गीता

गीता

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।

आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ।। १७ ।।

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।

न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ।। १८ ।।

तात्पर्यम्

तृप्तिसन्तोषशब्दयोः पर्यायत्वेऽपि परमात्मना तृप्तः परमात्मनि तृप्त इति विशेषः ।

विष्णुप्रसादाद्रतिमांस्तृप्तो विष्णुप्रसादतः ।

विष्णावेवातितृप्तश्च मुक्तोऽसौ विध्यगोचर’ इत्याग्नेये ।

रतिरानन्द उद्दिष्टस्तृप्तिस्तु कृतकृत्यता ।

प्रीतिस्तु द्विविधः स्नेहः कर्मजो निज एव चेत्’ इति शब्दनिर्णये ।

सन्तोषस्तृप्तिरापूर्तिः प्रीतिः पर्यायवाचका’ इत्यभिधानम् ।। १७ ।।

प्रकाशिका

यस्त्वित्येतं श्लोकं व्याचष्टे ।। तृप्तीत्यादिना ।। उपकारजः स्नेहः कर्मजः ।।१७।।

न्यायदीपिका

कर्म कर्तव्यमित्यत्र युक्त्यन्तरमुच्यते ।। यस्त्विति ।। तत्र सन्तोषस्तृप्तिरापूर्तिरित्यादेस्तृप्तिसन्तोषशब्दयोरेकार्थत्वादात्मतृप्त इत्युक्तत्वादात्मन्येव च सन्तुष्ट इति पुनरुक्तिरित्यत आह ।। तृप्तीति ।। विशेषोऽर्थ इति शेषः । कुत एवमर्थकल्पनेत्यतः श्लोकं स्मृत्यैव व्याचष्टे ।। विष्ण्विति ।। एवं तृप्तिसन्तोषशब्दयोरेकार्थत्वमङ्गीकृत्य विग्रहभेदेनार्थभेद उक्तः । अथ तृप्तिसन्तोषशब्दयोरेवार्थभेदाच्च न पुनरुक्तिरिति भावेन तयोरर्थभेदे प्रमाणमाह ।। रतिरिति ।। आनन्दः स्वरूपभूतः । कर्मज उपकारादिजातः । रतितृप्तिप्रीतिशब्दानां भिन्नार्थत्वे किमायातं तृप्तिसन्तोषशब्दयोरर्थभेदे इत्यतः प्रीतिसन्तोषशब्दयोः पर्यायत्वात् तृप्तिप्रीतिशब्दयोरर्थभेदे तृप्तिसन्तोषशब्दयोरर्थभेदः सिद्ध एवेति भावेन तत्पर्यायत्वे प्रमाणमाह ।। सन्तोष इति ।। पर्यायवाचकाः पर्यायेण वाचकाः ।। १७,१८ ।।

किरणावली

विष्णुप्रसादाद्रतिमानिति मूलस्यायमर्थः । आत्मना परमात्मना तत्प्रसादाद्रतिरानन्दो यस्य स आत्मरतिरिति भावेनोक्तं विष्णुप्रसादाद्रतिमानिति । आत्मना प्रसन्नेन विष्णुना तत्प्रसादत इति यावत्तृप्तोऽन्यत्रालम्बुद्धिं प्राप्त इति भावेनोक्तं विष्णुप्रसादतस्तृप्त इति । नन्वन्यत्रालंबुद्धौ किं कारणं प्रसादस्येश्वरनिष्ठसाधनत्वेऽपि स्वनिष्ठस्य साधनस्य वक्तव्यत्वादित्यत आत्मन्येव च सन्तुष्ट इति सन्तोष शब्दितभगवद्दर्शननिमित्तसुखस्यैव तत्कारणत्वमिति भावेनोक्तं आत्मन्येव च सन्तुष्ट इति । परमसुन्दरे परमाश्चर्यरूपे निरवधिकानन्दभोजके परमात्मन्येव स्थितस्तद्दर्शनादिरूपस्थितिं प्राप्त इति हेतोरन्यत्र सन्तुष्टोत्यलम्बुद्धिं प्राप्त इत्यर्थ इति भावेनोक्तं विष्णावेवातितृप्तश्चेति । भाष्ये तु आत्मतृप्त इत्युक्तान्यत्रालम्बुद्धौ कारणत्वेनात्मरतिपदेनोक्तं भगवद्दर्शनादिसुखं हेतुत्वेनात्मन्येव च संतुष्ट इति सन्तोषपदेनोच्यत इति व्याख्यातं बोध्यम् ।।

आनन्दः स्वरूपभूत इति ।। केवलभगवद्दर्शनप्रादुर्भूतः न तु विषयभोगव्यंग्य इत्यर्थः । तस्यैवान्यत्रालंबुद्धिहेतुत्वादिति भावः ।। तत्पर्यायत्वे प्रमाणमाहेति ।। प्रीतिसन्तोषशब्दयोरपि पर्यायत्वमापन्नमिति चेन्न । अलंबुध्द्यर्थतया पर्यायत्वेनार्थाभेदस्य प्रागुक्तत्वेनेष्टत्वात् । प्रीतिशब्दस्य स्नेहवाचकत्वस्योक्तवात् । तत्पर्यायसन्तोषशब्दपर्यायत्वं च तृप्तिशब्दस्य प्रसज्यत इति चेन्न । तस्यापीष्टत्वात् । पर्यायाणामेतेषां शब्दानां नानार्थकत्वोपपत्तेः । तर्हि तृप्तिशब्दस्य स्नेहार्थकत्वपाप्त्या सन्तोषशब्देनार्थभेदप्रसङ्ग इति चेत् पौनरुक्तयप्रसङ्गेनेह तृप्तिस्तु कृतकृत्यतेति शब्दनिर्णयमनुसृत्यार्थान्तरोपपत्तेरिति भावः ।। पर्यायवाचका इति ।। क्रमिकप्रयोगेनैव वाचकाः सह प्रयोगानर्हा इति यावत् ।। १७,१८ ।।

भावप्रकाशः

एवमज्ञानिनः कर्म कर्त्तव्यमित्युक्तम् ।। इदानीं ज्ञानिनः कर्त्तव्याभावमाहेति परव्याख्यानमसदिति भावेन सङ्गतिमाह । कर्म कर्तव्यमित्यत्रेति । तत्पर्यायत्व इति ।। प्रीतिसन्तोषशब्दयोः पर्यायत्व इत्यर्थः ।। नन्विदं शान्तिके कर्मणि बेतालोत्थापनमिव यावता प्रीतिसन्तोषशब्दयोरपि पर्यायत्वसिद्धमर्थमुदाहरताभिधानेन तृप्तिसन्तोषशब्दयोरपि पर्यायत्वापत्या अर्थभेदानु पपत्तिरिति चेन्न । यत्किञ्चिदर्थमादाय पर्यायत्वेऽपि प्रीतिस्तु कृतकृत्यतेति उक्तरीत्याऽर्थभेदोपपत्तेरिति । पर्यायेण वाचका इति ।। भिन्नाभिन्नवाक्यनिष्टत्वेनैवार्थवाचका इत्यर्थः ।। एकार्थवाचका इति भावः

।। १७१८ ।।

वाक्यविवेकः

पर्यायेण वाचका इति । एकस्यैवार्थस्येति शेषः गच्छति पश्यतीत्यादिपदानां पर्यायेण स्वस्वार्थवाचित्त्वेपि न पर्यायत्त्वमिति भावः ।। १७,१८ ।।