गीता
गीता
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ।। १६ ।।
तात्पर्यम्
‘नियमाज्जन्मनोऽभावो मुक्तस्यैव तथाऽपितु ।
महर्लोकमतीतानां न जन्मांशलयौ विना ।
तत्राप्यवश्यं तत् स्थानं तैः क्षिप्रं पुनराप्यते’ इति पाद्मे ।। १६ ।।
प्रकाशिका
‘‘अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति’’ इत्यस्यार्थमाह ।। नियमादिति ।। महर्लोकमतीतानां पुरुषाणां कार्त्स्न्येन पुनर्जन्म न विद्यते । किंतु अंशेनाभिजननं लयश्च ब्रह्मलये विद्यते । भुवि जातैरंशैर्जनलोकादिषु स्वमूलरूपस्थानमवश्यं प्राप्यत इत्यर्थः ।। १६ ।।
न्यायदीपिका
ब्रह्मादीन् प्राप्तानामपि पुनर्जन्माभावात्किं विशिष्याभिधीयते मामुपेत्य पुनर्जन्म नाप्नुवन्तीति अत उच्यते ।। आब्रह्मेति ।। तत्राजनान्न जनिर्भुवीति वचनाज्जनलोकादिस्थितानामपि जन्माद्यभावात्कथं ब्रह्मभवनमारभ्य पुनरावृत्तिरुच्यत इत्याशङ्कां स्मृत्यैव परिहरति ।। नियमादिति ।। अत्र जन्मपदं मरणस्याप्युपलक्षकम् । अंशलयाविति । अशेन भूमौ जननं लयान्ते च जननं तदादौ मरणं चेत्यर्थः । अंशस्य मरणं चास्तीत्याह ।। तत्रापीति ।। अंशतोऽवतीर्णत्वेऽपि तैरंशैरंशिस्थानमाप्यत इत्यर्थः । अनेन जनादौ जननाद्यभावेऽपि नैतदयुक्तम् । मुक्तस्यैव मुख्यतया जननाद्यभावाज्जनादावल्पजननादिभावादेतद्वाक्यस्य च तदर्थत्वादित्युक्तं भवति ।। १६ ।।
किरणावली
कार्यं बादरिरित्यादिषु कार्यं ब्रह्मप्राप्तानामपुनरावृत्त्युक्तेरिति भावः । आजनान्नजनिरित्यस्य जनलोकमारभ्य तदूर्ध्वं स्थितानामित्यर्थः ।। जनलोकादिस्थितानामपीति ।। सत्यलोकादर्वाक्तनजनलोकतपोलोकस्थितानामपीत्यर्थः ।। ब्रह्मभवनमारभ्येति ।। सत्यलोकाख्य ब्रह्मभवनमारभ्यार्वाक्जनलोकस्थितानामित्यर्थः । अंशलयौ विनेत्याद्यनुसारेणाह ।। अत्रेति ।। जन्मनोभाव इति षष्ठ्यन्तं जन्मपदम् । न जन्मेति प्रथमान्तं च जन्मपदमित्यर्थः । ततश्चायं मूलार्थः । यद्यपि मुक्तस्यैव लिङ्गभङ्गेन परं ब्रह्म प्राप्तस्यैव नियमादनावृत्तिः शब्दान्न च पुनरावर्तत इति शास्त्रोक्तनियमात्पुनर्जन्मनो मरणस्य च मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यत इत्युक्तरीत्या तु विशेषाकारेणाभावस्तथापि तु शब्दोप्यर्थेच महर्लोकमतीतानामपि पुनर्जन्ममरणं च नास्तीत्यर्थः । जनादिगतानामपि जन्ममरणाभावे भगवन्तं प्राप्तानां को विशेषः । कथं चा ब्रह्मभवनादिति ब्रह्मभवनमारभ्यार्वाक्तनलोकगतानां पुनरावृत्त्युक्त्यविरोधः । विषयभेदानिरूपणादित्यत उक्तमंशलयौ विनेति । तदनूद्य तात्पर्यमाह ।। अंशलयावितीति ।। महर्लोकमतीतानामंशिनां वाय्वादिदेवानां भीमाद्यंशेन भूमौ जननं ब्रह्मलयांते च वायुभारतीरुद्रपार्वतीनां ब्रह्मादित्वेन जननम् । सर्वेषां लयोपक्रमे मरणं चास्तीति तात्पर्यार्थ इत्यर्थः । तथा चेयमक्षरयोजना । महर्लोकमतीतानां जनादिनिवासिनां अंशतोऽवतारसद्भावेप्यंशं विना सामस्त्यरूपेण न भूमौ जन्म लयान्तेऽष्टमभागे पुनर्जन्मसद्भावेपि लयं विना न जन्म लयोपक्रमे मरणसद्भावेपि लयं विना प्राङ् न मरणमिति । तत्रापीत्यस्यार्थः अंशतोऽवतीर्णत्वेपीति । ननु जनादावपि जननाद्यभावाङ्गीकारे मुक्तस्यैवापुनरावर्तनमिति विशेष इत्येतदयुक्तम् । आब्रह्मभवनादिति चायुक्तं विरोधादिति चोद्यस्य किमनेन मूलवाक्येनोत्तरमुक्तमित्यत आह ।। अनेनेति ।। नैतदयुक्तमित्यत्रैतदित्यस्य मुक्तस्यैव विशेष इत्येतदाब्रह्मभवनादिति जनादीनां पुनरावृत्तिवचनं चेत्यर्थः । कुतस्तदुभयं नायुक्तमित्यतः क्रमेणैवोपपादयति ।। मुक्तस्यैवेति ।। अल्पजननादीति ।। सामस्त्येन जन्ममरणयोरभावादंशेन जननं मरणं चाल्पजननादि तथांशिन एव लयान्ते जनने तदुपक्रमे मरणे च सति तयोः कादाचित्कत्वादल्पं जननादीत्यर्थः ।। एतद्वाक्यस्येति ।। आब्रह्मभवनादिति वाक्यस्येत्यर्थः
।। १६ ।।
भावदीपः
आब्रह्मभवनादित्यस्यार्थानुवादो ब्रह्मभवनमारभ्येति । सत्यलोकगतब्रह्मभवनस्य जनलोकादुपरितनत्वादिति भावः ।। अनेनेति ।। स्मृतिवचनेनेत्यर्थः ।। नैतदयुक्तमिति ।। आब्रह्मभवना त्पुनरावर्ति न इत्येतदयुक्तं नेत्यर्थः ।। अल्पजननादीति ।। कार्त्स्न्येन जननमृत्योरभावेऽप्यंशेन तयोर्भावादित्यर्थः ।। एतद्वाक्यस्य चेति ।। आब्रह्मभवनादिति वाक्यस्य च तदर्थत्वादंशेन पुनरावर्ति न इत्यर्थकत्वात् । यद्वा आजनान्न जनिर्भुवीत्येतद्वाक्यस्य च कार्त्स्न्येन जनिरूपमुख्यजनिर्नास्तीत्यर्थः ।। १६ ।।
भावप्रकाशः
तत्राप्यवश्यमित्युत्तरवाक्यानुसारेणाह ।। अत्र जन्मपदमिति । निजयमाज्जन्मनो भाव इत्यत्र न जन्मेत्यत्र चेत्यर्थः ।। अंशेन भूमौ जननमिति । अंशशब्दे भूमौ जननं लयशब्देन तु लयान्ते जननं तदादौ मरणं चोपलक्ष्यते इति भावः ।। अत्रांशशब्देनांशेन मरणानुपलक्षणं तु तस्य तत्रापीति । अनेन जनादाविति । तदर्थत्वादिति । अल्पजननाद्यर्थत्वादित्यर्थः ।। १६ ।।
वाक्यविवेकः
अंशस्य मरणं चास्तीत्याहेति ।। भूमौ उत्पन्नस्यांशस्य शीघ्रमेव मरणं भवति नतु बहुकाले अत्रैव स्थितिर्भवतीति भावेनाहेत्यर्थः ।। १६ ।।