गीता

अष्टादशोऽध्यायः

काम्यकर्माकरणं संन्यासः – फलत्याग एव त्यागः

गीता

अर्जुन उवाच—

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।

त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ।। १ ।।

श्रीभगवानुवाच—

काम्यानां कर्मणां न्यासं सन्यासं कवयो विदुः ।

सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ।। २ ।।

तात्पर्यम्

सर्वाध्यायोक्तधर्मस्य समासतो निर्णयात्मकोऽनुक्तत्रैगुण्यवादी चायम्

।। १,२ ।।

प्रकाशिका

 अनेनाध्यायेन प्रतिपाद्यं दर्शयति ।। सर्वेति ।। ‘‘ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदत’’ इत्यादिचतुर्दशाध्यायाद्यनुक्तत्रैगुण्यवादी चायमध्याय इत्यर्थः ।। १२ ।।

न्यायदीपिका

एतदध्यायप्रतिपाद्यमर्थं दर्शयति ।। सर्वेति ।। यत्सर्वेष्वध्यायेषु विप्रकीर्णतया पुरुषार्थसाधनमुक्तं तन्मंदानां बुद्ध्यारोहार्थं सङ्क्षेपेणास्मिन्नध्याये निरूप्यते । चतुर्दशाद्यनुक्तं त्रैगुण्यं चोच्यत इत्यर्थः ।। १२ ।।

किरणावली

चतुर्दशादीति ।। चतुर्दशाध्यायमारभ्य त्रैगुण्यकथनादत्रापि तदुक्तमात्रकथने पौनरुक्तयादत्र ज्ञानं कर्मच कर्ता च त्रिधैव गुणभेदत इत्यादिना तदनुक्तं त्रैगुण्यं चोच्यत इत्यर्थः

।। १,२ ।।

भावदीपः

पुमर्थसाधनमिति ।। मोक्षहेतुज्ञानसाधनं त्रैगुण्यविषया वेदा इत्यादिनोक्तमित्यर्थः । त्रैगुण्यं सत्त्वादिगुणत्रयकार्यमित्यर्थः ।। १२ ।।

भावप्रकाशः

चतुर्दशाद्यनुक्तत्रैगुण्यं चेति । चतुर्दशाध्यायमारभ्यैव त्रैगुण्यकथनादिति भावः

।। १२ ।।

वाक्यविवेक

अध्यायस्वरूपनिरूपणेन प्रतिपाद्यनिरूपणमपि कृतमिति भावेनाह । एतदध्यायेति । चतुर्दशाद्यनुक्तेति ।। पूर्वाध्यायेष्वपि त्रैगुण्यस्वरूपं नोक्तं तथापि चतुर्दशाध्यायेषु प्रसङ्गसद्भावात् वक्तव्यमपि नोक्तमिति शेषमालंब्य चतुर्दशाद्यध्यायेषु नोक्तमित्युक्तमिति बोध्यम् ।।१,२।।