भगवानुवाच
।। श्रीवेदव्यासाय नमः ।।
श्री आनन्दतीर्थभगवत्पादाचार्यविरचितः
गीतातात्पर्यनिर्णयः
नवमोऽध्यायः
श्रीभगवानुवाच—
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ।। १ ।।
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ।। २ ।।
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ।। ३ ।।
तात्पर्यम्
सप्तमोक्तं प्रपञ्चयति ।। १३ ।।
श्री जयतीर्थमुनिविरचितायां
न्यायदीपिका
एतदध्यायप्रतिपाद्यमर्थं दर्शयति ।। सप्तमेति ।। भगवन्महिमानमिति शेषः । न चैवमस्याष्टमत्वेन भवितव्यमिति वाच्यम् । अर्जुनप्रश्नपरिहारेणान्तरितत्वात् ।। १३ ।।
ताम्रपर्णी श्रीनिवासेन विरचिता
श्रीमन्न्यायदीपकिरणावलिः
अर्जुनप्रश्नपरिहारेणेति ।। सप्तमान्ते ते ब्रह्म तद्विदुरिति भगवतोक्ते किं तद्ब्रह्मेत्यष्टमादौ ब्रह्मादिपदार्थप्रश्ने कृते अक्षरं ब्रह्म परममित्यादिना पदार्थोक्तया प्रश्नपरिहारस्याष्टमे कृतत्वात् पदार्थपूर्वकत्वाद्वाक्यार्थज्ञानस्य ब्रह्मादिपदार्थविवेचनपरेणाष्टमेन व्यवहितत्वाद्भगवन्माहात्म्यरूपवाक्यार्थ प्रपञ्चनपरस्यास्य नवमत्वमेव युक्तमिति भावः । तथा च प्रमेयदीपिकायां पदार्थज्ञानपूर्वकं वाक्यार्थज्ञानमिति सप्तमोक्तपदार्थानष्टमे व्याख्याय नवमे तद्वाक्यार्थं स्पष्टीकरोतीत्यर्थ इति ।। १३ ।।
श्री राघवेन्द्रयतिकृतः
भावदीपः
षट्कान्तर्भावसिद्ध्यर्थमाह ।। इति शेष इति ।। सप्तमानन्तर्यमस्य शङ्कते ।। न चैवमिति ।। अन्तरितत्वादष्टमेन व्यवहितत्वादित्यर्थः ।। १३ ।।
श्री सत्यप्रज्ञतीर्थविरचितः
न्यायदीपिकाभावप्रकाशः
अर्जुनप्रश्नपरिहारेणेति । सप्तमोक्तब्रह्मादिपदार्थप्रश्नेऽर्जुनेन कृते तत्परिहारेण ब्रह्मादिपदार्थानष्टमे निरूप्य नवमे वाक्यार्थो निरूप्यत इति भावः ।। १३ ।।
श्रीसत्यनाथयतिविरचितः
वाक्यविवेकः
मूले सप्तमोक्तं प्रपञ्चयतीत्यतःपरमनेनाध्यायेनेति शेषः पूरणीय इति भावेनाह ।। एतदध्यायेति
।। १३ ।।