गीता

गीता

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।। ७ ।।

तात्पर्यम्

मत्तोऽन्यत् परतरं नास्ति । परतरस्त्वहमेवेत्यर्थः । अन्यथाऽन्यदिति व्यर्थम् ।

अवरा दुःखसम्बन्धाज्जीवा एव प्रकीर्तिताः ।

नित्यनिर्दुःखरूपत्वात् परा श्रीरेकलैव तु ।

दुःखासम्पीडितत्वात्तु मध्यमो वायुरुच्यते ।

अनन्याधीनरूपत्वादसमाधिकसौख्यतः ।

तत्तन्त्रत्वाच्च सर्वस्य विष्णुः परतमो मतः ।

अभावादन्तराऽन्यस्य त्विहैकार्थौ तरप्तमौ ।

यस्याः सम्बन्धयोग्यत्वाज्जीवा अप्यवरा मताः ।

तस्या जडायाः प्रकृतेरवरत्वे क्व संशयः ।

अथावरतरा ये तु विमुखाश्चेतना हरेः ।

नित्यदुःखैकयोग्यत्वान्नह्येतत् स्यादचेतने ।

अतः परतमं विष्णुं यो वेत्ति स विमुच्यते ।

मुक्तस्तु स्यात् पराभासः सुनित्यसुखभोजनात् ।

तत्रापि तारतम्यं स्यात् तेषु ब्रह्माऽधिको मतः ।

विष्णोराधिक्यसंवित्तिः सर्वस्माज्ज्ञानमुच्यते ।

एवं विविच्य तज्ज्ञानं विज्ञानमिति कीर्तितम् ।

एतच्च तारतम्येन वर्तत केशवादिषु ।

मुख्यविज्ञान्यतो विष्णुः किञ्चिद्विज्ञानिनोऽपरे ।। ७ ।।

प्रकाशिका

मत्तः परतरं नान्यदित्येतद्व्याचष्टे ।। मत्तोऽन्यदिति ।। अन्यत् यत् प्रकृतिपुरुषादिकं तत् मत्तः अधिकतरं न भवति । तत्र परतरस्त्वहमेवेत्युक्तं भवति ।। अत्र परतरं नेत्यनेन भगवदितरनिषेधे प्रत्यक्षादिप्रमाणविरोधः स्यात् । अन्यशब्दवैय्यर्थ्यं च स्यादित्यर्थः ।। अत्र परतरशब्दसामर्थ्यादवरादिकमप्यस्त्येव । तदेतत्स्पष्टीकरोति । परशब्दार्थात् लक्ष्मीतत्वात् परतर इति वा परतम इति वा विष्णुरेव वक्तव्यो न तु परमो विष्णुः परतरस्ततोऽन्य इति । तस्याभावात् इत्येतदुच्यते ।। ‘‘अभावादन्तरान्यस्य त्विहैकार्थौ तरप्तमौ’’ इत्यादिना ।। ज्ञानं तेऽहं सविज्ञानमिति प्रस्तुतं ज्ञानं विज्ञानं च दर्शयति ।। विष्णोरित्यादिना ।। ७ ।।

न्यायदीपिका

त्वद्वत्सर्वोत्तमान्तरस्यापि पितृत्वाद्युपपत्तेः कथं कृत्स्नस्येत्याद्युक्तमित्यत उच्यते ।। मत्त इति ।। तत्र स्वव्यतिरिक्तमात्रं निषिध्यत इत्यन्यथाप्रतीतिनिरासायाह ।। मत्त इति ।। नात्र स्वव्यतिरिक्तनिषेधः किं तु मत्तोऽन्यद्वस्तु परतरं न भवति किं त्वहमेव परतरः । अतोऽहं कृत्स्नस्येत्यादि युक्तमेवोच्यत इति भावः । स्वातिरिक्तनिषेधोऽयं किं न स्यादित्यत आह ।। अन्यथेति ।। यद्यत्र स्वातिरिक्तनिषेधस्तर्हि परतरपदेनैव स्वातिरिक्तस्योक्तत्वादन्यदिति व्यर्थं स्यात् । अन्यदिति पदस्य स्वातिरिक्तार्थताभ्युपगमेच परतरमिति व्यर्थं स्यादित्यर्थः । यदि विष्णुरेव परतरस्तर्हि परावरादिना भाव्यं तत्किमित्यत उक्तार्थे स्मृतिमाह ।। अवरा इति ।। दुःखसम्बन्धित्वान्न परो दुःखेन सम्यगपीडितत्वाच्च नावरोऽतो मध्यम इत्यर्थः । विष्णुः परतरश्चेत्कः परतम इत्यत आह ।। अभावादिति ।। अत्र परतरपरतमपदाभ्यां विष्णुरेक एवोच्यते । नत्वसौ परतम एव । परभूतश्रीतत्वस्य परतमभूतविष्णोश्च मध्ये परतरस्यान्यस्याभावात् । नापि विष्णुः परतर एव परतमस्तयान्यस्याभावादिति भावः । ननु जडप्रकृतेरपि नित्यनिर्दुःखत्वात्कथं श्रीरेकैव परेत्यत आह ।। यस्या इति ।। निर्दुःखत्वेपि दुःखकारणत्वेन जडप्रकृतेरसन्दिग्धमवरत्वमेवेत्यर्थः ।।

यदुक्तं जीवा अवरा इति तस्यापवादमाह ।। अथेति ।। अत्रापि तरप्तमपावेकार्थौ । नन्वचेतनादपि चेतनस्योत्तमत्वादीश्वरविमुखानामवरतरत्वे कथं प्रकृतेरवरत्वमित्यत आह ।। नहीति ।। जीवानां दुःखसम्बन्ध उक्तस्तर्हि मोक्षः कथं स्यादित्यत आह ।। अत इति ।। उक्तप्रकारेणेत्यर्थः । ननु भगवज्ज्ञानेन दुःखमोक्षो भवति चेन्मुक्तस्य परत्वं स्यात् । तथा च श्रीरेकैव परेत्ययुक्तमित्यत आह ।। मुक्त इति ।। सुनित्यसुखभोजनादवरत्वाभावेऽपि प्राग्दुःखसंबन्धात्पराभास एव नतु पर एवेत्यर्थः । सर्वमुक्तानां दुःस्वाभावसाम्येऽपि न सुखादावपि साम्यमित्याह ।। तत्रापीति ।। ननु श्रुत्यादौ ज्ञानविज्ञानाभ्यां मोक्षोक्तेः कथं विष्णोः परतरत्वज्ञानेन मोक्षोऽभिहित इत्यत आह ।। विष्णोरिति ।। उच्यते श्रुत्यादाविति शेषः । एवं श्यादीनां परत्वादिज्ञानेन । अनेन ज्ञानं तेऽहं सविज्ञानमित्यस्याप्यर्थ उक्तो भवति । ज्ञानविज्ञानयोर्दौर्लभ्यं लिप्सोत्पादनायाह ।। एतच्चेति ।। मुक्तानां तारतम्ये वाऽनेन हेतुरुच्यते । अनेन मनुष्याणामित्येतदपि व्याख्यातं भवति ।। ७ ।।

किरणावली

चेतनाश्रीरित्यनेनेति ।। चेतनेत्यनेन ज्ञानात्मक विग्रहवत्त्वस्योक्तत्वेन जीवपदप्रवृत्तिनिमित्ताहङ्कारकार्यविशेषस्य प्राणधारकत्वायोगाज्जीवानां प्राणधारिणीमिति व्याख्यातं भवतीत्यर्थः । यद्वा चेतनत्वेन जीवसादृश्याद्गौण्या जीवभूतामिति व्याख्यातमित्यर्थः ।। त्वद्वत्सर्वोत्तमान्तरस्यापीति ।। परापरप्रकृत्योः स्वाधीनत्वोक्तयैव स्वस्य परतरत्वमुक्तप्रायम् । किं त्वपरतत्वं यथानेकं भूम्यादिभेदेन । यथा च परतत्वं मुक्तस्तु स्यात्पराभास इति वचनात् । तथा परतरमप्यनेकं चेत्तर्हित्वद्वत्सर्वोत्तमान्तरस्यापि पितृत्वाद्युपपत्तेरित्यर्थः ।। स्वव्यतिरिक्तमात्रमिति ।। केवलं स्वव्यतिरिक्तं स्वव्यतिरिक्तमात्रमत्यन्तभिन्नमित्यर्थः । मायावादिरीत्यातु स्वार्थेतरप् । परमेव परतरमित्यर्थमभिप्रेत्योक्तं स्वव्यतिरिक्तमात्रमिति । स्वभिन्नमेव किमपि नास्तीत्यर्थः ।। यद्यत्र स्वातिरिक्तनिषेधस्तर्हि परतरपदेन स्वातिरिक्तस्येति ।। यद्यत्र मायिरीत्या भिन्ननिषेधः यदिवाभास्कररीत्यात्यन्तभिन्ननिषेधः तर्हि परतरपदेन स्वातिरिक्तस्य स्वात्यन्तभिन्नस्य चेति योज्यम् । अन्यदिति व्यर्थमित्युपलक्षणम् । मायिमतेतरपदं च व्यर्थमिति द्रष्टव्यम् ।

ननु भास्करमते मत्तोन्यन्नेतिनिषेद्धुमशक्यत्वात्तद्विवरणायपरतरमित्युक्तमिति चेत्तर्हि तावतैव पूर्तेरन्यदिति व्यर्थमेवेति भावः ।। दुःखेन सम्यगपीडितत्वादिति ।। द्विवारं भयमेवच । शोकोपि तावानिति वचनाद्द्विवारमेव मनसो दुःखात्मना परिणामात् । परिणतस्यानीचतानाधायकत्वादिति भावः । तदुक्तम् ।

ब्रह्मणोप्यल्पदुःखं स्यात्तदप्यनभिमानतः ।

नास्त्यात्मसम्बन्धितया भोगवान्न कथंचनेति ।

अभावादन्तरान्यस्य त्विहैकार्थौतरप्तमावित्यत्र तुशब्दोवधारणार्थ इत्यभिप्रेत्य तात्पर्यमाह ।। अत्रेति ।। इह विष्णुःपरतरो मत इति स्ववाक्ये श्रुतेन परतरपदेन मत्तः परतरं नान्यदिति गीतावाक्ये चाहमेव परतर इति श्रुतप्रायेण परतरपदेनोभयत्र कः परतम इत्याशङ्कापरिहारायावश्यकेन परतमपदेनेत्येवं परतरपरतमपदाभ्यां विष्णुरेक एवोच्यत इत्यर्थः । ननु विष्णुः परतम एव भवत्वन्यः परतरोस्तु अथवा विष्णुः परतर एवास्तु । अन्यः परतमो भवतु कथं पदद्वयेनैक एवोच्यत इत्यतस्तावदाद्यं निराकरोति । नत्वसौ परतम एवेति । असौ परतम एवान्यस्तु परतर इति नमन्तव्यमित्यत्र हेतुतया भावादित्येतद्व्याचष्टे ।। परभूतेति ।। द्वितीयं पक्षं प्रतिक्षिपति ।। नापीति ।। विष्णुःपरतर एवास्तु अन्यस्तु परतम इति तन्नेत्यत्र हेतुतयाऽभावादित्येतद्व्याचष्टे ।। परतमस्येति ।। विष्णुमन्तरा विनापरतमस्यान्यस्याभावादिति योज्यम् । यस्यास्सम्बन्धयोग्यत्वादित्यत्र मुक्तियोग्येषु सम्बन्धोऽनादिरप्यनित्यः। नित्यसंसारिषु सार्वकालिको मन्तव्यः । नित्यदुःखैकयोग्यत्वादित्यनेन योग्यस्य दुःखस्य स्वाभाविकत्वेन प्रकृतिसम्बन्धोपाधिकत्वाभावान्न प्रकृतेरवरतरत्वमिति सूचितं भवति । मुक्तियोग्यव्यावृत्त्यर्थं नित्येति । नित्यसंसारिव्यावृत्त्यर्थमेवेति ।।

अत्रापितरप्तमपाविति ।। तमोयोग्यापेक्षयान्यस्यावरतमस्याभावादिति भावः । अतः परतरमित्यत्रातः शब्दस्य हेत्वर्थकत्वाभावादनेनेति तृतीयान्तात्तसिरिति भावेन व्याचष्टे ।। उक्तप्रकारेणेति ।। ननु सनित्यसुखभोजनात्पराभास इति यथा श्रुते लक्ष्म्यामीश्वरेचातिव्याप्तिस्स्यादित्यतः सुनित्यसुखभोजनान्नावर इत्यध्याहृतेन साध्येन सम्बन्धः । पराभास इत्यस्य तु प्राक् दुःखसम्बन्धात्पराभास इत्यध्याहृतेन हेतुना सम्बन्ध इति भावेन व्याचष्टे ।। सुनित्यसुखभोजनादित्यादिना ।। एवं विविच्येत्यत्रैवमित्यनूद्य व्याचष्टे ।। एवमिति ।। एवमुक्तरीत्या विविच्य श्रीः परा जीवा अवरा इत्यादि रूपेण विविच्यश्यादीनां परत्वादि ज्ञानेन तत्पूर्वकं तज्ज्ञानं विष्णोः सर्वोत्तमत्वज्ञानं विज्ञानमित्यर्थ इति भावः । प्रकारान्तरेणै तच्चतारतम्येनेत्ये तद्व्याचष्टे ।। मुक्तानामिति ।। एतच्चेति संयोज्यम् । एतच्चेत्यत्रेत्यर्थः । ज्ञानविज्ञानरूपसाधनतारतम्ये मुक्तिफलेपि तारतम्यस्यावश्यकत्वादित्यर्थः ।। ७ ।।

भावदीपः

परावरादिनेति ।। परेणावरेणावरतरेण परतरेण च भाव्यमित्यर्थः । अभावादन्तरान्यस्येत्येतद् द्वेधा योजयति ।। न त्वसावित्यादिना ।। व्याख्यातमिति ।। चेतनरूपामिति व्याख्यातमित्यर्थः । इत्यस्येत्यस्य एवमित्यनुवादः ।। श्रुत्यादीनां परत्वादिज्ञानेनेति व्याख्या ।। लिप्सेति ।। आदरेत्यर्थः ।। तारतम्ये वेति ।। तत्रापि तारतम्यं स्यादिति प्रागुक्ततारतम्येवेत्यर्थः ।

भावप्रकाशः

स्वव्यतिरिक्तमात्रमिति ।। परतरमित्यत्र परशब्दस्य स्वव्यतिरिक्तार्थकत्वं तरपः स्वार्थिकत्वम् । अन्यदित्यस्य पूर्वोक्तविवरणरूपत्वमित्यभिप्रेत्यैवमुक्तमिति द्रष्टव्यम् ।। अन्यदिति व्यर्थं स्यादिति । पर इत्येतद्विवरणरूपत्वं त्वगतिकागतिरिति भावः ।। उपलक्षणमेतत् । तरपश्च वैय्यर्थ्यं स्यादिति बोध्यम् । परावरादिनेति । अत्रादिपदेनावरतरमध्यमपराभासपरतमानां ग्रहणम् ।। अभावादन्यस्येत्यंशं प्रकारान्तरेण व्याख्यातुमाह । नापि विष्णुरिति ।। हरिविमुखचेतनानां अवरतरत्वेऽवरतमाः के इत्यत आह । अत्रापि तरप्तमपाविति ।। न केवलमितः परतरमित्यत्रेति भावः । अतःशब्दपरामृश्यं दर्शयति ।। उक्तप्रकारेणेति । तृतीयान्तात्तसिरिति भावः ।। पराभास इति साध्ये हेतुं सुनित्यसुखभोजनादिति हेतौ साध्यं चाध्याहृत्य व्याचष्टे । सुनित्यसुखभोजनादिति ।। यथाश्रुते लक्ष्ये परमात्मनि च हेतोरतिव्याप्तिरिति भावः ।। प्रकारान्तरेणैतच्चेति वाक्यं सङ्गमयति ।। मुक्तानां तारतम्ये वेति । ज्ञानविज्ञानरूपसाधनतारतम्येन मुक्तिरूपफले तारतम्यस्यावश्यकत्वादिति भावः।।७।।

वाक्यविवेकः

अत्र परतरपरतमपदाभ्यामिति ।। अत्र तारतम्यग्रन्थेषु महालक्ष्म्युत्तमकथनवेलायां क्वचिद्ग्रन्थे तरबन्तेन शब्देन महालक्ष्म्युत्तमवस्त्वभिधीयते । क्वचित्तमबन्तेन ।। न तावता प्रतिपाद्यभेदो भेत्तव्यः किंतु ग्रन्थभेदेन विद्यमानावुभौ तरप्तमशब्दावेकार्थाविति मन्तव्यम् ।। एतेन गीतायां शब्दद्वयाभावात् अत्र परतरपरतमपदाम्यां विष्णुरेक एवोच्यत इत्यनुपपन्नमिति परास्तम् ।। नत्वसौ परतम एवेति ।। परतमशब्देनैव निर्देशयोग्यो नतु परतरशब्देन निर्देशयोग्य इति नेत्यर्थः ।। नापि विष्णुः परतर एवेति ।। परतरशब्देनैव निर्देशयोग्योः न तु परतमशब्देन निर्देशयोग्य इत्यपि नेत्यर्थः ।। मूले यस्या इति ।। जीवा अपि उत्तमत्वप्रयोजकज्ञानादिमन्तोऽपि यत्संबन्धयोग्यत्वमात्रेण अवरा भवन्ति सा जडप्रकृतिरवरेति किं वक्तव्यमित्यर्थः ।। निर्दुःखकारणत्वात् जडप्रकृतेरवरत्त्वे परमेश्वरस्यापि तत्स्यादिति परास्तम् ।। अत्रापीति ।। अत्रापि अवरतारतम्यशास्त्रेऽपि तमोयोग्याः क्वचित्तरप्शब्देनोच्यन्ते ।। उभावपि तौ शब्दौ एकार्थौ अतो न विरोध इति भावः ।। कथं प्रकृतेरवरत्वमिति ।। अवरतमत्वेन भाव्यत्वादिति भावः ।। मूले नह्येतत्स्यादिति ।। एतत् अवरतमशब्दप्रवृत्तिनिमित्तं तमोयोग्यादप्यतिशयेन दुःखभागित्वमचेतने नास्तीति हि प्रसिद्धमित्यर्थः ।। मुक्तस्य परत्वं स्यादिति ।। बल्यादीनां कर्मणा देवत्वप्राप्तिवत् मुक्तिमन्तरा परत्वं स्यादित्यर्थः ।। ज्ञानविज्ञानाभ्यामिति ।। पूर्वं मोक्षसाधनीभूतज्ञाने विष्णोः परतरत्वविगाहित्वं नोक्तम् ।। इदानीन्तदवगाहित्वं ज्ञानस्य किमर्थमुच्यत इत्यत आहेत्यर्थः ।। ज्ञानं तेऽहं सविज्ञानमित्यस्येति ।। विविच्य विष्णुपरतरत्वावगाहिज्ञानसहितं विष्णुपरतमत्वावगाहिज्ञानं वक्ष्यामीत्यर्थ उक्तो भवतीत्यर्थः ।। अनेन मनुष्याणामित्येदपीति । मनुष्याणां सहस्रेषु सिद्धये ज्ञानाय कश्चित् यतति यतते ।। यततां सिद्धानां मध्ये कश्चित् एव चतुर्मुख एव लक्ष्म्यनन्तरं सम्यक् वेति ।। अन्ये तदनन्तरं क्रमेण जानन्तीति व्याख्यातं भवतीत्यर्थः

।। ७ ।।