गीता
गीता
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ।। २३ ।।
तात्पर्यम्
‘ज्ञात्वा परत्वं विष्णोस्तु पृथग् देवान् यजन्नरः ।
याति देवांस्तदज्ञात्वा तम एव प्रपद्यते ।
तथाऽपि यावदन्यैस्तु साम्यं हीनत्वमेकताम् ।
न निश्चिन्वन्ति जायन्ते संसारे ते पुनः पुनः’ इति च ।। २३ ।।
प्रकाशिका
‘‘देवान् देवयज’’ इत्यस्यार्थमाह ।। ज्ञात्वा परत्वमिति ।। २३ ।।
न्यायदीपिका
वाक्यान्तरेणापि विवृणोति ।। ज्ञात्वेति ।। किमज्ञानमात्रेण तम इति नेत्याह ।। तथापीति ।। यद्यप्येवमुच्यते तथापीत्यर्थः । तावदिति संयोज्यम् । केचन भागवताः पुरुषाः । केचन त्रैविद्याः सन्ति । तेषां च मोक्षादिकं फलमित्युक्तम् ।। २३ ।।
किरणावली
यद्यप्येवमुच्यत इति ।। यद्यपि पर्यवसित फलमपेक्ष्यैवमुच्यते । तथापि यावदन्यैर्ब्रह्म रुद्रादिभिस्साम्यं हीनत्वमेकतांच न निश्चिन्वन्ति तावत्संसारे पुनः पुनर्जायन्ते ततश्चासुरीं योनिमापन्ना मूढा जन्मनि जन्मनीत्युक्तरीत्या ते तम एवेति मूलाभिप्राय इति भावः ।। २३ ।।
भावदीपः
एतदुच्यत इति ।। यथावद्भगवत्स्वरूपाज्ञानित्वं तेषामुच्यत इत्यर्थः ।