तात्पर्यम्
तात्पर्यम्
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ।।
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ।।
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
‘महर्षयः सप्त पूर्वे’
‘एतां विभूतिं योगं च’
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ।।
‘तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयामि’
‘तेषामहं समुद्धर्ता मृत्युसंसारसागरात्’
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ।।
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ।।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ।
‘राजविद्या राजगुह्यम्’
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ।।
‘भूतभृन्न च भूतस्थः’
‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।।
सम्भवः सर्वभूतानां ततो भवति भारत ।
ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च ।।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ।
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ।।
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद्वुध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ।।
न मे पार्थाऽस्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यम्
इत्यादिना सर्वस्माद्भगवतो भेदः, सर्वस्य तदधीनत्वं, तस्यानन्याधीनत्वं, सर्वोत्तमत्वं, सर्वगुणपूर्णत्वं, सर्वशास्त्राणां तत्परत्वं, तथा तज्ज्ञानादेव मोक्ष इत्यादि ।
न्यायदीपिका
न मे विदुरित्यनेन पूर्णत्वमवगम्यते । अहमादिरिति सर्वोत्तमत्वम् । यो मामिति निर्दोषत्वं सर्वस्य तदधीनत्वं तज्ज्ञानान्मोक्षश्च । जन्मादीनां दोषत्वात् । सर्वपापक्षयस्य मोक्षत्वात् । बुद्धिरिति सर्वस्य तदधीनत्वम् । एतामिति तज्ज्ञानान्मोक्षः । निष्कंपयोगस्य सायुज्यत्वात् । अहमिति सर्वस्य तदधीनत्वम् । तज्ज्ञानान्मोक्षश्च । अज्ञानजतमसः संसारत्वात् । तेषामिति तज्ज्ञानान्मोक्षः । भोक्तारमिति सर्वस्य तदधीनत्वं तज्ज्ञानान्मोक्षश्च । शान्तेर्मोक्षत्वात् । ज्ञानमिति सर्वशास्त्राणां तत्परत्वम् । भगवज्ज्ञानेनैव सर्वशास्त्राणां ज्ञातत्वोक्तेः । अहमिति सर्वस्य तदधीनत्वम् । मत्त इति सर्वोत्तमत्वम् । मयीति सर्वस्य तदधीनत्वम् । इदमिति तज्ज्ञानान्मोक्षः । राजेति सर्वशास्त्राणां तत्परत्वम् । भगवद्विद्यायाः प्राधान्योक्तेः प्रधानानुसारित्वाच्चाप्रधानानाम् । मयेति सर्वस्य तदधीनत्वं निर्दोषत्वं च । ततेः प्रेरणार्थत्वात् । अव्यक्तपदेन चाकार्यत्वोक्तेः । नचाहमिति तस्यानन्याधीनत्वम् । भूतभृदिति सर्वस्य तदधीनत्वम् । तस्यानन्याधीनत्वं च । नत्वदिति सर्वोत्तमत्वम् । परमिति सर्वशास्त्राणां तत्परत्वम् । ज्ञायतेऽनेनेति ज्ञानशब्दोदितभगवच्छास्त्रस्य सर्वशास्त्रोत्तमत्वोक्तेः । अप्रधानस्य प्रधानानुयायित्वात् । ममेति सर्वस्य तदधीनत्वम् । ब्रह्मणोहीति सर्वस्य तदधीनत्वं तज्ज्ञानान्मोक्षश्च । द्वाविति सर्वस्माद्भगवतो भेदः सर्वोत्तमत्वं सर्वस्य तदधीनत्वं सर्वशास्त्रणां तत्परत्वं तज्ज्ञानान्मोक्षश्च । न मे पार्थेति पूर्णत्वम् । प्रथमादिपदेनासत्यमप्रतिष्ठंत इत्यादि द्वितीयेन जगत्सत्यत्वं गृह्यते ।
किरणावली
पूर्णत्वमिति ।। प्रभवं प्रभावं न विदुरित्यज्ञेयत्वोक्तया पूर्णत्वमवगम्यते । अहमादिरित्यत्रादिः प्रधान इति सर्वोत्तमत्वम् । यो मामजमित्यत्राजमनादिमिति निर्दोषत्वम् । लोकमहेश्वरमिति सर्वस्य तदधीनत्वम् । यो वेत्ति सर्वपापैः प्रमुच्यत इति तज्ज्ञानान्मोक्षश्चावगम्यत इत्यर्थः ।
कथमत्र निर्दोषत्वावगम इत्यत आह ।। जन्मादीनामिति ।। जन्मनो मरणस्य च दोषत्वाज्जगत्प्रागभावावच्छिन्नसमये तत्प्रध्वंसावच्छिन्नसमये चावृत्तित्वस्य कालपरिच्छेदरूपत्वेन दोषत्वादित्यर्थः । तत्राजमिति जननावस्थाभावोक्तया मरणावस्थाभावस्य अनादिमिति प्रागभावावच्छिन्नसमये वृत्तित्वोक्तया जगत्प्रध्वंसावच्छिन्नसमयेऽपि वर्तमानत्वस्य प्राप्तत्वेन पदद्वयेन दोषाभावलाभ इति भावः ।। सर्वपापक्षयस्येति ।। मोक्षस्य कर्मक्षयोत्क्रान्तिमार्गभोगभेदेन चतुर्विधत्वादिति भावः ।। बुद्धिरितीति ।। ‘‘भवन्ति भावाभूतानां मत्त एव पृथग्विधा’’ इति वाक्यशेषादिति भावः ।। एतामितीति ।। एतां विभूतिं योगं च मम यो वेत्ति तत्वतः ।। सो विकंपेन योगेन युज्यतेऽनात्रसंशय’’ इति तज्ज्ञानान्मोक्षोऽवगम्यत इत्यर्थः । अविकंपेन निश्चलेन योगेन सायुज्येनेत्यर्थं मत्त्वाह ।। निष्कंपेति ।। अज्ञानजं तम इत्यत्राज्ञानमविद्या । तज्जन्यं तम इव तमोदुःखहेतुत्वात् । तथा च भावरूपाज्ञानकार्यस्य दुःखहेतोः संसारत्वादित्यर्थः ।। शान्तेरिति ।। शान्तिर्मोक्षोऽथ निर्वाणमित्यभिधानादिति भावः ।।
भगवज्ज्ञानेनेति ।। ज्ञानविज्ञानशब्दौ ज्ञेयविज्ञेयभगवन्माहात्म्यपराविति प्रमेयदीपे व्याख्यातत्वात् यज्ज्ञेयं विशेषेण च ज्ञेयं भगवन्माहात्म्यं तत ज्ञात्वेह सर्वेषु शास्त्रेषु सर्वैः शास्त्रैर्ज्ञातव्यं नावशिष्यत इति भगवज्ज्ञानेन सर्वशास्त्राणां ज्ञातत्वोक्तेरित्यर्थः ।। भगवद्विद्यायाः प्राधान्योक्तेरिति ।। राजविद्या प्रधानविद्या । प्रत्यक्षं ब्रह्मावगम्यते येन तत्प्रत्यक्षावगममिति भाष्ये व्याख्यातत्वादिति भावः ।। मयेतीति ।। मयाततमिति श्लोके मया ततं मत्स्थानीति सर्वस्य तदधीनत्वमित्यर्थः । ननु मया ततमित्यत्र भगवतो गगनवत्ततिरुच्यते । न चैतावता तस्य तदधीनत्वमित्यत आह ।। ततेरिति ।। चेतनततेरित्यर्थः । अव्यक्तमूर्तिनेत्यतीन्द्रियत्वमुच्यते । तर्हि किमिति न दृश्यत इत्यत आह । अव्यक्तमूर्तिनेति भाष्येऽवतारितत्वात्कथमनेन दोषाभावलाभ इत्यत आह ।। अव्यक्तपदेनेति ।। अव्यक्तपदेनाकार्यत्वोक्तेश्चेत्यन्वयः । अतीन्द्रियत्वस्येवाकार्यत्वस्याप्युक्तेरित्यर्थः । व्यक्ताव्यक्तशब्दयोः कार्यकारणपरत्वस्यापि प्रसिद्धत्वादत्र सोऽप्यङ्गीकार्य इति न भाष्यविरोध इति भावः ।। ज्ञानशब्दोदितेति ।। ज्ञानानां शास्त्राणां मध्ये ज्ञानं शास्त्रं शृण्वित्युपदिश्यमानस्य भगवच्छास्त्रस्य सर्वशास्त्रोत्तमत्वोक्तेरित्यर्थः ।। ममेतीति ।। ब्रह्मण इति चित्प्रकृतेरमृतस्येति मुक्तवर्गस्येत्यर्थाङ्गीकारादिति भावः ।। तज्ज्ञानान्मोक्षश्चेति ।। मां च योऽव्यभिचारेण भक्तियोगेन सेवत इत्युक्त्वापरोक्षज्ञानफलविवरणपरेऽत्र श्लोके सुखस्यैकान्तिकस्य चेति मोक्षदातृतया तदाश्रयत्वोक्तेरैकान्तिकस्य सुखस्य मोक्षस्येति व्याख्यास्यमानत्वादिति भावः ।। सर्वशास्त्राणां तत्परत्वमिति ।। लोके पौरुषेये वेदे च प्रथित इत्याद्युक्तेरिति भावः ।। द्वितीयेन जगत्सत्यत्वमिति ।। यद्यपि प्राक् व्युत्पादितत्वान्निर्दोषत्वमनन्याधीनत्वं चेति वक्तव्यम् । तथापि प्रथमादिपदेनानुदाहृत प्रमाणस्य स्वीकृतत्वात् । तदनुसारेण द्वितीयादिपदेनोदाहृतप्रमाणाप्राप्तं जगत्सत्यत्वं गृह्यत इत्युक्तम् । उदाहृतप्रमाणाप्राप्तं निर्दोषत्वमनन्याधीनत्वं चोपलक्षणेन टीकायां ग्राह्यम् ।।
भावदीपः
सर्वस्य तदधीनत्वमिति ।। ‘लोकमहेश्वरम्’ इत्यनेनेति भावः ।।
बुद्धिरितीति ।। सर्वस्य तदधीनत्वमिति ।। ‘भवन्ति भावा भूतानां मत्त एव पृथग्विधाः’ इति वाक्यशेषादिति भावः । सप्तर्षय इत्युपक्रम्य ‘एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोविकम्पेन योगेन युज्यते नात्र संशयः ।।’ इति वाक्यशेषे श्रवणादाह ।। निष्कम्पेति ।। करणव्युत्पत्तिमुपेत्याह ।। सर्वशास्त्राणामिति ।। ज्ञानविज्ञानपदयोः शास्त्रार्थत्वेऽपि भगवत्परत्वं कथं लब्धमित्यत उक्तम् ।। भगवदिति ।। ‘यज्ज्ञात्वा’ इत्यर्धेनोक्तेरित्यर्थः । यद्वा ‘येनाश्रुतं श्रुतं भवति’ इत्यादौ भगवज्ज्ञानेनैव सर्वस्य ज्ञातत्वोक्तेरिह च ‘यज्ज्ञात्वा नेह भूयोऽन्यत्’ इत्यादिना ज्ञातत्वोक्तेर्भगवत्परत्वं सर्वशास्त्राणां सिद्धमित्यर्थः ।। प्राधान्योक्तिरिति ।। राजविद्येत्यस्य प्रधानविद्येति व्याख्यानादिति भावः ।। तज्ज्ञानान्मोक्षश्चेति ।। सुखस्यैकान्तिकस्य प्रतिष्टाऽहमित्युक्तेरिति भावः । अन्य इत्युक्तेराह ।। भेद इति ।। उत्तम इत्युक्तेरुक्तमुत्तमत्वमिति । बिभर्तीत्युक्तेराह ।। सर्वस्य तदधीनत्वमिति ।। ‘लोके वेदे च प्रथितः’ इत्युक्तेराह ।। सर्वशास्त्राणामिति ।। बुद्धिमान् कृतकृत्यश्चेत्युक्तेराह ।। तज्ज्ञानान्मोक्षश्चेति ।। असत्यमप्रतिष्ठं त इति ।। तेनासत्यताऽदिवादिनां निन्दया जगत्सत्यत्वावगमादिति भावः ।।
भावप्रकाशः
न मे विदुरित्यनेनेति । सर्वात्मना ज्ञानस्यानुभवसिद्धत्वेन सामान्येन विदुरिति व्याख्याने पूर्णतया ज्ञेयत्वमवगम्यत इति भावः ।। निर्दोषत्वमित्येतदुपपादयति । जन्मादीनां दोषत्वादिति । आदिपदेन जन्मकारणपरिग्रहः । तदुभयाभावश्च अजमनादिमिति पदद्वयेनोक्त इति भावः । बुद्धिरिति सर्वस्य तदधीनत्वमिति । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः । मद्भावा मानसा जाता इति सर्वस्य भगवज्जन्यत्वादिति भावः । अत्र मोक्षो न प्रतीयत इत्यतः सोऽविकंपेन योगेन युज्यते नात्र संशयः इति उत्तरार्धं मनसि निधायाह । निष्कंपयोगस्येति ।। अज्ञानजतमस इति । अज्ञानजन्यदुःखस्येत्यर्थः ।
ज्ञानमिति सर्वशास्त्राणां तत्परत्वादिति । ज्ञायतेऽनेनेति व्युत्पत्याज्ञानपदस्यैव शास्त्रपरत्वादिति भावः । अहमिति सर्वस्य तदधीनत्वमिति सर्वप्रभवप्रलयकर्तृत्वभोक्तृत्वयोरत्र प्रतीतेरिति भावः ।। परतरं मत्तो नान्यं न विद्यत इति योजनां मनसि निधायाह । मत्त इति । सर्वोत्तमत्वमिति । भगवद्विद्यायाः प्राधान्योक्तेरिति । राजेव राजा, राजाचासौ विद्येति भाष्ये व्याख्यातत्वादिति भावः । अथापि सर्वशास्त्राणां तत्परत्वं कुत इत्यत आह । प्रधानानुसारित्वादिति । क्रमेण द्वयमुपपादयति । ततेः प्रेरणार्थत्वादिति । नत्वव्याकृताकाशादिवदिति भावः । नन्वत्र ज्ञानस्यैवोत्तमत्वं प्रतीयत इत्यतः करणव्युत्पत्तिमाश्रित्याह । ज्ञायतेऽनेनेतीति । ननु शास्त्रोत्तमत्वोक्तावपि सर्वशास्त्राणां तत्परत्वसिद्धिः कुत इत्यत आह । अप्रधानस्य चेति । महद्ब्रह्मशब्दवाच्या प्रकृतिः मम योनिः गर्भाधानार्था योनिःभार्येत्यर्थः इति व्याख्यानं मनसि निधायाह । ममेति सर्वस्य तदधीनत्वमिति । अत्र पूर्वोर्धे लक्ष्म्यास्तदधीनत्वमुक्त्वा सम्भवः सर्वभूतानामिति सर्वप्राणिनां लक्ष्म्युत्पन्नत्ववचनादिति भावः । ब्रह्मणो हीति सर्वस्य तदधीनत्वमिति । चतुर्मुखाद्युत्तमलक्ष्म्याः ब्रह्मणो हीति ब्रह्मपदवाच्यत्वादिति भावः । तज्ज्ञानान्मोक्षश्चेति । सुखस्यैकान्तिकस्य चेत्युक्तेरिति भावः । द्वावितीति । द्वावेवेति सम्बन्धः । इमौ प्रमितौ । पुरुषौ चेतनौ । लोके अवलोके पर्यालोचने सति । अथवा द्वावेवेत्यस्योपपत्तये परमपुरुषं व्यावर्तयितुं लोक इत्युक्तम् ।। ईशितव्यवर्ग इत्यर्थः । सर्वाणि भूतानि ब्रह्मादयः जीवाः । कटस्थोमहालक्ष्मीः । यदर्थं पुरुषद्वयनिरूपणं कृतं तदाह उत्तम इति । अन्यः क्षराक्षराभ्यां न पुनरेतयोरेव मध्ये कश्चित्पुरुषोत्तमः कल्पनीयः । तत्र श्रुत्यादिसंमतिमाह । परमात्मेति । आत्मशब्दो हि चेतनपर्यायः । युक्तिमप्याह । य इति । लोकत्रयमिति सर्वोपलक्षणम् । योहि यस्य धारणपोषणकर्ता स तस्मादुत्तमो युक्तः । तदाविष्टस्य तन्नाशे नाशप्रसङ्ग इत्यत उक्तं अव्यय इति । तत्कथमैश्वर्यादित्याह । इश्वर इति ।
स च क इत्यपेक्षायामाह । यस्मादिति । क्षरं चेत्यन्वयः । लोके पौरुषेयागमे । अत्रात्मनस्तात्पर्यद्योतनाय ज्ञातुः फलमाह यो मामिति । एवं नत्वश्वकर्णादिवत्संज्ञात्वेन । एतच्च पुरुषोत्तमत्वमपारमार्थिकमिति संम्मोहवर्जितः । सर्ववित् अस्यैव सर्वशास्त्रार्थत्वात् । सर्वभावेन सर्वप्रकारेण । एतच्च नायोग्याय वाच्यमित्याशयेनाह । इतीति । स सर्वविदित्याद्युक्तम् ।। ततः किमित्यत आह ।। एतदिति । बुद्धिमानपरोक्षज्ञानी कृतकृत्यो मुक्तः इति विष्णुतत्वविनिर्णयटीकादिषु स्वयमेव व्याख्यातत्वादत्र प्रकृतोपयोगमात्रं दर्शयतीति भावः ।। सर्वस्माद्भगवतो भेद इति । अन्य इत्यनेन सर्वोत्तमत्वम् ।। उत्तमः पुरुषः इत्यनेन । सर्वस्य तदधीनत्वम् अन्यत्वप्रतियोगित्वेन । सर्वशास्त्राणां तत्परत्वं सर्वविदित्यनेन । तज्ज्ञानान्मोक्षः कृतकृत्यश्चेत्यनेन ज्ञायते इत्यर्थः । नमे पार्थेति पूर्णत्वमिति । पूर्णकामत्वमित्यर्थः । नानवाप्तमवाप्तव्यं इत्युक्तवादिति भावः । द्वितीयेन जगत्सत्यत्वं गृह्यत इति । आद्यादिशब्देन प्रपञ्चासत्यत्ववादिनां निन्दारूपवचनस्य गृहीतत्वादिति भावः ।
वाक्यविवेकः
न मे विदुरित्यनेनेति । सर्वात्मनाऽज्ञेयत्वस्य प्रमाणबाधितत्वात् प्रभावस्य साकल्येनाज्ञेयत्वमर्थ इति वक्तव्यम् । ततश्च पूर्णमहिमत्वं लभ्यत इति भावः । जन्मादीनां दोषत्वादिति । अजशब्देन पराधीनविशेषावाप्त्यादिरूपसर्वोत्पत्तिराहित्यस्योक्तत्वात् सर्वदोषराहित्यं लभ्यत इति भावः ।। बुद्धिरिति । सर्वस्येति । भवन्ति भावा भूतानां मत्त एव पृथग्विधा इत्यनेन मत्त एव भूतानां एते भावा भवन्तित्युक्तया सर्वस्य तदधीनत्वं लभ्यत इति भावः । एतां विभूतिमित्यनेन ज्ञानान्मोक्षो भवतीत्यर्थः ।। कथं लब्ध इत्यत आह ।। निष्कंपेति ।। एतां विभूतिं योगं वेति श्लोकस्य सोऽविकंपेन योगेन युज्यते नात्र संशय इत्युत्तरार्धज्ञानफलतया विकंपयोगरूपसायुज्यप्राप्तेरुक्तत्वात् तद्ज्ञानान्मोक्ष इत्यर्थो लभ्यते इति भावः ।
ननु अहमज्ञानजं तम इत्यत्र तमोनाशकत्वस्यैवोक्तत्वात् ज्ञानान्मोक्ष इत्यस्य कथं लाभ इत्यत आह ।। अज्ञानजतमस इति ।। संसारनिवर्तकत्वोक्तया सर्वस्य तदधीनत्वमपि लभ्यते इति बोध्यम् । शान्तेर्मोक्षत्वादिति । ज्ञात्वा मां शान्तिमृच्छतीत्युक्तया तद्ज्ञानान्मोक्ष इति लभ्यत इति भावः ।। भगवद्ज्ञानेनेति । यत् ज्ञात्वा अन्यत् ज्ञातव्यं नावशिष्यत इत्यनेन भगवन्तं ज्ञात्वा स्थितस्य ज्ञातव्यं शास्त्रं नास्तीत्युक्तया भगवतः सर्वशास्त्रर्थत्वं लभ्यते । भगवतः सर्वशास्त्रार्थत्वं विना ज्ञातव्यशास्त्राभावाभिधानानुपपत्तेः । भगवतः सर्वशास्त्रार्थत्वे तु तदुपपत्तेरिति भावः । अकार्यत्वोक्तेरिति । उपलक्षणतया यावद्दोषाभावोक्तेरिति भावः । मूले मम योनिरिति । महद्ब्रह्म महालक्ष्मीः । मम योनिः भार्या तस्मिन् महाब्रह्मणि अहं गर्भं दधामीत्यर्थः ।।