं युक्तं प्रमाणेन व्याख्यानानन्तरं स्ववचनेन व्याख्यानमनर्थकमित्यतोऽवतारयति ।। स्मृत्युक्तार्थानुवादेनेति ।। अनुवादश्च बुद्ध्यारोहायेति ज्ञेयम् ।। उभयत्रेति ।। तदत्ययो नाम तत्सम्बन्धातिक्रमस्तदधिकप्राप्तिश्चेत्युभयत्रेत्यर्थः । यथा द्वारपालमतीत्य राजानं गच्छतीति मूलवाक्ये यथेत्यतः परं तत्कृतबन्धात्ययादित्यस्य तृतीयान्ततयानुवृत्तस्यासम्बन्धः । गच्छन्निति शेषः । इतिशब्दात्परमुच्यत इत्यनुवृत्तस्यान्वयमभिप्रेत्याद्यार्थे प्रयोगप्रदर्शनपरतया व्याचष्टे ।। यथा द्वारपालेत्यादिना ।। एतदेव वाक्यं द्वितीयार्थे प्रयोगप्रदर्शन परतया व्याचष्टे ।। यथा चेति ।। राजानमित्यतः पूर्वं य इत्यस्य गच्छतीत्यतः परं स इत्यस्य द्वारपालमतीत्येत्यतः परं गत इत्यस्याध्याहारः । अध्याहृतस्य गत इत्यस्यानन्तरं श्रुतस्येति शब्दस्यान्वयः । इतिशब्दात्परमनुवृत्तस्योच्यत इत्यस्य सम्बन्ध इति भावः । ब्रह्मणि भूयमिति मूलस्य ब्रह्मणि भवनमित्यर्थः ।। महालक्ष्म्या एवेति ।। मूलरूपायाः प्रकृत्यपरनामिकाया इति भावः । महालक्ष्मीरिति परा भार्या नारायणस्य या । प्रकृतिर्नाम सा ज्ञेया प्रकर्षेण करोति यत् । ‘‘तस्यास्तु त्रीणि रूपाणी’’त्युक्तत्वादिति ज्ञेयम् । तया त्वनुगृहीत इति ब्रह्मणो हीत्युत्तरवाक्यार्थे प्रमाणमिति ज्ञेयम् । तेन लक्ष्मीप्राप्तिः किमर्थमुच्यत इति शङ्कानवकाशः

।। २६ ।।

भावदीपः

श्रीरूपस्यैव सत्वगुणमानित्वादाह ।। श्रीरुच्यत इति ।। उभयत्रेति ।। तत्कृतबन्धत्यागेन तदधिकप्राप्त्या च तदत्ययीत्युच्यत इत्यत्रेत्यर्थः । तद्व्यनक्ति ।। यथेति ।। २६ ।।

भावप्रकाशः

श्यादीनां विवक्षितत्वादिति ।। सत्वं श्रीः सद्गुणप्रभेत्याद्युक्तत्वादिति भावः ।। ननु लक्ष्म्याख्यमूलरूपेणा बन्धकत्वात् कथं लक्ष्म्यादिभिरित्युक्तमित्यत आह । लक्ष्मीः श्रीरुच्यत इति ।

वाक्यविवेक

लक्ष्मीति श्रीरुच्यत इति । मूलरूपस्याबन्धकत्वात् लक्ष्मिशब्देन श्रियो ग्रहणमिति भावः ।। २६ ।।

Load More