श्रीभगवानुवाच
स्वयोग्यतानुगुणं ब्रह्मादिभिः सर्वैः विश्वरूपं दृष्टम्
श्रीभगवानुवाच—
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन न दृष्टपूर्वम् ।। ४७ ।।
तात्पर्यम्
‘विश्वनामा स भगवान् यतः पूर्णगुणः प्रभुः’ इति पाद्मे । ‘त्वदन्येन न दृष्टपूर्वम्’ इत्यनेन तेनैवेन्द्रशरीरेण दृष्टमिति ज्ञायते । त्वदन्येनेति तदवरापेक्षया । तैरपि तद्वन्न दृष्टमित्येव ।
‘विश्वरूपं प्रथमतो ब्रह्माऽपश्यच्चतुर्मुखः ।
तच्छतांशेन रुद्रस्तु तच्छतांशेन वासवः ।
यथेन्द्रेण पुरा दृष्टमपश्यत् सोऽर्जुनोऽपि सन् ।
तदन्ये क्रमयोगेन तच्छतांशादिदर्शिनः’ इति ब्रह्माण्डे ।। ४७ ।।
प्रकाशिका
‘‘तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्व’’मित्यस्यार्थमाह ।। विश्वेत्यादिना ।। ४७ ।।
न्यायदीपिका
भक्तयतिशयोत्पादनाय विश्वरूपदर्शनस्य दौर्लभ्यमुच्यते ।। मयेति ।। तत्र तेजोमयं विश्वमिति विश्वात्मकत्वं भगवद्रूपस्योच्यत इत्यन्यथाप्रतीतिनिरासाय विश्वशब्दं स्मृत्यैव व्याचष्टे ।। विश्वेति ।। यन्मे त्वदन्येन न दृष्टपूर्वमित्यर्जुनेतरैर्विश्वरूपस्यादृष्टत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह ।। त्वदिति ।। नात्र विश्वरूपस्यार्जुनेतरैरदृष्टत्वमुच्यते । अपि तु प्रत्युतेतःपूर्वं केनापि न दृष्टमित्यनुक्त्वा त्वदन्येनेत्युक्तत्वात्तेनैवेतःपूर्वमिन्द्रशरीरेण दृष्टमित्येवोच्यत इत्यर्थः । तर्हि ब्रह्मादिभिरपि न दृष्टमित्यपि नाशङ्कनीयम् । त्वदन्येनेत्यर्जुनादधमविवक्षयोक्तत्वादित्याह ।। त्वदिति ।। नैतावताऽर्जुनाधमैर्न दृष्टमिति कल्पनीयम् । अधमैरप्यर्जुनवन्न दृष्टमित्यभिप्रायेणैवादृष्टत्वस्योक्तत्वादित्याह ।। तैरिति ।। भवेदेवैतद्व्याख्यानं यदि विश्वरूपं ब्रह्मादिभिरिन्द्रेणार्जुनादधमैश्च दृष्टं इन्द्रेण चार्जुनवदेव दृष्टं अर्जुनादधमैस्तद्वन्न दृष्टमित्येतत्सिध्येत्तदेव कुत इत्यत आह ।। विश्वरूपमिति ।। इन्द्रस्याधिकदर्शित्वेऽल्पदर्शित्वे वा विशिष्य त्वयेन्द्रशरीरेण दृष्टमित्युक्तिर्न सम्भवति । आधिक्येऽनुक्तेराधम्ये निषेधस्य चादर्शनात् ।। ४७ ।।
किरणावली
यद्यत्र विश्वरूपस्यार्जुनेतरैरदृष्टपूर्वत्वं नोच्यते तर्हि किमुच्यत इति पृच्छति ।। अपित्विति ।। उत्तरमाह ।। प्रत्युतेति ।। न केवलं तदुक्तयभावमात्रम् । प्रत्युत तेनैव पूर्वमिन्द्रशरीरेण दृष्टमित्यधिकमेवोच्यत इत्यन्वयः । त्वदन्येन न दृष्टपूर्वमित्यस्यार्जुनेतरस्य पूर्वं दर्शननिषेधे न तात्पर्यम् । किंतु त्वयैवेतः पूर्वमिन्द्रशरीरेण दृष्टमित्यत्र तात्पर्यमित्यत्र ज्ञापकमाह ।। इतःपूर्वं केनापि न दृष्टमित्यनुक्त्वात्वदन्येनेत्युक्तत्वादिति ।। केनापि न दृष्टमित्यनुक्त्वा त्वदन्येनेत्यन्यपदप्रयोगमहिम्ना तेनैवेन्द्रशरीरेण दृष्टमित्यधिकार्थलाभेऽपीतरनिषेधस्यापि प्राप्तेरिन्द्रातिरिक्तैर्ब्रह्मादिभिर्न दृष्टमित्यपि प्राप्तमित्याशङ्कापरिहारकत्वेनोत्तरमूलमवतारयति ।। तर्हीति ।। नैतावतार्जुनाधमैरिति ।। प्राय इति पूरणीयम् । प्रतिबन्धकयुक्तानामर्जुनाधमानां दर्शनाभवस्य त्रिलोकेषु स्थितैरित्यादिना व्यवस्थापितत्वात् ।
ननु यथेन्द्रेण पुरादृष्टमपश्यत्सोऽर्जुनोऽपि सन्नित्यत्र यथेन्द्रेण पुरादृष्टं तथैव स इन्द्र अर्जुनोऽप्यर्जुनभावं गतोऽपि सन्नपश्यदिति मूलम् । गीतायां यन्मे त्वदन्येनेत्यत्र त्वयेन्द्रशरीरेण दृष्टमेवोक्तत्वादिन्द्रस्य मूलरूपतयाऽधिकदर्शित्वस्य वा कृष्णस्यार्जुनरूपे विशेषानुग्रहेणार्जुनादल्पदर्शित्वस्य वोपपत्तेरित्यत आह ।। इन्द्रस्येति ।। इन्द्रस्यार्जुनादधिकदर्शित्वेऽल्पदर्शित्वे वाऽधिकदर्शिनां ब्रह्मादीनामल्पदर्शिनां अर्जुनावरणां गुर्वादीनां विद्यमानत्वात् विशिष्य त्वयेन्द्रशरीरेण दृष्टमित्युक्तिर्न सम्भवतीत्यर्थः । कुतो न सम्भवतीत्यत आह ।। आधिक्य इति ।। आधिक्येऽधिकदर्शित्वे सति ब्रह्मादेरत्रानुक्तेर्दर्शनादिन्द्रस्याधिक्ये ब्रह्मादिवदनुक्तिप्रसङ्गादत्र च त्वयेन्द्रशरीरेण दृष्टमित्युक्तत्वात् । आधम्येऽल्पदर्शित्वे अर्जुनावरणामत्र त्वदन्येन त्वदवरेण त्वद्वन्न दृष्टमिति निषेधस्यदर्शनादिन्द्रस्याप्यल्पदर्शित्वे इतः पूर्वं केनापि त्वद्वन्न दृष्टमिति तैः सह निषेधप्रसङ्गादत्र च तथा निषेधाभावात् । प्रत्युत तदन्यस्याधमस्य तद्वद्दर्शननिषेधेन तेनैवेन्द्रशरीरेण तद्वद्दर्शनस्यानिषेधेनोक्तत्वाद्यथेन्द्रेण पुरादृष्टमिति प्रमाणेन व्याख्यानं नोन्मूलमिति भावः ।। ४७ ।।
भावदीपः
त्वयेन्द्रशरीरेण दृष्टमिति विशिष्य कस्मान्नोच्यते किं त्वदन्येत्यादिवक्रोक्त्येत्यत आह ।। इन्द्रस्येत्यादि ।। ४७ ।।
भावप्रकाशः
इत्यर्जुनेतरैरिति । अर्जुनेतरैः कैश्चिदित्यर्थः । प्रत्युतेति ।। न केवलमर्जुनेतरैरदृष्टत्वाभावः । प्रत्युत तेनैव रूपेण दृष्टत्वं चाधिकमुच्यत इत्यर्थः । तर्हि यदि तेनैवेन्द्रशरीरेण दृष्टमित्यर्थः । अर्जुनाधमविश्वरूपयोग्यप्रतिबन्धकशून्यभक्तविवक्षयेत्यर्थः ।। अर्जुनस्य इन्द्रसमदर्शनानङ्गीकारे बाधकं त्वाह । इन्द्रस्याधिकदर्शित्वेऽल्पदर्शित्व इति ।। ब्रह्मादीनामधिकदर्शित्वेन तत्र दर्शनादित्यर्थः ।। आधम्ये निषेधस्येति । अर्जुने धर्मानामल्पदर्शित्वेन तत्र त्वदन्येनेति निषेधदर्शनादित्यर्थः । निषेधस्यार्जुनधर्मविषयत्वं तूदाहृतप्रमाणेन सिद्धमिति भावः ।। ४७ ।।