गीता

सप्तर्षयः, मनुशब्दवाच्यदेवाः

गीता

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।

मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ।। ६ ।।

तात्पर्यम्

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।

वसिष्ठश्च महातेजाः पूर्वे सप्तर्षयः स्मृताः’ इति ब्राह्मे ।

मनवो बोधवैशेष्याद् देवा ब्रह्मादयः स्मृताः ।

विप्रादिवर्णभेदेन चत्वारो बहवोऽपि ते ।

दीनत्वाद देवनामानस्त्वन्ये ब्रह्मादिनामकाः ।

अवैष्णवकृतो यज्ञो दीनैर्देवैस्तु भुज्यते ।

वैष्णवैस्तु कृतो यज्ञो देवैर्हि मनुनामकैः ।

मरीच्याद्यास्तु तत्पुत्रा मानवा नामतः स्मृताः ।

तत्पुत्रपौत्रा मुनयस्तथा मानवमानवाः ।

तेभ्यो मनुष्या इत्येषा सृष्टिर्विष्णोः समुत्थिता’ इति महाविष्णुपुराणे ।। ६ ।।

प्रकाशिका

‘महर्षयः सप्त पूर्वे चत्वारो मनवस्तथे’त्यस्यार्थमाह ।। मरीचिरित्यादिना ।।६।।

न्यायदीपिका

न केवलं भूतानां बुद्ध्यादिकं मत्तो भवत्यपि तु सर्वभूतानि चेत्युच्यते ।। महर्षय इति ।। तत्र प्रतिमन्वन्तरं सप्तर्षिभेदोक्तेरत्र के विवक्षिता इति चेत्पूर्वमन्वन्तरस्था एव । पूर्व इति विशेषणात् । के च पूर्वमन्वन्तरस्था इत्यतस्तान् स्मृत्यैव दर्शयति ।। मरीचिरिति ।। चतुर्दशमनुषु चत्वारोऽत्र के विवक्षिता इत्यतो न केवलमत्र मनुपदेन प्रसिद्धमनवोऽपि तु सर्वदेवास्तेषां चतुष्ट्वं विप्रादिवर्णविवक्षयेत्यत्र स्मृतिमाह ।। मनव इति ।। मनु अवबोधन इति धातोर्बोधवत्त्वान्मनव इत्युक्ते बोधस्य सर्वप्राणिसाधारणत्वात्को विशेषो देवादीनामित्यतो बोधवैशेष्यादित्युक्तम् । ननु देवा इति वा ब्रह्माद्या इति वा प्रसिद्धप्रयोगं विहाय किमप्रसिद्धप्रयोगेणेत्यत आह ।। दीनत्वादिति ।। देवादिशब्दानामसुरसाधारणत्वान्मनुशब्दस्यैव देवेष्वसाधारणत्वात्तस्यैव प्रयोग इति भावः । द्विविधदेवानां कुत्र विनियोग इत्यत आह ।। अवैष्णवेति ।। एतेनैव एषां लोक इमाः प्रजा इत्यस्याप्यभिप्रायो वर्णितो भवति ।। ६ ।।

किरणावली

पूर्वमन्वन्तरस्था इति ।। प्रवर्तमानस्य चतुर्मुखाह्नः प्रथममन्वन्तरस्था इत्यर्थः । के विवक्षिता इत्यत इत्यनन्तरं प्रसिद्धमनवः स्वायंभुवस्वारोचिषरैवतोत्तमाख्या भाष्योक्ता विवक्षिता इति पूरणीयम् । ततः परं न केवलमित्यादि योज्यम् ।। विप्रादिवर्णविवक्षयेति ।। वर्णाभिमानिविवक्षयेत्यर्थः । सर्ववर्णाः सर्वाश्रमा इति श्रुतेस्तेषां वर्णनियत्यभावात् । तदुक्तं बृहद्भाष्ये ।

विष्णोर्ब्राह्मणजातिः सन् जज्ञे ब्रह्माचतुर्मुखः ।

वायुः सदाशिवोऽनन्तो गरुडः शक्र एव च ।

कामश्च वरुणश्चैव सोमस्सूर्यो यमस्तथा ।

एवमाद्याः क्षत्रियास्तुदेवानां ब्रह्मनिर्मिताः ।

विवस्वदिन्द्रवरुणविष्णुभ्योन्येऽदितेःसुताः ।

रुद्रादन्ये तथारुद्राः वायोरन्येचवायवः ।

अग्नेरन्येच वसवो वैश्या इत्येव कीर्तिताः ।

अश्विनौ पृथिवी चैव काला मृत्यव एव च ।

शूद्रदेवास्समुद्दिष्टा देववर्णा इति स्मृताः । ब्रह्माग्निना सहैवास्त इति ।। एतेनैवेति ।। मरीच्याद्यास्तुतत्पुत्रा इति स्मृतिशेषेणेत्यर्थः । मरीच्याद्यास्तु तत्पुत्रा इत्यत्र ब्रह्मादिपुत्रा मरीच्याद्या मुनय इति योज्यम् । देवादीनां मनुनामकत्वेन मानवानां मुनित्वौचित्यात्तत्पुत्रपौत्रा मुनय इति प्रकरणाच्च । वशिष्ठस्य ब्रह्मणो मित्रावरुणाभ्यां च भृगोर्ब्रह्मणो वरुणाच्चेत्येवमन्येभ्यो जातत्वाद्ब्रह्माहिपुत्रा इति युक्तम् । तत्पुत्रपौत्रामरीच्यादिपुत्रपौत्रा मुनयः कश्यपाद्या इत्यर्थः ।। ६ ।।

भावदीपः

प्रसिद्धमनव इति ।। स्वायंभुवस्वारोचिषरैवतोत्तमाख्याः प्रसिद्धमनव इत्यर्थः ।। विप्रादिवर्णविवक्षयेति ।। देवेषु केचित् ब्राह्मणाः, केचन क्षत्रियाः, केचन वैश्याः, केचन शूद्रास्सन्तीति तद्विवक्षया चतुष्ट्वमित्यर्थः । व्यक्तमेतच्चातुर्विध्यं वाजसनेयभाष्ये प्रथमेऽध्याये ‘‘विष्णोर्ब्राह्मणजातिस्सन् जज्ञे ब्रह्मा चतुर्मुख’’ इत्यादिनेति ज्ञेयम् ।। एतेनैवेति ।। मरीच्याद्यास्त्वित्यादिस्मृतिशेषोदाहरणेनेत्यर्थः ।। ६ ।।

भावप्रकाशः

पूर्वमन्वन्तरस्था इति । इदानीं प्रवर्त्तमानस्याह्नः प्रथममन्वन्तरस्था इत्यर्थः ।। चत्वारः प्रथमाः स्वायंभुवाद्या इति भाष्यानुसारेणाह ।। न केवलमत्रेति ।। विप्रादिवर्णविवक्षयेति ।

विष्णोर्ब्राह्मणजातिः सन् ब्रह्मा जज्ञे चतुर्मुखः ।।

वायुः सदाशिवोऽनन्तो गरुडः शक्र एव च ।।

कामश्च वरुणश्चैव सोमसूर्यो यमस्तथा ।

एवमाद्याः क्षत्रियास्तु देवानां ब्रह्मनिर्मिताः ।।

विवक्ष्वदिन्द्रवरुणविष्णुभ्योऽन्ये दितेः सुताः ।।

रुद्रादन्ये तथा रुद्रो वायोरन्येच वायवः ।।

अन्यग्ने रन्येच वसवो वैश्या इत्येव कीर्त्तिताः ।।

अश्विनौ पृथिवी चैव कालो मृत्यव एव च ।।

शूद्रदेवाः समुद्दिष्टा देववर्णा इति स्मृताः ।।

ब्रह्माग्निना सहैवास्त इति बृहद्भाष्योक्तो विप्रादिवर्णभेदो द्रष्टव्यः ।। ६ ।।