श्रीभगवानुवाच
चतुर्दशोऽध्यायः
भूयः ज्ञेयकथनम्
श्रीभगवानुवाच—
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ।। १ ।।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ।। २ ।।
तात्पर्यम्
क्षेत्रक्षेत्रज्ञसंयोगस्पष्टीकरणपूर्वकं त्रैगुण्यं विविच्य दर्शयति ।। १,२ ।।
प्रकाशिका
एतदध्यायप्रतिपाद्यं दर्शयति ।। क्षेत्रेति ।। १,२ ।।
न्यायदीपिका
एतदध्यायप्रतिपाद्यमर्थं दर्शयति ।। क्षेत्रेति ।। प्राधान्येनोत्तराध्यायैः साधनमेवोच्यते । तत्र बन्धप्रकारपरिज्ञान एव तन्मोक्षसाधनानुष्ठानं युज्यते । बन्धश्च त्रिगुणात्मकः । अतो यावत्संजायत इत्युक्तविवरणपूर्वकं त्रिगुणविकारस्थितिं तदत्ययोपायं च दर्शयत्यनेनाध्यायेनेति भावः । कार्यते ह्यवशः कर्मेत्यादौ त्रैगुण्यस्य संक्षेपेणोक्तत्वाद्विविच्येत्युक्तम् ।। १,२ ।।
किरणावली
उत्तरेषां पञ्चानामध्यायानां भाष्यानुसारेण प्रतिपाद्यमाह ।। प्राधान्येनेति ।। योगेत्विमां शृण्विति प्रतिज्ञाया षष्ठपरिसमाप्तेः कामवर्जनादीति कर्तव्यतासहितं कर्मध्यानलक्षणं ज्ञानसाधनमुक्तम् । तत्रेतिकतव्यतान्तरमुत्तरैः प्रपञ्चयतीत्यर्थः । ‘‘मम योनिर्महद्ब्रह्म’’ ‘‘न तद्भासयते सूर्य’’ इत्यादिनेश्वरमाहात्म्यस्यापि वचनात्कथमेतदित्यत उक्तम् ।। प्राधान्येनेति ।। प्राचुर्यापेक्षया सङ्ग्राहकमेतदित्यर्थः । अवान्तरप्रतिपाद्यभेदादध्यायभेद इति भावेनैतदध्यायप्रतिपाद्यं दर्शयितुं क्षेत्रक्षेत्रज्ञेति मूलं प्रवृत्तमिति भावः । तद्व्याचष्टे ।। तत्रेति ।। पञ्चस्वध्यायेषु मध्येऽनेनाध्यायेन त्रिगुणसम्बन्धीविकारः त्रैगुण्यं तस्य स्थितिं सत्वंरजस्तम इत्यादिना दर्शयतीति मूलमुपलक्षणमित्यभिप्रेत्योक्तं तदत्ययोपायं चेति । नान्यं गुणेभ्य इत्यादिनेति शेषः । ननु पञ्चकान्तर्भावान्मोक्षोपायप्रदर्शनं युक्तम् । त्रिगुणविकारप्रदर्शनं किमर्थमित्यत उक्तम् ।। बन्धप्रकारेत्यादिना ।। यतो बन्धश्च त्रिगुणात्मको तस्त्रिगुणविकारस्थितिमित्यन्वयः । ननु तथापि मम योनिर्महद्ब्रह्मे त्यादिकं व्यर्थं न च वाच्यम् । अस्यापि प्रमेयस्य यावत्संजायत इति श्लोके जायमानस्य वर्सस्य क्षेत्रक्षेत्रज्ञसंयोगकारणकत्वोक्तया प्राप्तत्वादित्यत उक्तं क्षेत्रक्षेत्रज्ञसंयोगस्पष्टीकरणपूर्वकमिति । यावत्संजायत इति श्लोकोक्तक्षेत्रक्षेत्रज्ञसंयोगस्पष्टीकरणपूर्वकमित्यर्थः । विविच्येति पदव्यावर्त्यं दर्शयति ।। कार्यते ह्यवशः कर्मेत्यादाविति ।। आदिपदेन कारणं गुणसंगोस्येत्यादेः संग्रहः ।। १,२ ।।
भावदीपः
भाष्यदिशा घट्टार्थमाह ।। प्राधान्येनेति ।। अत्र साधनशब्देन भगवज्ज्ञानसाधनस्य कर्मध्यानरूपस्याद्यषट्कोक्तस्य कामादिवर्जनरूपेतिकर्तव्यतांशो ग्राह्यः । मम योनिर्महद् ब्रह्म, न तद्भासयते सूर्य इत्यादिना ईश्वरमाहात्म्यस्यापि वर्णनात्प्राधान्येनेत्युक्तम् । प्राचुर्यापेक्षया सङ्ग्राहकमेतदिति भावः ।। तत्रेति ।। अध्यायपञ्चकमध्ये दर्शयत्यनेनाध्यायेनेत्यन्वयः ।। इत्युक्तेति ।। क्षेत्रक्षेत्रज्ञसंयोगहेतुकप्रपञ्चजननविवरणेत्यर्थः ।। १२ ।।
भावप्रकाशः
यथा भाष्यमुत्तरेषां पञ्चानामध्यायायनां प्रतिपाद्यं दर्शयति । प्राधान्येनोत्तराध्यायैरिति । योगे त्विमां ृण्विति प्रतिज्ञायाषष्टपरिसमाप्तेः कर्मवर्जनादीतिकर्तव्यतासहितं कर्मध्यानलक्षणं ज्ञानसाधनमुक्तं तत्रेतिकर्तव्यतांशमुत्तरैरध्यायैः प्रपञ्चयतीत्यर्थः । ममयोनिर्महद्ब्रह्म न तद्भासयते सूर्य इत्यादिनेश्वरमाहात्म्यस्यापि वचनात् कथमेतदित्यत उक्तम् ।। प्राधान्येनेति ।। प्राचुर्यापेक्षया सङ्ग्राहकमेतदित्यर्थः ।। अवान्तरप्रतिपाद्यभेदादध्यायभेदः ।। कारणार्थत्वप्रतीतिनिरासायेति ।। १२ ।।