गीता

अष्टमोऽध्यायः

गीता

अर्जुन उवाच—

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।

अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ।। १ ।।

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।

प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ।। २ ।।

तात्पर्यम्

उक्तव्याख्यानपूर्वकं ब्रह्मप्राप्तिरुच्यते । तदिति विशेषणात् ब्रह्मेत्युक्तमन्यदेव प्रकृत्यादीनां मध्ये किञ्चित्; उपरि ‘साधियज्ञं च’ इति चशब्दादधिभूतादिसहितत्वेन विष्णुज्ञानमन्यदेवेति संशयः ‘किं तद् ब्रह्म’ इति प्रश्नकारणम् ।। १,२ ।।

प्रकाशिका

एतदध्यायप्रतिपाद्यं दर्शयति ।। उक्तेति ।। गताध्याये ‘ते ब्रह्म तद्विदुरि’त्यादिनोक्तम् । तत् स्पष्टीकर्तुमिष्यन् ‘किन्तद्ब्रह्म किमध्यात्म’मित्यत्र ब्रह्मत्वस्यासम्भावितत्वमाशङ्क्य परिहरति ।। तदित्यादिना ।। ‘ब्रह्म तद्विदुरि’त्यत्र तदिति विष्णुगुना निर्दिष्टत्वात् मां ब्रह्म विदुरिति निर्देशाभावात् । उत्तरवाक्ये ‘साधिभूताधिदैवं मां साधियज्ञं च ये विदु’रित्यत्राधिभूतादिसहितं मां च विदु’रिति ततोऽन्यत्वेन विष्णोर्निर्देशात् । अत्र विष्णोरन्यद्ब्रह्म प्रतीयते ।। वासुदेवात्मकं ब्रह्मेत्यादिषु विष्णुर्ब्रह्मेति प्रतीयते ।। अतः संशयात् किं तद्ब्रह्मेति प्रश्नो युज्यत इत्यर्थः ।। १ ।।

न्यायदीपिका

पूर्वाध्यायसङ्गतत्वेनैतदध्यायप्रतिपाद्यमर्थं दर्शयति ।। उक्तेति ।। यदुक्तं ते ब्रह्म तद्विदुरित्यादि तद्व्याख्यानमत्रादौ क्रियते । प्रयाणकालेऽपि च मामित्युक्त व्याख्यानप्रसङ्गेनान्तकालस्मरणफलं तदुपायप्रकारो ब्रह्मप्राप्तिमार्गश्चेत्येतदुच्यत इत्यर्थः । अन्तकालस्मरणोपायादीनां ब्रह्म प्राप्यते एभिरिति ब्रह्मप्राप्तिशब्दाभिधेयत्वं ज्ञातव्यम् ।

नन्वर्जुनस्य ज्ञानित्वाज्जानात्येवासौ भगवानेव ब्रह्मेति अतः किं तद्ब्रह्मेति प्रश्नः कथं युज्यते । कारणाभावादित्यत आह ।। तदिति ।। अर्जुनस्य ज्ञानित्वेऽपि युक्तोऽयं प्रश्नः । तद्ब्रह्मेत्यत्र ब्रह्मणो भगवता तदिति पारोक्ष्येणोक्तत्वाद्भगवतोऽन्यदेवात्रोक्तं ब्रह्मेति प्रतीयते । वासुदेवात्मकं ब्रह्मेत्यादेर्भगवान् ब्रह्मेति प्रतीयते । एवमुभयथाप्रतीतिजनितसंशयस्य प्रश्नकारणस्य सद्भावादिति भावः । ननु ब्रह्मशब्दस्य भगवन्मात्रवृत्तित्वात्कथं तदिति विशेषितत्वेऽप्यन्यत्वप्रतीतिरित्यत उक्तम् ।। प्रकृतीति ।। ब्रह्मशब्दस्य भगवति मुख्यत्वेऽपि प्रकृतिवेदादेरप्यमुख्यतया तदर्थत्वात्तदिति विशेषितत्वेन मुख्यार्थासम्भवेऽप्यमुख्यार्थः प्रकृत्यादीनां मध्ये यत्किञ्चिदत्र स्यादिति प्रतीतिर्युक्तेति भावः । ननु तदिति विशेषणेन प्राप्ता ब्रह्मणो भगवदन्यत्वशङ्का साधिभूताधिदैवं मामित्युपरितनवाक्ये भगवतैव परिहृता । ब्रह्मेति वक्तव्ये मामित्युक्तत्वात् । अतः कथं ब्रह्मणो भगवदन्यत्वप्रतीतिरित्यत उक्तम् ।। उपरीति ।। यद्यप्येषा प्रतीतिरुपरितनवाक्ये परिहृता तथाऽपि पुनर्भवत्येव तत्र साधियज्ञं चेति चशब्दस्य साधिभूताधियज्ञं मां चेति संयोजनेनाधिभूतादिसहितत्वेन ब्रह्मज्ञानादन्यदेव विष्णुज्ञानमुच्यत इति तदिति विशेषणादेव प्रतीतिसम्भवादिति भावः । यत्किञ्चिदित्यत्रान्यदेवेत्यत्र च इति प्रतीत्या जात इति शेषः ।। १२ ।।

किरणावली

पूर्वाध्यायसङ्गतत्वेनेति ।। व्याख्यानस्यव्याख्येयानन्तरभावित्वादानन्तर्यरूपसङ्गतियुक्तत्वेनेत्यर्थः । मरणकाले कर्तव्यगत्याद्यस्मिन्नध्याये उपदिशतीति भाष्यानुसारेण ब्रह्मप्राप्तिरित्येतद्व्याचष्टे ।। प्रयाणेति ।। प्रयाणकालेपीति पूर्वाध्यायोक्तस्य प्रयाणकाले मनसा चलेनेति व्याख्यानप्रसङ्गेन स तं परं पुरुषमुपैति दिव्यमिति स्मरणफलं अनन्यचेतास्सततमित्यादिनामरणकाले स्मरणोपायप्रकारः अग्निर्ज्योतिरित्यादिना ब्रह्मप्राप्तिमार्गश्चेत्यर्थः । ननु स तं परं पुरुषमुपैति दिव्यमित्युक्तस्य स्मरणफलस्य ब्रह्मप्राप्तिपदार्थत्वेपि कथं तदतिरिक्तस्य ब्रह्मप्राप्तिपदार्थत्वमित्यत आह ।। अन्तकालस्मरणोपायादीनामिति ।। आदिपदेन मार्गाणां ग्रहणम् । कर्तव्यस्मरणविषयत्वगम्यत्वादि रूपो भगवन्महिमैव वर्ण्यत इति षट्कान्तर्भावसिद्धिरिति प्रमेयदीपिकायामेव षट्कान्तर्भाव उपपादितः ।। वासुदेवात्मकं ब्रह्मेत्यादेरिति ।। नन्वनेन प्रमाणेन वासुदेवे ब्रह्मशब्दस्य शक्तयभ्युपगमेपि तात्पर्यं दुरवगमं प्रत्युततदिति परोक्षनिर्देशाद्भगवतोन्यदेवेति चावगम्यत इति न संशयावकाश इति चेन्न । वासुदेवः सर्वमिति ज्ञानवान्मां प्रपद्यत इति वासुदेवस्य स्वस्य त्रिविधपूर्तिज्ञानिनः स्वप्राप्तिरूपं फलमुक्तमत्रापि जरामरणमोक्षाय मामाश्रित्य यतंति ये । ते ब्रह्मतद्विदुःकृत्स्नमिति ये जरामरणमोक्षाय मामाश्रित्य मद्विषयं श्रवणमनननिदिध्यासना लक्षणं यत्नं कुर्वन्ति ते कृत्स्नं पूर्णं ब्रह्मविदुरिति ब्रह्मणः पूर्तिज्ञानेन जरामरणमोक्ष उच्यतेऽतो वासुदेव एवात्रोक्तं ब्रह्मेत्यवसीयते । कृत्स्नमिति लक्षणसाम्यात् । किं च श्रवणादिकं वासुदेवविषयं तज्जन्यमपरोक्षज्ञानमन्यविषयमित्यसम्भावितत्वान्मामित्युक्त एव ब्रह्मपदेनोक्त इति सिद्ध्यति । अत एव वासुदेवात्मकं ब्रह्मेत्युक्तम् । तदिति परोक्षनिर्देशेन चान्यदेवेति प्रतीयते । तथाच संशयो युक्त एवेति भावः ।।

भगवन्मात्रवृत्तित्वादिति ।। भगवन्मात्रमुख्यत्वादित्यर्थः ।। परिहृता तथापि पुनर्भवत्येवेति ।। न च प्रध्वस्तस्य पुनरुत्पत्त्यनुपपत्तिरिति वाच्यम् । यद्यपि त्वदुक्तरीत्या परिहर्तुं शक्या तथापि मद्व्युत्पादनरीत्या नशक्येत्यत्र तात्पर्यात् । ननु प्रकृत्यादीनां यत्किञ्चित्त्वस्यान्यत्वस्य च पदार्थधर्मत्वेन ज्ञानत्वस्यैवाभावात् इति प्रतीतिरित्यर्थाङ्गीकारेपि तथा प्रतीतेर्विपर्ययरूपत्वेन संशयत्वमयुक्तमित्यत आह ।। यत्किञ्चिदित्यत्रान्यदेवेत्यत्र चेति ।। इति शब्दानन्तरं प्रतीत्या जात इत्यस्याध्याहार इत्यर्थः । श्रियोपि परमाक्षरत्वात्कथं विष्णुरेवेत्यत उक्तं मूले मुख्यत इति ।। १ ।।

भावदीपः

इत्युक्तव्याख्यानप्रसङ्गेनेति ।। एतेनोक्तव्याख्यानमेवाध्यायस्यार्थः । अन्यत्तु प्रासङ्गिकमिति अनेकार्थकत्वकृताध्यायभेदशङ्का न कार्येति सूचितम् ।। तदुपायेति ।। स्वरणोपायेत्यर्थः । एतावानर्थः प्राप्तिपदेन कथं लभ्यत इत्यत आह ।। अन्तकालेत्यादि(ना) ।। इत्यादेरिति ।। स्मृतेरिति शेषः । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते इत्यादिरादिपदार्थः ।। भगवन्मात्रवृत्तित्वादिति ।। तदेव ब्रह्म परममित्यादिश्रुतिरिति भावः ।। प्रकृतीत्यादि ।। मम योनिर्महद्ब्रह्म, तेन ब्रह्महृदा, ब्रह्माणि जीवाः सर्वेऽपि इत्यादेरिति भावः ।। इत्युपरीति ।। अस्मिन्नेवाध्याये । संशयपदात्पूर्वं स्थलद्वये शेषमाह ।। इत्यत्र च इति प्रतीत्या जात इति शेष इति ।। १२ ।।

भावप्रकाशः

सङ्गतत्वेनेति ।। आनन्तरिकसङ्गत्युपेतत्वेनेत्यर्थः ।। मरणकालकर्तव्यगत्याद्यास्मिन्नध्याय उपदिशतीति भाष्यानुसारेण ब्रह्मप्राप्तिरित्येतद्व्याचष्टे ।। अन्तकालस्मरणफलमिति । परमात्मप्राप्तिरूपमित्यर्थः ।। तदुपायप्रकार इति । अन्तकालस्मरणोपायप्रकारः सदा तद्भावभावितत्वरूप इत्यर्थः ।। ब्रह्मप्राप्तिमार्ग इति ।। अग्निज्योतिरित्यादिनेत्यर्थः ।। नन्वेतेषां ब्रह्मप्राप्तिशब्दाभिधेयत्वं कथमित्यत आह । अन्तकालस्मरणोपायादीनामिति । आदिपदेन स्मरणफलमार्गयोर्ग्रहणम् ।। अत्रान्तकालस्मरणविषयत्वादिरूपविष्णुमहात्म्यस्यैव कथनादस्यैतत्षट्कान्तर्भावसिद्धिरिति द्रष्टव्यम् ।। क्वचित्तु व्याख्यानप्रसङ्गेन ब्रह्मप्राप्तिमार्गश्चोच्यत इत्येव पाठः ।। तत्रान्तकालस्मरणतत्प्रकारयोः समुच्चयार्थः चशब्द इति द्रष्टव्यम् ।। वासुदेवात्मकं ब्रह्मेत्यादेरिति । वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिरिति प्रागुदाहृतप्रमाणादित्यर्थः ।। भगवन्मात्रवृत्तित्वादिति ।। ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते । असंपूर्णाः परे यस्मादित्यन्यत्रोक्तत्वादिति भावः ।। अमुख्यतया तदर्थत्वादिति ।। उपचारेण वा भवेदिति प्रमाणादिति भावः ।। ननु तथापि मुख्ये सम्भवति अमुख्यगृहणायोग इत्यत आह । तदिति विशेषितत्वेनेति । ननु प्रकृत्यादीनां मध्ये यत्किञ्चिदित्यस्यान्यदेवेत्यस्य च विपर्ययरूपत्वात् संशय इति कथमुक्तमित्यत आह ।। यत्किञ्चिदित्यत्रान्यदेवेत्यत्र चेति ।। १२ ।।

वाक्यविवेकः

ननु मूले ते ब्रह्म तद्विदुरित्येतद्व्याख्यानपूर्वकं ब्रह्मप्राप्तिरुच्यत इत्येव वक्तव्यम् ।। व्याख्येयस्यानायासेन प्रतीतिसम्भवात् ।। तद्विहायोक्तग्रहणं किमर्थमित्याशङ्कापरिहारं सूचयन् मूलमवतारयति ।। पूर्वाध्यायसङ्गतत्वेनेति ।। सङ्गतिसूचनार्थमुक्तशब्देन व्याख्येयग्रहणमिति भावः ।। नन्वर्जुनस्य ज्ञानित्वादिति ।। सन्देहमूलकोहि प्रश्नः ।। स द्विविधः ।। प्रश्नकर्त्तर्युत्पन्नः । अन्येषामुत्पन्नोपि प्रश्नकर्त्रा आहृतश्चेति ।। तत्राद्यः संशयः नार्जुनस्य सम्भवति ।। अपरोक्षज्ञानित्वात् ।। नापि परगतसंशयाहरणं सम्भवति ।। कारणाभावेन परस्यापि तादृशसंशयाभावादिति भावः ।। अर्जुनस्य ज्ञानित्वेऽपीति ।। यद्यपि ज्ञानित्वादर्जुनस्योक्तसंशयो नास्ति ।। तथापि कारणसद्भावेन परस्य तादृशसंशयसद्भावात् तत्संशयाहरणेन प्रश्नः सम्भवतीति भावः ।। तदिति विशेषितत्वेऽपीति ।। प्रसिध्यर्थक तया तच्छब्दो व्याख्येय इति भावः ।। प्रकृत्यादीनां यत्किंचिदिति ज्ञानस्य संशयत्वाभावात् तथा अन्यदेवेति ज्ञानस्य च संशयत्वाभावात् इति संशय इति तयोः संशयत्वकथनं अनुपपन्नमित्याशङ्कापरिहारायोभयत्रापि शेषमाह ।। यत्किञ्चिदित्यत्रान्यदेवेत्यत्र चेति ।। १२ ।।

Load More