तात्पर्यम्

तात्पर्यम्

सर्वं चैतदत्रैवावगम्यते ।

अथ चेत्त्वमिमं दर्म्यं सङ्ग्रामं न करिष्यसि ।

ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ।।

इत्यादिना युद्धस्य स्वधर्मत्वम् ।

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ।।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।

स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ।।

सर्वगुह्यतमं भूयः ृणु मे परमं वचः ।

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ।।

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।।

इत्यादिना स्वधर्मेणैव भगवदाराधनस्यैव कर्तव्यत्वं तदन्यस्य त्याज्यत्वं च ।

प्रकाशिका

संक्षिप्योक्तमर्थं विस्तृत्य भगवद्गीतावाक्यैः प्रतिपादयितुमाह ।। सर्वं चैतदिति

‘‘न मां कर्माणि लिंपन्ति न मे कर्मफले स्पृहा ।।

इति मां योऽभिजानाति कर्मभिर्न स बध्यते ।।

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः’’

न्यायदीपिका

नन्वर्जुनस्य देवत्वादि कुतः । स्वविहितेत्यादेर्गीतातात्पर्यार्थत्वं च कुत इत्यत आह ।। सर्वं चेति ।। अर्जुनो देव इत्याद्येतच्च सर्वं गीतायामेवावगम्यते ।। न च प्रमाणान्तरं तत्रान्वेषणीयम् ।। स्वविहितेत्यादिकं च सर्वं गीतायामवगम्यत एव ।। नतु तदर्थतया बलादुच्यत इत्यर्थः ।। तत्र तावन्नारायणद्विट्तदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायमर्जुनं भगवान्नारायणो बोधयतीत्येतावद्गीतायां स्फुटमवगम्यते ।। यच्छ्रेयः स्यान्निश्चितं ब्रूहि तदितिप्रार्थनात्तस्य निवृत्तप्रायतावगमात् ।। साक्षान्निवृत्तौ तदनुपपत्तेः ।

नारायणद्विट्तदनुबन्धिनिग्रहस्य क्षत्रियाणां परमधर्मत्वं गीतायां केनावगम्यत इत्यत आह । अथेति ।। युद्धस्य उक्तविधस्येति शेषः ।। अवगम्यत इति सर्वत्रानुषज्यते ।।

स्वविहितवृत्त्या भक्तया भगवदाराधनमेव परमधर्मः ।। तद्धिरुद्धःसर्वोप्यधर्म इत्येतत्केनावगम्यत इत्यत आह ।। यत इति ।। यत इत्यनेन स्वविहितवृत्त्या भक्तया भगवदाराधनस्य कर्तव्यत्वमवगम्यते ।। भक्तयार्चनस्यैवाभ्यर्चनत्वात् ।। स्वकर्मणेत्यनेन स्वविहितवृत्त्या भक्तया भगवदाराधनस्यैव मुख्यतः कर्तव्यत्वम् ।। मोक्षसाधनस्यैव मुख्यतः कर्तव्यत्वात् ।। श्रेयानित्यनेन स्वविहितवृत्तेः कर्तव्यत्वमस्वविहितवृत्तेस्त्याज्यत्वं च । श्रेयस एव कर्तव्यत्वादश्रेयसस्त्याज्यत्वात् ।। सर्वेत्यनेन भक्तया भगवदाराधनस्य कर्तव्यत्वम् ।। सर्वगुह्यतमतया हितसाधनतया भगवत्प्राप्तिसाधनतया च विहितस्य कर्तव्यत्वात् ।। सर्वधर्मानित्यनेन स्वविहितवृत्त्या भक्तया भगवदाराधनस्यैव कर्तव्यत्वं तदन्यस्य त्याज्यत्वं च ।। स्वविहितवृत्त्या भक्तया भगवदाराधनस्यैव शरणागतित्वात् ।। सर्वधर्मपदेनैतद्विरुद्धस्य धर्माभासस्य विवक्षितत्वात् ।। सर्वपापापगमनहेतुतया विहितस्य कर्तव्यत्वात् ।। तदर्थत्वेन निषिद्धस्य त्याज्यत्वात् ।। स्वधर्मेण भक्तयाचेति संयोज्यम् ।। कर्तव्यत्याज्यत्वाभ्यां धर्माधर्मत्वे इति भावः ।।

किरणावली

नन्वर्जुनस्येत्यादि ।। यदर्जुनस्य बोधनार्हतासिध्यर्थमात्मनः प्रियतम इति वक्तृप्रेमास्पदत्वं तदुपपादनाय ज्ञानित्वं उत्तमाधिकारित्वं देवत्वं च यच्च बोधने प्रसक्तिं दर्शयितुं क्षत्रियाणामित्यारभ्य ततो निवृत्तप्रायमिति निवृत्तप्रायं चेत्यर्जुनविशेषणमुक्तं तत्कुतः प्रमाणादित्यर्थः ।। स्वविहितेत्यादेरिति ।। स्वविहितवृत्या भक्तया भगवदाराधनसाधर्मत्वं तद्विरुद्धस्याधर्मत्वमित्येतस्य तदुपपादकं यत् सर्वस्य तदधीनत्वं तस्य च यद्गीतार्थत्वमुक्तं तच्च कुतः । गीतायामप्रतिभासादित्यर्थः ।।

ननु सर्वमेतदित्येतावता पूर्णत्वाच्चशब्दो व्यर्थः । अत्रैवेति चायुक्तम् । अर्जुनस्य देवत्वादेः प्रमाणान्तरेणाप्यवगम्यमानत्वात् स्वविहितेत्यादिकमत्रैवावगम्यत इति चायुक्तम् । अत्र कथमवगम्यत इत्याक्षेपे अन्यत्र नावगम्यत इत्यस्यानुत्तरत्वादित्यतो वाक्यं विभज्य व्याचष्टे ।। अर्जुन इत्यादिना ।। प्रमेयद्वये प्रमाणस्य पृष्टत्वात् । तदनुसारेणैतच्च सर्वमर्जुनदेवत्वादिकमेतच्च सर्वं स्वविहितेत्यावृत्त्या परस्परसमुच्चये चशब्दः ।

तत्राद्येऽत्रैव गीतायामेवेत्येवकारस्य यथाश्रुतसम्बन्धः । न च प्रमाणान्तरेण चावगमनविरोधः । अत्रैवावगम्यतेऽतो न प्रमाणान्तरमन्वेषणीयमित्यर्थाङ्गीकारात् । द्वितीयेऽत्रैवेत्येवकारस्य न यथाश्रुत सम्बन्धः । किंतु स्वविहितेत्यादेः कथं गीतार्थत्वमप्रतिभासादित्याक्षेपपरिहारायात्रस्फुटमवगम्यत एव न तु तदर्थतयान्यथानुपपत्तिबलादुच्यत इत्यवधारणस्य भिन्नक्रमेणान्वय इति भावः ।। अत्र बलान्नोच्यत इत्युक्तया देवत्वादिविशेषणमध्ये किञ्चिद्बलादुच्यते किञ्चित्स्फुटमवगम्यत इति द्वैविध्यमस्तीति सूचयति । एतच्चानुपदमेव स्फुटीभविष्यति । धर्म्यं धर्मसाधनं सङ्ग्राममिति युद्धमात्रस्य धर्म्यत्वोक्तौ कः प्रकृतोपयोग इत्यत आह ।। युद्धस्योक्तविधस्येति ।। इमं सङ्ग्राममिति प्रकृतं नारायणद्विट्तदनुबन्धिनिग्रहरूपमिति सङ्ग्रामस्य विशेषणादिति भावः ।।

स्वविहितवृत्त्येति ।। अस्येत्येतदित्यध्याहारेणावगम्यत इत्यनेनान्वयः ।। नन्वत्राभ्यर्च्य सिद्धिं विन्दतीति भगवदाराधनस्य मोक्षसाधनत्वमुच्यते । न तु कर्तव्यत्वमित्यत आह ।। मोक्षसाधनस्यैवेति ।। ननु स्वर्गकामेन मोक्षसाधनमिव मुमुक्षुणा ज्योतिष्टोमादिकमपि कर्तव्यम् । तत्कथमवधारणमित्यत उक्तम् ।। मुख्यत इति ।। श्रेयस एव श्रेयः साधनस्यैव ।। ओयस इति ।। ‘‘परधर्मो भयावह’’ इत्युक्तभयरूपाश्रेयःसाधनस्येत्यर्थः ।। मन्मना भवेत्यत्र मद्भक्तो मद्याजीति भक्तया भगवदाराधनावगमेऽपि तत्कर्तव्यत्वं केनावगम्यत इत्यतः पूर्ववाक्योदाहरणमिति भावेनाह ।। सर्वगुह्यतमतयेति ।। मामेवैष्यसीति भगवत्प्राप्तिरूपमोक्षहेतुत्वं तत्रैवोक्तमिति चेन्न । हितमित्युक्तस्यैव तत्र विवरणादिति भावः ।।

ननु सर्वधर्मानित्यत्र सर्वधर्मपरित्यागेन शरणप्राप्तिर्विधीयते । न स्वविहितवृत्त्या भगवदाराधनस्य कर्तव्यत्वमित्यत आह ।। स्वविहितवृत्त्येति ।।

सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा ।।

सर्वाधिकप्रेमयुक्तं सर्वस्यात्मसमर्पणम् ।।

अखण्डात्रिविधापूजातद्भक्तयैवस्वभावतः ।।

रक्षतीत्येव विश्वासः तदीयोहमिति स्मृतिः ।।

शरणागतिरेषास्याद्विष्णोर्मोक्षफलप्रदा ।। इति वक्ष्यमाणत्वात् ।

इति भावः । अत्राखण्डा साङ्गमनुष्ठिता । त्रिविधा पूजेत्यनेनैव स्वविहित वृत्त्येत्यंशलाभः । सर्वाधिकप्रेमयुक्तमित्यनेन भक्तेः पूजेत्यनेन भगवदाराधनस्येति विवेकः ।। ननु यदि शरणव्रजनं स्वविहितवृत्त्या भक्तया भगवदाराधनरूपं तर्हि सर्वधर्मान्परित्यज्येत्यनेन विरोध इत्यत आह ।। सर्वधर्मपदेनेति ।। ‘‘अहं त्वा सर्वपापेभ्य’’ इति फलकथनात्कर्तव्यत्वं लभ्यते इत्याह ।। सर्वपापेति ।। तदर्थत्वेनेति ।। अवैष्णवसर्वधर्मान्परित्यज्य मां शरणं व्रजेति ह्यनया स्वविहितवृत्त्या भक्तया भगवदाराधनरूपशरणव्रजनार्थत्वेन निषिद्धस्य तदन्यस्य त्याज्यत्वादित्यर्थः । अधर्माचरणवतो हि मनःकालुष्येण नोक्तविधशरणागतिरिति भावः । यद्वाहं त्वा सर्वपापेभ्य इत्यस्य सर्वधर्मपरित्यागवन्तं त्वा सर्वपापेभ्यो मोक्षयिष्यामीति तदर्थत्वेन सर्वपापगमनार्थत्वेन सर्वधर्मपरित्यागं कुर्विति निषिद्धस्या वैष्णवधर्मादेस्त्याज्यत्वादित्यर्थः । विहितानुष्ठानवन्निषिद्धत्यागोऽपि पापनिवृत्तिहेतुरिति भावः ।।

ननु मूले स्वधर्मेणेत्येव वर्तते तत्कथं भवद्भिः भक्तयेति संयोज्य व्याक्रियत इत्यत आह ।। भक्तया चेति संयोज्यमिति ।। अन्यथा मन्मनाभव मद्भक्त इत्यादेरुदाहरणं न स्यादिति भावः । ननु मन्मना भवेत्यादौ, सर्वधर्मान्परित्यज्य मामेकं शरणं व्रजेत्यादौ च स्वविहितवृत्त्यादेस्तद्विरुद्धस्य कर्तव्यत्वादिसिद्धावपि तयोर्धर्माधर्मत्वसिद्धिः कथमित्यत आह ।। कर्तव्यत्वेति ।।

भावदीपः

उक्तविधस्येति ।। भक्तिपूर्वं स्वविहितवृत्त्या क्रियमाणस्य भगवदाराधनस्येत्यर्थः । कर्तव्यत्वे हेतुश्चतुर्थपादेन लब्ध इति भावेनाह ।। मोक्षेति ।। ते हितमिति मामेवैष्यसीत्याभ्यां लब्धहेतू आह हितेत्यादिना ।। त्याज्यत्वं चेति ।। अवगम्यत इति योज्यम् । तद्व्यनक्ति भक्त्येत्यादिना । स्वधर्मेणेत्यनुवादेन शेषमाह ।। भक्त्या चेति संयोज्यमिति ।। भक्त्या भगवदाराधनमेव धर्मस्तद्विरुद्धस्त्वधर्म इत्येषोर्थोऽनेन कथं लब्ध इत्यत आह ।। कर्तव्येति ।।

भावप्रकाशः

स्वविहितेत्यादेरिति स्वविहितवृत्या भक्तया भगवदाराधनस्य परमधर्मत्वं तद्विरुद्धस्याधर्मत्वं चेत्यस्येयर्थः । अर्जुनस्य देवत्वादेः गीतातात्पर्यत्वाभावात् स्वविहितेत्यादेश्च गीतातात्पर्यत्वाद्वैलक्षण्यज्ञापनाय पृथक् स्वशब्देन ग्रहणमिति दृष्टव्यम् ।। न प्रमाणान्तरमिति ।। तथा च भागवतादावप्यर्जुनदेवत्वादेरवगम्यमानत्वादेवशब्दानुपपत्तिरिति शङ्कानवकाश इति भावः ।

अस्मिन्पक्षे एवशब्दो भिन्नक्रम इत्याह । अवगम्यत एवेति तद्व्यावृत्यमाह । नतु तदर्थतयेति । अत्र यत्किञ्चिद्युद्धस्य स्वधर्मत्वाभिधाने नारायणद्विट्तदनुबन्धिनिग्रहस्य परमधर्मत्वं न सिध्येदित्यत आह ।। युद्धस्योक्तविधस्येति शेष इति । युद्धस्येत्यनन्तरं उक्तविधस्येति शेष इत्यर्थः । एवमुत्तरत्रापि ज्ञातव्यम् । अवगम्यत इति ।। सर्वत्रानुषज्यत इति ।। सर्वं चैतदत्रैवावगम्यत इत्यत्र श्रुताववगम्यत इतिशब्दः युद्धस्य स्वधर्मत्वमित्यत्र भगवदाराधनस्य तत्कर्तव्यमित्यादौ च सबध्यत इत्यर्थः । यत इत्यनेनेति । यद्यप्यत्र स्वकर्मणेत्युत्तरार्धोदाहरणमेव सङ्गतं तथापि तमिति तच्छब्दपरामर्शप्रदर्शनार्थं पूर्वार्धोदाहरणमिति भावः । अत्र भक्तया भगवदाराधनावगमकं किमित्यतोऽभ्यर्चेति पदमित्याह । भक्तयाऽर्थनस्यैवेति ।। स्वविहितवृत्येतज्ज्ञापकमाह । स्वकर्मणेत्यनेन स्वविहितवृत्येति । अस्येति शब्दाध्याहारेणावगम्यत इत्यनेनान्वयो दृष्टव्यः । सिद्धिं विन्दतीत्येतत् कर्तव्यत्वज्ञापकमाह । मोक्षसाधन स्यैवेति । अत्र स्वविहितास्वविहित वृत्योः कर्तव्यत्वत्याज्यत्वे ज्ञापकं किमित्यतः श्रेयानिति श्रेयः साधनत्वोक्तिर्भयावह इति भयसाधनत्वोक्तिश्चेत्याह । श्रेयस एवेति । अत्र मद्भक्तो मद्याजीत्यनेन भक्तया भगवदाराधनावगमेऽपि तत्कर्तव्यत्वं केनावगम्यत इत्यतः सर्वगुह्यतमं, हितं मामैवेष्यसीति पदत्रयेणेत्यभिप्रेत्याह । सर्वगुह्यतमतयेति । सर्वधर्मानित्यत्र स्वविहितवृत्येत्यादिकं केनावगम्यत इत्यतः ।

सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा ।

सर्वाधिकप्रेमयुक्तं सर्वस्यात्र समर्पणम् ।

अखण्डा त्रिविधा पूजा तद्रत्यैव स्वभावतः ।

रक्षतीत्येव विश्वासः तदीयोऽहमितिस्मृतिः ।

शरणागतिरेषा स्याद्विष्णौ मोक्षफलप्रदा ।

इत्युदाहरिष्यमाणप्रमाणं मनसि निधाय शरणं व्रजेत्यनेनेति आह ।। स्वविहितवृत्येत्यादि । प्रमाणमुपलक्षणमित्यभिप्रेत्य स्वविहितवृत्येत्युक्तम् । सर्वाधिकप्रेमयुक्तमित्यनेन भक्तयेति सूचितम् । त्रिविधा पूजेत्यनेन भगवदाराधनस्येत्यंशसिद्धिरिति भावः । अन्यत्सर्वधर्मान्परित्यज्येत्युक्तशेषत्वेनैव सर्वधर्मानिति वचनमित्युत्तरमूलं मनसि निधाय सर्वधर्मानित्यनेन तदन्यस्य त्याज्यत्वसिद्धिरित्याह । सर्वधर्मपदेन चेति ।। अहं त्वा सर्वपापेभ्यय इत्यनेन कर्तव्यत्वसिद्धिरित्याह । सर्वपापपगमनहेतुतति । तदर्थत्वेनेति । सर्वधर्मार्थत्वेनेत्यर्थः । निषिद्धस्यापि पापापगमहेतुरिति भावः उदाहृतवाक्यानुरोधेन मूले भक्तेत्यध्याहार्यमित्याह । भक्तयाचेति । संयोज्यमिति । ननूदाहृतवाक्यस्य विहितवृत्यादेः तद्विरुद्धस्य च कर्तव्यत्वादिसिद्धावपि धर्मत्वादिसिद्धिः कुतः इत्यत आह । कर्तव्यत्वाज्यत्वाभ्यामिति ।

वाक्यविवेकः

उक्तविधस्येति । भगवद्द्विट्तदनुबन्धिनिग्रहत्वावच्छिन्नस्येत्यर्थः । तदर्थत्वेनेति । सर्वपापापगमः अर्थः प्रयोजनं यस्य स तदर्थः तस्य भावस्तदर्थत्वम् । तेन निमित्तेनेत्यर्थः । पापापगमार्थं यस्य निषेधः क्रियते स त्याज्य इति भावः । ननु विहितवृत्या भक्तया भगवाराधनस्य कुतः परमधर्मत्वं तद्विरुद्धस्याधर्मत्वं कुत इति पृष्टे धर्माधर्मत्वे वक्तव्ये तद्विहाय कर्तव्यत्वाकर्तव्यत्वकथनमसङ्गतमित्यत आह ।। कर्तव्यत्वत्याज्यत्वाभ्यामिति अवगम्यते इति शेषः ।