गीता
बुद्ध्यादयः भगवतो भवन्ति
गीता
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ।। ४ ।।
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ।। ५ ।।
तात्पर्यम्
‘बुद्धिर्बोधनिधित्वात् तदन्तःकरणमुच्यते’ इति शब्दनिर्णये ।। ४५ ।।
प्रकाशिका
बुद्धिर्ज्ञानमित्यत्र पौनरुक्तिमाशङ्क्य बुद्धिशब्दस्यार्थान्तरमाह ।। बुद्धिरिति ।।४।।
न्यायदीपिका
बुद्ध््याूदिप्रदत्वमहिमा चोच्यते ।। बुद्धिरिति ।। तत्र बुद्धिज्ञानशब्दयोरेकार्थत्व मित्यतो बुद्धिशब्दस्यार्थान्तरत्वे स्मृतिमाह ।। बुद्धिरिति ।। भुत् बोधः । तदाश्रयत्वाज्जलधिरिति वत्तज्ज्ञानाश्रयोऽन्तःकरणं बुद्धिरित्युच्यत इत्यर्थः ।। ४,५ ।।
किरणावली
भुत् बोधस्तदाश्रयत्वादिति । बुध अवगमने इत्यतः क्विप् । तस्मिन्नुपपदे दधातेर्घोः किरिति किरिति भावः ।। ४५ ।।
भावदीपः
भुत् बोध इति ।। बुध अवबोधन इत्यतो भावे क्विप् । तदुपपदे दधातेर्घोः किरिति किरिति भावः ।। ४ ।।
वाक्यविवेकः
ननूपसर्गे घोः किरिति वचनात् पदानि उपसर्गाद्वाऽत्र कथं किप्रत्यय इत्यत आह ।। जलधिरितिवदिति ।। कर्मण्यधिकरणे चेति किप्रत्यय इति भावः ।। ४ ।।