गीता
मानुषशब्दार्थनिरूपणम्
गीता
अर्जुन उवाच—
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ।। ५१ ।।
तात्पर्यम्
किञ्चिन्मनुष्यवद् दृश्यमानत्वान्मानुषम् ।। ५१ ।।
प्रकाशिका
‘‘दृष्ट्वेदं मानुषं रूपं’’मित्यत्र मानुषशब्दार्थमाह ।। किञ्चिदिति ।। ५१ ।।
न्यायदीपिका
ननु दृष्ट्वेदं मानुषं रूपमिति कृष्णरूपस्य मानुषत्वोक्तेः कथं नावरत्वमित्यत आह ।। किञ्चिदिति ।। अन्यथोदाहृतवाक्यविरोधः स्यादित्यर्थः ।। ५१ ।।
किरणावली
किंचिन्मनुष्यवदिति मूलस्य मनुष्याल्पसादृश्येन प्रतीयमानत्वादित्यर्थः ।। अन्यथोदाहृतेति ।। अन्यथा परावरविभेद इत्युदाहृतवाक्यविरोधः स्यात् । तस्य निरवकाशत्वान्मानुषमित्यस्योक्तरीत्या सावकाशत्वादिति भावः ।। ५१ ।।
भावदीपः
उदाहृतवाक्येति ।। परापरविभेदस्त्वित्यादि वाक्येत्यर्थः ।। ५१ ।।
भावप्रकाशः
प्रतीत एवार्थः किं न स्यादित्यत आह । अन्यथेति । परावरविभेदस्त्वित्युदाहृतवचनविरोध इत्यर्थः ।। ५१ ।।