गीता
गीता
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ।। १३ ।।
तात्पर्यम्
अनादीत्युक्ते स्वयं कारणं न भवतीत्याशङ्का स्यादिति तन्निवृत्त्यर्थं ‘अनादिमत्’ इत्याह ।
‘मुख्यतो गुणपूर्णत्वात् परं ब्रह्म जनार्दनः ।
मूर्तामूर्तव्यतीतत्वान्न सन्नैवासदुच्यते’ इति च ।
‘मूर्तं सदवगम्यत्वादज्ञेयत्वादसत् परम् ।
पुंसामर्थ्यादगम्यत्वात् सर्ववेदप्रसिद्धितः ।
विलक्षणः सदसतोर्भगवान् विष्णुरव्ययः’ इति च ।। १३ ।।
प्रकाशिका
अज्ञेयत्वादसत्परमित्यस्य चक्षुरादिभिरज्ञेयत्वात् । अमूर्तमसदुच्यते इत्यर्थः
।। १३ ।।
न्यायदीपिका
नन्वनादिमत्परं ब्रह्मेत्यत्रानादीत्येतावता पूर्णत्वादनादिमदिति किमर्थमुच्यत इत्यत आह ।। अनादीति ।। न चात्र भाष्यविरोधः । तत्रोक्तस्य मतुपो मुख्यार्थस्यानङ्गीकारे भाष्ये दोषस्योक्तत्वात् । अत्र पुनस्तमङ्गीकृत्यैव प्रयोजनान्तरं मतुपा चिनोतीति । परं ब्रह्म न सत्तन्नासदुच्यत इत्येतत्प्रमाणवाक्येनैव व्याचष्टे ।। मुख्यत इति ।। कथं मूर्तामूर्तयोः सदसच्छब्दवाच्यत्वं कथं च भगवतस्तद्विलक्षणत्वमित्यत आह ।। मूर्तमिति ।। परं अमूर्तम् ।। १३ ।।
किरणावली
अनादीत्येतावता पूर्णत्वादिति ।। आदिरस्यास्तीत्यादिमत् । न आदिमदनादिमदिति व्याख्यानमयुक्तम् । न विद्यते आदिरस्येत्यनादीति बहुव्रीह्याश्रयणेनैव लाभान्मतुपो वैयर्थ्यादित्यर्थः । अनादीत्युक्ते स्वयं कारणं न भवतीति शङ्का स्यादिति तन्निवृत्त्यर्थमनादिमदित्याहेति मूलस्यायमर्थः । आदिरस्यास्तीत्यादिमत् न आदिमदनादिमदिति नञ्समास एवाश्रीयते । न च बहुव्रीहिणैवास्यार्थस्य लाभान्मतुपो वैयर्थ्यम् । अनादीत्येवोक्ते न विद्यते आदिः कारणं यस्येति । बहुव्रीहिर्वा आदिः कारणं न भवतीत्यनादीति । नञ् तत्पुरुषो वायमित्याशङ्कासंशयः स्यात् । न चादिशब्दस्य नित्यपुल्लिङ्गत्वात् । नञ् तत्पुरुषपक्षे नादिरिति स्यादिति वाच्यम् । वैदिकं लिङ्गव्यत्ययं विभक्तिलोपं वा मन्यमानस्य संशयोपपत्तेः । तथा च ब्रह्म स्वयं कारणं न भवतीत्यपि शङ्का स्यात्तन्निवृत्त्यर्थं मतुबन्तेनादिशब्देन नञ्समासमाश्रित्यानादिमदित्याहेति । नन्वनादिमदित्यस्यादि रस्यास्तीत्यादि मत् तन्न भवतीत्यनादिमदित्यर्थमुपेत्योक्तरीत्याऽन्यथाप्रतीतिनिरासाय मतुपः सार्थक्योक्तौ भाष्यविरोधः । तत्रादिमद्देहादिवर्जितमनादिमदिति स्वयमर्थमुक्त्वान्यथानादीत्येव स्यादित्यत्रादिः कारणमस्यास्तीत्यादिमत्तन्न भवतीत्यनादिमदित्यर्थाङ्गीकारे मतुपो वैयर्थ्यमस्यार्थस्य न विद्यते आदिः कारणं यस्येति बहुव्रीहिणैवोपपत्तेरिति दूषितत्वादित्यत आह ।। न चात्रेति ।।
कुतो न विरोध इत्यत आह ।। तत्रेति ।। भाष्ये मतुप उक्तस्यार्थस्यादिरेषामस्तीत्यादिमन्तिशरीरेन्द्रियादीनि न विद्यन्ते आदिमन्ति यस्य तदनादिमदिति मुख्योऽर्थः । अस्मिन्विग्रहे देहेन्द्रियगुणादीनामपि कारणशून्यत्वज्ञापनेन महाप्रयोजनसिद्धेरेवं प्रयोजनविशेषमनादृत्योक्तस्य मुख्यार्थस्यानङ्गीकारे उपलक्षणमेतत् । अनादीत्युक्ते स्वयं कारणं न भवतीत्याशङ्का स्यात् । तन्निवृत्त्यर्थमनादिमदित्याहेत्यत्रोक्तप्रयोजनं चानभिधाय आदिरस्यास्तीत्यादिमत् न आदिमदनादिमत्केवलं स्वरूपतः कारणशून्यत्वमात्रमर्थः । श्लोकपूरणार्थं मतुपः प्रयोग इत्यङ्गीकारे चेति ग्राह्यम् । तथा चोक्तं प्रमेयदीपे । येत्वेवं प्रयोजनमनभिधाय मतुपः प्रयोगः श्लोकपूरणार्थ इत्युक्तवन्तस्तान्निराचष्टे ।। अन्यथेति ।। अस्मदुक्तप्रयोजनद्वयानङ्गीकार इत्यर्थः । सार्थकेण शब्दान्तरेण श्लोकपूरणसम्भवादिति भाव इति । कथं तर्ह्यत्र स्वरूपानादित्वार्थपरतया मुख्यग्रहणमित्यत आह ।। अत्र पुनरिति ।। पुनः शब्दोऽप्यर्थे न केवलमनादिमदित्यस्य स्वयं कारणशून्यत्वलक्षणमर्थः । अपि त्वादिमद्देहादिवर्जितमिति भाष्योक्तं मुख्यमप्यर्थमङ्गीकृत्यैव तस्य मतुपः स्वयं कारणं नेति चोद्यनिवृत्तिरूपं प्रयोजनान्तरमन्वाचिनोति । अनास्थयोपादत्त इत्यर्थः । नञ्तत्पुरुषपक्षे छान्दसो लिङ्गव्यत्ययो वा विभक्तिलोपो वाश्रयणीयः । अन्यथादिशब्दस्य नित्यपुल्लिङ्गतया नादिरिति स्यादतो नास्थयोक्तशङ्कानिवृत्तिरूपं प्रयोजनान्तरमुपादत्त इति भावः । मूर्तं सदवगम्यत्वादिति मूले सदेर्गत्यर्थत्वादवगम्यत्वादित्युक्तम् । अवगम्य मूर्तवैलक्षण्योप पादनं पुंसामर्थ्यादिति । अनवगम्यवैलक्षण्यस्योपपादनं सर्ववेदेति ।। १३ ।।
भावदीपः
केन साधनं केन ज्ञप्तिरुच्यत इत्यतस्तद्विवेचयन्नेव मूलमवतारयति ।। नन्वित्यादिना ।। न चात्रेति ।। आदिमन्न भवतीत्यनादिमदित्यभिप्रेत्यानादीत्यादीना मूलोक्तार्थेऽन्यथानादीत्येव स्यादिति भाष्ये विरोध इत्यर्थः ।। तत्रेति ।। आदिमन्न भवतीत्यनादिमदिति विग्रहाङ्गीकारेण कारणोपेतं नेत्यर्थस्वीकारे न विद्यते आदिः कारणं यस्येति बहुव्रीह्याश्रयेणैवास्यार्थस्य सिद्धेर्मतुपो वैयर्थ्यं स्यादित्युक्तेस्तद्विरोध इत्यर्थः ।। तत्रोक्तस्येति ।। आदिरेषामस्तीत्यादिमन्ति देहेन्द्रियगुणकर्माणि । न विद्यन्ते आदिमन्ति यस्य तदनादिमदित्युक्तस्य मुख्यार्थत्वस्येत्यर्थः । दोषस्येति ।। मतुपो वैयर्थ्यदोषस्येत्यर्थः ।। तमङ्गीकृत्येति ।। वैयर्थ्यदोषमङ्गीकृत्य आदिः कारणं न भवतीत्यनादीति नञ्तत्पुरुषाश्रयेण स्वयं कारणं नेति चोद्यनिवृत्तिरूपं प्रयोजनमन्वाचिनोति । अनास्थायोपादत्ते इत्यर्थः। चार्थयोरन्वाचयसमुच्चययोरन्वाचयरूपार्थो न समुच्चयरूपः । अनादीत्युक्तावपि न विद्यते आदिः कारणं यस्येति बहुव्रीहिणा स्वस्य कारणं नेत्यर्थो लभ्यते । नञ्तत्पुरुषपक्षे तु छान्दसलिङ्गव्यत्ययो वा विभक्तिलोपो वा आश्रयणीयः । अन्यथाऽऽदिशब्दस्य नित्यपुल्लिङ्गतयाऽनादिरिति स्यात् । अतोऽनास्थयोक्तशङ्कानिवृत्तिरूपं, प्रयोजनलाभमङ्गीकरोत्यादिमन्नेति विग्रहाश्रयणम् । वस्तुतस्तु भाष्योक्तार्थ एव तात्पर्यमिति भावः ।। इत्येतदिति ।। परब्रह्मादिशब्दजातमित्यर्थः ।। उक्तत्वादिति ।। दशमे ।।१३।।
भावप्रकाशः
ननु भाष्ये आदिमद्देहादिवर्जितमनादिमदिति व्याख्यायान्यथानादीत्येव स्यादित्यनेनास्य पक्षस्य दूषितत्वात्तद्विरोध इत्यत आह । न चात्र भाष्यविरोध इति । मुख्यार्थस्यानङ्गीकार इति । उपलक्षणमेतत् । भाष्योक्तं मतुपो मुख्यार्थमत्रोक्तप्रयोजनं चानङ्गीकृत्य श्लोकपूरणार्थं मतुपः प्रयोग इत्यङ्गीकार इति द्रष्टव्यम् ।। प्रमाणान्तरं चेति । स्वयमेवात्मनात्मानमित्यनेनैकस्य प्रमाणस्योक्तत्वात् प्रमाणान्तरं चेत्युक्तमिति भावः । स्वतन्त्रवेत्तेति ।। १३ ।।