गीता
गीता
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ।। २७ ।।
तात्पर्यम्
तस्मान्नात्राश्चर्यबुद्धिः कर्तव्या ।। २७२८ ।।
न्यायदीपिका
जनन मरणनियमोऽत्र शोकनिवारणे हेतुतयोक्तः स्फुटं प्रतियते । प्रागभिप्रेते जीवस्यास्वातंत्र्ये च हेतुतयाभिमत इति भावेनाह ।। तस्मादिति ।। तस्माज्जननादिनियमवत्त्वादेव । अत्र जीवे स्वातन्त्र्यबुद्धिश्च न कार्येत्यर्थः ।। २७ ।।
किरणावली
आश्चर्यबुद्धिरित्यस्यार्थमाह ।। स्वातन्त्र्यबुद्धिरिति ।। तादृशान्यरहित आश्चर्यः । त्वं धन्यस्त्वमाश्चर्य इत्यस्य भारततात्पर्यनिर्णये सर्वोत्तमस्त्वं त्वादृशो नास्ति कश्चिदित्यनुपमार्थत्वेन व्याख्यातत्वात् । यस्मान्नैतादृश इति वक्ष्यमाणत्वाच्च । भाष्येप्याश्चर्यवदिति दुर्लभत्वेनेत्यर्थ इत्युक्तत्वाच्च । तादृशान्यरहितश्च स्वतन्त्र एव । तत्सद्भावे तद्वशीकरणसामर्थ्याभावेनास्य स्वेच्छानुसारित्वायोगादिति भावः ।। २७ ।।
भावदीपः
अथ चेदिति श्लोके शोको न कार्य इत्यत्र को हेतुरुक्त इत्यतस्तं वदन् स हेतुरन्यत्रापि प्रवर्तत इति मूलार्थमाह ।। जननमरणनियमोऽत्रेति ।। अथ चेदिति श्लोक इत्यर्थः । यद्वाऽत्रेति अथ चेदिति श्लोके तद्विवृत्तिपरोत्तरश्लोकद्वये चेत्यर्थः ।। प्रागिति ।। ‘नित्यः सर्वगतस्थाणुः’ इत्यादावित्यर्थः ।।
भावप्रकाशः
आश्चर्यबुद्धिरित्यस्यार्थमाह । स्वातन्त्र्यबुद्धिश्चेति ।। २७ ।।
वाक्यविवेकः
आश्चर्यपदार्थमाह । स्वातन्त्र्येति ।। २७ ।।