तात्पर्यम्

अविशेषितं किञ्चिदपि नास्ति

तात्पर्यम्

विशेषोऽनुभवादेव ज्ञायते सर्ववस्तुषु ।

नचाविशेषितं किञ्चिद् वाच्यं लक्ष्यं तथा मितम् ।

विशिष्टस्य स्वतोऽन्यत्वे स्वस्यामेयत्वहेतुतः ।

नैव ज्ञेयं विशिष्टं च मानाभावाच्च नो भवेत् ।

स्वयमित्यपि हि स्वत्वविशेषेण विवर्जितम् ।

न ज्ञेयं तद्विशेष्यं च तथैवेत्यनवस्थितिः ।

अभेदे न विरोधोऽस्ति ज्ञाताज्ञातं यतोऽखिलम् ।

तदेव ज्ञातरूपेण ज्ञातमज्ञातमन्यथा ।

अभिन्नस्य विशिष्टत्वान्न दोषद्वयमप्युत ।

एकत्वानुभवाच्चैव विशेषानुभवादपि ।

तज्ज्ञानानुभवाच्चैव न दोषद्वयसम्भवः ।

प्रकाशिका

तदेतत् स्फुटी करोति ।। नचाविशेषितमिति ।। विशिष्टात्मतयैव वस्तुप्रतीतिः नान्यथा अतो विशिष्टादन्यत्वे विशेष्यस्वरूपस्याज्ञेयत्वं स्यात् ।। जायमानो विशिष्टाकारः कस्येत्युक्ते विशेष्यस्वरूपस्येति व्यवहारो न स्यात् ।। अज्ञातस्य व्यवच्छेदकत्वाभावात् ।। अमेयत्वादेवं विशेष्यस्वरूपस्याभावश्च स्यात् ।। स्वरूपत्वविशेषणविशिष्टस्वरूपमपि विशिष्टमेव ज्ञायते ।। स्वरूपत्वविशेषणविशिष्टादन्यत् विशेष्यस्वरूपमित्युक्ते तदप्येवं स्वरूपत्त्वविशेषणविशिष्टमिति तद्विशेष्यस्वरूपमन्यदित्यनवस्था स्यादित्यर्थः ।।

ननु विशेषण विशेष्यस्वरूपयोरभिन्नत्वे विशेष्यस्वरूपवत् विशिष्टाकारस्य विज्ञातत्वापातात् विशेष्यस्वरूपमनूद्य किं विशिष्टमिति प्रश्नः न युक्तः स्यादित्याशङ्क्याह ।। अभेद इति ।। विशिष्टविशेष्यस्वरूपयोरभिन्नत्वात् अनवस्थादोषो न विद्यते ।। विशेषसद्भावात् प्रश्नासम्भवदोषश्च न विद्यते इत्यर्थः ।।

न्यायदीपिका

एवंविधविशेषसद्भावे किं मानमित्यत आह ।। विशेष इति ।। तदेव स्फुटीकरोति ।। नचेति ।। ननु वस्तुनि यावान् विशिष्टाकारस्तस्य विशेष्यस्वरूपादन्यत्वेन विशेष्यस्वरूपस्य निर्विशेषत्वात्कथं विशेषः सर्ववस्तुषु ज्ञायत इत्युक्तमित्यत आह ।। विशिष्टस्येति ।। भवेदेतद्यदि विशिष्टं विशेष्यस्वरूपादन्यद्भवेत् । नचैतदस्ति । विशिष्टस्य विशेष्यस्वरूपादन्यत्वे विशेष्यस्वरूपस्यामेयत्वप्रसङ्गात् । विशेषवत्येव प्रमाणप्रवृत्तेरुक्तत्वात् । विशेष्याज्ञाने च विशिष्टाज्ञानं च प्रसज्यते । व्यावर्तकाज्ञाने व्यावर्त्यस्य सम्यक् ज्ञातुमशक्यत्वात् । विशेष्यस्य विशिष्टव्यावर्तकत्वादिति भावः । विशेष्यस्वरूपस्यामेयत्वे बाधकान्तरं चाह ।। मानेति ।। वस्तुसिद्धेर्मानाधीनत्वाद्विशेष्यस्वरूपस्यामेयत्वे तदाभावश्च स्यादिति भावः । इतोऽपि न विशेष्यस्वरूपं निर्विशेषमित्याह ।। स्वयमिति ।। यद्विशेष्यस्वरूपं तस्य तावद्विशेष्यस्वरूपत्वं विशेषोऽङ्गीकार्य एव । विशेष्यस्वरूपत्वविशेषवर्जितस्य विशेष्यस्वरूपमिति ज्ञातुं व्यवहर्तुं वाऽशक्यत्वात् । अतो विशेष्यस्वरूपमपि न निर्विशेषमिति भावः । ननु यद्विशेष्यस्वरूपत्वविशेषविशिष्टं तस्मिन् विशिष्टे यद्विशेष्यस्वरूपं तद्विशिष्टादन्यदेव । अतो निर्विशेषमेवेत्यत आह ।। तदिति ।। यत्तस्मिन्विशिष्टे विशेष्यस्वरूपं तद्विशिष्टादन्यदपि विशेष्यस्वरूपत्वविशेषसहितमेव । अतो न निर्विशेषमिति भावः । तस्मिन्नपि विशिष्टे यद्विशेष्यस्वरूपं तद्विशिष्टान्यदेव । अतो निर्विशेषमित्यङ्गीकारेऽनवस्थामाह ।। इतीति ।। यथा विशिष्टविशेष्यस्वरूपयोर्भेदाभ्युपगमेऽनवस्थोच्यते तथा तयोरभेदाङ्गीकारेऽपि तत्प्राप्तौ सोऽपि पक्षस्त्याज्य एव स्यात् । विशिष्टविशेष्यस्वरूपयोरभेदे च विशेष्यस्वरूपज्ञाने विशिष्टाकारस्यापि ज्ञातत्वप्रसङ्गेन विशेष्यस्वरूपानुवादेन विशिष्टाकारप्रश्नानुपपत्तिः स्यादित्यत आह ।। अभेद इति । एकमेव वस्त्वनूद्याकारेण ज्ञातं पृच्छयमानाकारेणाज्ञातमिति प्रत्येकमखिलवस्तूनां ज्ञातत्वाज्ञातत्वान्न प्रश्नानुपपत्तिः । विशिष्टाकारस्य विशेष्यस्वरूपाभिन्नत्वेन न भेदसापेक्षानवस्थाऽपीति भावः ।। अभिन्नस्य विशिष्टत्वादिति ।। यद्विशेष्येणाभिन्नं तत्स्वरूपं तस्यैव विशिष्टत्वादित्यर्थः । विशिष्टविशेष्ययोरत्यन्ताभेदे कथमाकारभेदेनापि ज्ञातत्वाज्ञातत्वमित्याशङ्कां परिहरन्नुक्तं विवृणोति ।। एकत्वेति ।। विशिष्टविशेष्ययोरेकत्वानुभवान्नानवस्थादोषः । अभेदेऽपि विशेषानुभवात्तद्बलेनैकस्यैव ज्ञातत्वाज्ञातत्वानुभवान्न प्रश्नासम्भवदोषोऽपीत्यर्थः ।

किरणावली

तदेवेति ।। सर्ववस्तुष्वनुभवसिद्धत्वमेवेत्यर्थः । नचाविशेषितमिति मूलस्य वाच्यं लक्ष्यमिति शाब्दबोधविषयभूतं मितमिति साक्षात्कारानुमितिविषयभूतं किञ्चित् किमपि वस्त्वविशेषितं विशेषरहितमनुभवान्नैव ज्ञायते विषयीक्रियते किंतु सविशेषमेवेत्यर्थः । वाच्यतावच्छेदकलक्ष्यतावच्छेदकधर्मविशिष्टमेव शाब्दबोधग्राहकेण साक्षिणाऽनुभूयत इति प्रमाणत्रयवेद्येषु सर्ववस्तुषु तत्तद्ग्राहकसाक्षिणा विशेषो ज्ञायते । विषयविशेषितज्ञानस्यैव साक्षिणा ग्रहणान्निर्विशेषवस्तुविषयस्य ज्ञानस्याभावादिति भावः ।। वस्तुनि यावान्विशिष्टाकार इति ।। चेतनवस्तुस्वरूपमस्ति पीतं चूतफलमित्यादौ वस्तुनि चैतन्यवस्तुस्वरूपत्वास्तित्वचूतत्वफलत्वपीतत्वाद्यनेकैर्विशेषैस्सम्बन्धाद्यावान्यावत्संख्याको विशिष्टाकारोऽस्ति तस्य सर्वस्य विशिष्टाकारस्य विशेष्यस्वरूपत्वे विशेष्यस्वरूपज्ञाने विशिष्टज्ञानप्रसङ्गः । न हि देवदत्तज्ञाने दण्डिज्ञाननियमः । तथा च तस्य विशेष्यस्वरूपादन्यत्वेनेत्यर्थः ।।

विशेषवत्येवेति ।। साक्ष्यनुभवबलेन विशेषवत्येव प्रत्यक्षादिप्रमाणप्रवृत्तेः नचाविशेषितं किञ्चिदित्यत्रोक्तत्वादित्यर्थः । दण्डादेर्व्यावर्तकस्याज्ञानेऽपि व्यावृत्तस्य देवदत्तस्वरूपस्य ज्ञातुं शक्यत्वादित्यत उक्तं सम्यगिति । अदण्डिव्यावर्तितयेत्यर्थः ।। विशेष्यस्य विशिष्टव्यावर्तकत्वादिति ।। पुरतः प्रतीयमानो दण्डीत्यादिविशिष्टाकारः कस्येति पृष्टे चैत्रस्येत्याद्युक्तेरिति भावः । तदुक्तं श्रीपद्मनाभतीर्थीये । ज्ञायमानो विशिष्टाकारः कस्येत्युक्ते विशेष्यस्वरूपस्येति व्यवहारो न स्यादज्ञातस्य व्यवच्छेदकत्वाभावादिति । स्वयमित्यपीति मूलस्य स्वत्वविशेषेण विवर्जितं नैव स्वयमिति विशेष्यस्वरूपमिति न ज्ञेयमपिशब्दान्न व्यवहार्यं चेति हेतोः स्वयमपि विशेष्यस्वरूपमपि विशेषवर्जितं नैवेत्यर्थमभिप्रेत्याह ।। यद्विशेष्यस्वरूपमित्यादिना ।। शङ्कते ।। यथेति ।। यथाशुक्लः पट इत्यादौ विशिष्टविशेष्यस्वरूपयोः भेदमङ्गीकृत्य विशेष्यस्वरूपस्य विशेष्यस्वरूपत्वविशिष्टत्वादन्यथा विशेष्यस्वरूपस्यामेयत्वादिप्रसङ्गात्तत्रापि विशिष्टस्य विशेष्यस्वरूपादन्यत्वमित्यङ्गीकारेऽनवस्था तथा शुक्लरूपविशिष्टस्य विशेष्यस्वरूपाभेदपक्षेऽपि शुक्लरूपविशिष्टमिदमिति बोधस्यावश्यकत्वात् । तत्रेदमिति निर्दिष्टस्य विशेष्यस्वरूपस्य तथैव तत्रेदमिति निर्दिष्टस्य विशेष्यस्वरूपस्य निर्विशेषस्य ज्ञातुमशक्यत्वाद्विशेषस्य स्वरूपत्वविशिष्टमिदमिति बोध्यत्वादनवस्थाप्रसक्तौ सोऽपि पक्षस्त्याज्यः स्यादित्यर्थः । दूषणान्तरमाह ।। विशिष्टेति ।। प्रश्नानुपपत्तिश्च स्यादिति चशब्दान्वयः ।। विशेष्यस्वरूपानुवादेनेति ।। देवदत्तस्वरूपं किं विशिष्टमिति विशिष्टाकारप्रश्नानुपपत्तिरित्यर्थः ।

न भेदेन विरोधोऽस्तीत्यारभ्य न दोषद्वयमप्युतेत्यन्तमूले अभेदेन दोषद्वयमप्युतेत्यन्तं तावद्योज्यम् । तद्विवरणार्थं न विरोधोस्तीत्यादिकं प्रवृत्तम् । तत्र प्रश्नानुपपत्तिपरिहारकतया भेदेन विरोधोत्पादिकमित्येकमिति पदद्वयाध्याहारेण व्याचष्टे ।। एकमेवेति ।। तदेकमेव वस्तु ज्ञातरूपेणानूद्याकारेण ज्ञातमन्यथापृच्छ्यमानाकारेणाज्ञातमित्येवं यतोऽखिलं वस्तु ज्ञाताज्ञातमतोऽखिलवस्तूनां ज्ञाताज्ञातत्वाद्विशिष्टस्य विशेष्यविशेष्यस्वरूपाभेदेन विरोधो न प्रश्नानुपपत्तिरिति मूलार्थ इति भावः । अनवस्थादोषपरिहारकतया अभेदे नानवस्थितिरपीति पूर्वोत्तरसम्बन्धमभिप्रेत्य व्याचष्टे ।। यद्विशेष्येणाभिन्नं तत्स्वरूपं तस्यैव विशिष्टत्वादिति ।। यद्विशेष्येणाभिन्नं तत्स्वरूपं तस्यैव शुक्लरूपादिना विशेष्यत्वेनास्वरूपत्वेन च विशिष्टत्वादित्यर्थः । न दोषद्वयमप्युतेत्यत्रोतेत्यस्यावधारणार्थकत्वमभिप्रेत्याभिन्नस्यैवेति सम्बन्धः प्रदर्शितो ज्ञेयः । एकत्वानुभवाच्चैवेति मूलस्य तत्तयोर्विशिष्टविशेष्ययोरेकत्वानुभवादभेदेऽपि भेदप्रतिनिधिविशेषानुभवाच्च । तत् तेन तद्बलेन तस्यैकस्यैव ज्ञानानुभवाच्च । शब्दानुभवादज्ञातत्वानुभवादिति यावत् । दोषद्वयस्य अनवस्थाप्रश्नानुपपत्तिलक्षणशेषद्वयस्य सम्भवः प्राप्तिर्नैवेति मूलार्थमभिप्रेत्य दोषद्वयाभावे पृथक्पृथक् हेतुप्रदर्शनपूर्वकं सङ्क्षेपतो व्याचष्टे ।। विशिष्टविशेष्ययोरित्यादिना ।।

भावदीपः

उक्तत्वादिति ।। न चाविशेषितं किञ्चिन्मि(न्म)तमिति पूर्ववाक्येऽर्थादुक्तत्वादित्यर्थः । यद्वा स्वरूपस्य च सिद्धत्वाद् व्यर्थैव श्रुतिरित्यादिना द्वितीये उक्तत्वादित्यर्थः ।। विशेष्यस्य विशिष्टव्यावर्तकत्वादिति ।। ज्ञायमानोऽयं नीलः पीतो दण्डीत्यादिविशिष्टाकारः कस्येत्युक्ते चैत्रस्येत्याद्युक्तेरिति भावः ।। तस्मिन्विशिष्ट इति ।। विशेष्यस्वरूपत्वविशिष्टे इत्यर्थः ।। तत्प्राप्ताविति ।। अनवस्थादिदोषप्राप्तावित्यर्थः ।। प्रश्नानुपपत्तिरिति ।। चैत्रः किं विशिष्ट इति प्रश्नायोग इत्यर्थः । अभिन्नमित्यस्यार्थस्तत्स्वरूपमिति । अनवस्थादेश्चेत्यत्रादिपदेन विशेष्यस्य निर्विशेषत्वमज्ञातत्वमत एव तदसत्त्वमिति दोषत्रयस्य ग्रहः ।।

भावप्रकाशः

विशेषोऽनुभवादेवेत्येवशब्दस्य किं प्रमाणान्तरगवेषणेनेत्यर्थः ।। न चाविशेषितमित्यस्यावस्तुनः सर्वथा धर्मशून्यत्वे वाच्यता ।। लक्ष्यतावच्छेदकयोरभावेन वाच्यत्वलक्ष्यत्वयोरनुपपत्तिस्तथा इन्द्रियसन्निकृष्टत्वस्य व्याप्तिकर्मत्वस्य चाभावेन प्रत्यक्षानुमानमितत्वस्यानुपपत्तिश्च स्यादित्यर्थः ।। उक्तत्वादिति । नचाविशेषितमित्यनेनेत्यर्थः ।। ननु व्यावर्त्तकघटज्ञानाभावेऽपि तदभावस्याभाव इतिशब्देनाभावत्वाकारेणेदं प्रमेयमिति प्रत्यक्षेण प्रमेयत्वाकारेण च ज्ञातुं शक्यत्वात्कथं ज्ञातुमशक्यत्वादित्युक्तमित्यत आह ।। सम्यक् ज्ञातुमशक्यत्वादिति । अभावत्वप्रकारेणापरोक्षतया ज्ञातुमशक्यत्वादित्यर्थः । ज्ञातुं व्यवहर्त्तुं चे(वे)ति ।। न ज्ञेयमिति शब्दान्तर्गतज्ञानवाचकशब्देन तन्मूलव्यवहारस्याप्युपलक्षणेति भावः । शङ्कते । यथा विशिष्टविशेष्यस्वरूपयोरिति । तत्प्राप्ताविति ।। अनवस्थाप्राप्तावित्यर्थः ।। इदं चोत्तरमूलव्यावृत्यतयोक्तं नतु सम्भावितत्वेनेति भावः ।। दूषणान्तरं चाह । विशिष्टविशेष्यस्वरूपयोरभेदे चेति । अयं चशब्दो भिन्नक्रमः सन् प्रश्नानुपपत्तिरित्यनेन संबध्यत इति द्रष्टव्यम् ।। ननु विशिष्टस्य विशेष्याभिन्नत्वमेव वक्तव्यमभिन्नस्य विशिष्टत्वादिति कथमुक्तमित्यतस्तद्व्याचष्टे । यद्विशेष्येणेति । उतशब्दोऽवधारणार्थकः सन् अभिन्नस्येत्यनेन सम्बध्यत इत्यभिप्रेत्याह । तस्यैव विशिष्टत्वादितीति ।। उक्तं विवृणोतीति । विशिष्टविशेष्ययोरभेदस्यैकस्यैव ज्ञातत्वाज्ञातत्वयोश्चानुभूयमानत्वोक्तया विवृणोतीत्यर्थः ।। अतो न दोषद्वयसम्भव इत्यस्य न पुनरुक्तत्वमिति भावः ।। अपिशब्दस्यार्थमाह । अभेदेऽपीति ।। विशेषपरामर्शकतच्छब्दानन्तरमध्याहृतेनैकस्येत्यनेनैवशब्दस्य सम्बन्ध इत्यभिप्रेत्याह । तद्बलेनैकस्यैवेति । आद्य एवशब्दस्तु दोषद्वयसम्भवो नैवेति सम्बन्ध्यत इति भावः ।। ज्ञानपदमज्ञानस्याप्युपलक्षणमित्याशयेनाह । ज्ञातत्वाज्ञातत्वानुभवादिति । चशब्दस्य सम्बन्धं दर्शयन्नेवार्थमाह । दोषोऽपीति ।। आद्यचशब्दस्तु नानवस्था चेति सम्बन्ध्यत इति द्रष्टव्यम् ।।

वाक्यविवेकः

ननु विशिष्टविशेष्ययोर्भेदाभ्युपगमे भेदस्य भेदिभ्यामन्यो भेदो वक्तव्यः ।। एवं तस्य तस्यापि भेदस्य स्वस्वभेदिभ्यां भेदो वाच्यत इति यथानवस्था भवति तथा विशिष्टविशेष्ययोरभेदाङ्गीकारेऽपि व्यवहारनिर्वाहार्थं विशेषोऽङ्गीकार्यः ।। तस्य विशेषस्य विशेषिभ्यां भेदो वक्तव्यः ।। तस्य भेदस्य भेदिभ्यां भेदो वाच्यः । एवं तस्य तस्यापीति भेदानवस्था भवति । तथा अभेदपक्षे विशेष्यज्ञानेनैव विशिष्टस्य विषयीकृतत्वात् । एवं च दोषद्वयसद्भावादभेदपक्षस्त्याज्य इति शङ्कते । यथा विशिष्टविशेष्यस्वरूपयोरिति ।। एकमेव वस्त्वनूद्येति । वस्त्वित्यतः परं येनाकारेणेति शेषः ।। अनूद्येत्यतः परं पृच्छति तेनेति शेषः ।। ततश्चायमर्थः– एकमेव वस्तु येनाकारेणानूद्य पृच्छति तेनानूद्याकारेण ज्ञातं पृच्छ्यमानाकारेणाज्ञातमित्यर्थः ।। एतेन वदः सुपि क्यप् चेति सूत्रे अनुपसर्ग इत्यनुवृत्तेः सोपसर्गस्य वदेः क्यबन्तत्वमनुपपन्नमिति परास्तम् । अनूद्येत्यस्य ल्यबन्तत्वाङ्गीकारात् । क्वचित्पुस्तके अनुवाद्याकारेणेति पाठो दृश्यते तत्र न काप्यनुपपत्तिः ।। विशिष्टाकारस्येति । विशिष्टाकारस्य विशेष्यस्वरूपाभिन्नत्वात् तन्निर्वाहकविशेषस्यापि धर्मिणोऽत्यन्ताभिन्नत्वात् न भेदसापेक्षानवस्थेत्यर्थः ।। उपलक्षणमेतत् । विशेषस्य स्वनिर्वाहकत्वात् विशेषपरंपराप्रयुक्तानवस्था नास्तीत्यपि द्रष्टव्यम् ।।