गीता
गीता
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोपि सन् ।
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ।। ६ ।।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।। ७ ।।
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ।। ८ ।।
तात्पर्यम्
आत्ममायया आत्मेच्छया । प्रकृतिं स्वामधिष्ठाय स्वभावम् । ‘देवस्यैष स्वभावोऽयम्’ इत्यादिश्रुतेश्च । अत एव स्वशब्देन विशेषणं ‘प्रकृतिं स्वामवष्टम्य’ इत्यादिषु । ‘मयाऽध्यक्षेण प्रकृतिः’ इत्यादिषु तु न स्वशब्दः । ‘प्रकृतिं विद्धि मे पराम्’ इत्यादिषु सम्बन्धित्वेन प्रतीतेरन्या । अत्र तु स्वशब्दः स्वरूपवाची । स्वभाव इत्यत्रापि स्वाख्यो भावः स्वभावः । भावशब्दस्तु सम्बन्ध्याशङ्कानिवृत्तये । स्वस्वभाव इति तु स्वस्वरूपमितिवदुपचारत्वाशङ्कां निवर्तयति ।
‘स्रष्टृत्वादिस्वभावत्वात्स्वेच्छया विष्णुरव्ययः ।
सृष्ट्यादिकं करोत्यद्धा स्वयं च बहुधा भवेत्’ इति नारायणश्रुतिः ।। ६ ।।
प्रकाशिका
प्रकृतिमित्येतद्व्याचष्टे ।। आत्मेत्यादिना ।। अस्यार्थः
‘‘भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।।
देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा’’
इति श्रुत्या बहुधाऽवतरणात् सज्जनप्रवर्धनं दुर्जनसंहरणादिकं विष्णोः स्वभावकृतमेवावसीयते ।।
‘‘प्रकृतिं स्वामधिष्ठायेति’’ स्वशब्देन विशेषणात् प्रकृतिशब्दोऽत्र स्वभावस्य वाचको न प्रधानस्य । ‘‘मयाऽध्यक्षेण प्रकृतिः प्रकृतिं विद्धि मे पराम्’’ इत्यादिषु तु स्वशब्दविशेषणाभावात् न प्रकृतिशब्दः स्वभाववचनः मे प्रकृतिमिति सम्बन्धित्वेन प्रतीतेश्च । ‘‘प्रकृतिं स्वामित्यत्र स्वशब्दः स्वरूपवाची न स्वकीयवाची । यथा स्वभाव इत्यत्र स्वशब्दः स्वाख्यो भावः स्वभावः इति समासात् स्वशब्दः स्वकीयेऽपि वर्तमानो भावशब्दविशेषितस्तु स्वरूपवाच्येव । अतश्च स्वभाववचनप्रकृतिशब्दस्य स्वशब्दविशेषितत्वे स्वस्वरूपमितिवत् स्वस्वभाव इत्यर्थो भवति । तत्र न स्वशब्दविशेषणस्य वैयर्थ्यमाशङ्क्यम् । स्वभावशब्दस्योपचारेण स्वरूपशब्दवत् स्वकीयेऽपि प्रवृत्तिसम्भवात् निवृत्त्यर्थत्वेनोपपत्तेः । मम पुत्रोऽयं मत्स्वभाव इति मत्स्वरूपमित्युपचरितव्य इति व्यवहारात् । स्वभावमवलम्ब्यैव विष्णुरित्येतत् श्रुत्यन्तरेण द्रढयति ।। स्रष्टृत्वादिति ।। ६८ ।।
न्यायदीपिका
जन्मान्यतीतानि चेत्तर्हि न जननमरणराहित्यं भगवतः । तथाचाविनाशित्वित्युक्तविरोध इत्यत उच्यते ।। अजोपीति ।। तत्रात्ममाययेत्येतदज्ञानवशादित्यन्यथाप्रतीतिनिरासाय व्याचष्टे ।। आत्मेति ।। नात्रात्ममाययेत्यज्ञानवशादित्युच्यते । सर्वमानविरोधात् । अपित्ववतारे परप्रेरणानिवारणाय महामायेत्यादिना मायापदोदितस्वेच्छानिबन्धनत्वमेवोच्यत इत्यर्थः । प्रकृतिं स्वामधिष्ठाय इत्येतत् प्राकृतशरीरलाभेनेत्यन्यथा प्रतीति निरासायानूद्य प्रकृतिपदं व्याचष्टे ।। प्रकृतिमिति ।। नात्र प्राकृतशरीरलाभोऽभिधीयते । श्रुत्यादिविरोधस्योक्तत्वात् । किंत्ववतरसि चेत्प्रयोजनेन भाव्यम् । तथाचनानवाप्तमित्युक्तविरोध इत्याशङ्कापरिहाराय प्रयोजनाभावेऽप्यवतारादिकं तादृशस्वभावत्वाद्युज्यत इत्येवोच्यत इति भावः । भवेदयमर्थो यदि हरेरवतारादिप्रयोजनं विना स्वभावादेवेति सिद्धं स्यात्तदेव कुत इत्यत आह ।। देवस्येति ।। स स्वभावश्चायं देव एव नतु ततो भिन्न इत्यर्थः । अस्तु विष्णोः स्वभावादेव व्यापारः । तथाप्यत्र प्रकृतिपदं कुतः स्वभाववाचीत्यत आह ।। अत एवेति ।। यतोत्र प्रकृतिपदं स्वभाववाच्यत एव स्वामिति विशेषणं प्रयुक्तम् । केवलमन्यार्थत्वे स्वाधीनत्वस्य ममेत्यसाधारणशब्देनाभिधानं विनोभयसाधारणमेतन्न स्यादित्यर्थः । एतमेव न्यायमन्यत्राप्यतिदिशति ।। प्रकृतिमिति ।। इत्यादिषु च स्वशब्देन विशेषणमत एवेत्यर्थः । यदि प्रकृतिपदं स्वभाववाचि तर्हि मयाध्यक्षेण प्रकृतिः, प्रकृतिं विद्धीत्यत्रापि किं स्वभाववाचीत्यपेक्षायामाह ।। मयेति ।। अतः स्वभावादन्यैव तत्र प्रकृतिरिति शेषः । अन्यत्वे हेत्वन्तरं चाह ।। प्रकृतिमिति ।। अत्रादिपदेन मयेत्यस्य संग्रहः । मयाध्यक्षेणेत्यत्राधीनतया संबन्धित्वप्रतीतेः प्रकृतिमित्यत्र म इति षष्ठ्या सम्बन्धित्वप्रतीतेश्चेति योज्यम् । सम्बन्धित्वेन प्रतीतेरन्या चेदत्रापि स्वामिति सम्बन्धित्वेन प्रतीतेरन्या स्यादित्यत आह ।। अत्रेति ।।
भवेदिदं यदि स्वशब्दः सम्बन्धवाच्येव स्यात् । नचैवम् । अत्र स्वशब्दस्य मुख्यतः स्वरूपवाचित्वादिति । बाधकाभावात्स्वरूपवाच्येव नतु संबन्धवाचीति भावः । स्वशब्दस्य स्वरूपवाचित्वं कुत्र दृष्टमित्यतः स्वभावपदगतस्वशब्दस्य तद्दृष्टमिति भावेनाह ।। स्वभाव इति ।। स्वभावपदगतस्य स्वेति शब्दस्यान्यत्वमात्रापादने नानिष्टम् । अर्थद्वयाङ्गीकारात् । अन्यैवेत्यापादनमयुक्तम् । स्वशब्दस्य स्वरूपवाचित्वस्यापि भावेन म इतिवदितराव्यावर्तकत्वादिति भावः । ननु स्वभावस्य स्वरूपत्वमयुक्तम् । स्वस्य भावो हि स्वभावः इत्यत आह ।। स्वभाव इति ।। रूढिबलेनेदमेव निर्वचनं, नान्यदिति भावः । स्वभावपदगतस्वशब्दस्य स्वरूपवाचित्वेतेनैव पूर्तेः भावशब्दो व्यर्थ इत्यत आह ।। भावेति ।। यदि स्वशब्दमात्रं प्रयुज्यते तदा स्वशब्दस्य स्वीयेऽपि प्रयोगात्तदाशङ्का स्यात्तां निवारयितुं भावशब्दः प्रयुज्यते । भावशब्दयुक्तस्वशब्दस्य स्वरूप एव प्रतीतिजनकत्वादिति भावः ।
नन्वत्र प्रकृतिपदं स्वभाववाचकं चेत्तर्हि स्वां प्रकृतिमित्युक्ते स्वस्वभावमित्युक्तं भवति । स्वशब्दद्वयं च स्वरूपवाचीत्युक्तम् । तथा च पुनरुक्तिरित्यत आह ।। स्वेति ।। यथा अस्वरूपेऽप्युपचारेण स्वरूपपदप्रवृत्तेस्तत्परिहाराय स्वस्वरूपमित्युच्यते । न च तत्र स्वरूपवाचिस्वशब्दद्वयसद्भावेऽपि पुनरुक्तिदोषः । एवमस्वभावेऽप्युपचारेण स्वभावपदप्रवृत्तेस्तदाशङ्कानिवारणाय स्वस्वभाव इत्युच्यते । अतो न पुनरुक्तिदोष इत्यर्थः । अजोऽपीति श्लोकत्रयं श्रुत्यैव व्याचष्टे ।। स्रष्टृत्वादीति ।। ६ ।।
किरणावली
सर्वमानेति ।। यस्सर्वज्ञः सर्वविदित्यादिसर्वमानविरोधादित्यर्थः ।। अन्यथाप्रतीति निरासायानूद्येति ।। स्वामित्यधिकानुवादेन तन्निरास प्रकारमनुपदमेव वक्ष्यतीति भावः ।। श्रुत्यादीति ।। सद्देहः सुखगन्धश्चेत्यादि विरोधस्य द्वितीये उक्तत्वादित्यर्थः । देवस्यैष अवतारादिः स्वभाव इत्येतावता पूर्णत्वादयमित्यनन्वितमित्यत आह ।। सस्वभावश्चायमिति ।। देवस्येति षष्ठ्या प्राप्तं देवात्स्वभावस्य भेदं निरसितुं स्वभावोऽयं देव एवेत्युक्तमिति भावः ।
ननु भाष्ये स्वामित्यस्य स्वाधीनामित्यर्थस्योक्तत्वादत एवेति कथमुक्तमित्यत आह ।। केवलमिति ।। तात्पर्यार्थं परित्यज्य केवलमर्थान्तराङ्गीकारे स्वाधीनत्वस्य मम प्रकृतिमित्यसन्दिग्धशब्द प्रयोगेन ज्ञापयितुं शक्यत्वात्तेन शब्देनाभिधानं विनोभयसाधारणं स्वाधीनत्वस्वरूपत्व लक्षणार्थद्वयसाधारणमेतत्स्वामित्येतन्न स्यात् न प्रयुज्येतेत्यर्थः । इत्यादिषु चेत्यादिपदेन प्रकृत्या नियताः स्वयेत्यादेः परिग्रहः ।। मूले मयाध्यक्षेणेत्यादिष्वित्यादिशब्देन प्रकृतिं विद्धि मे परामित्यस्य ग्रहणम् । प्रकृतिं विद्धि मे परामित्यादिष्वित्यादिशब्देन मयाध्यक्षेणेत्यस्य ग्रहणमिति भावेन व्याचष्टे ।। मयाध्यक्षेण प्रकृतिः प्रकृतिं विद्धीत्यत्रापीत्यादिना ।। अधीनतया सम्बन्धित्वप्रतीतेरिति ।। षष्ठ्यभावेपि मया प्रकृतिः सूयत इत्युक्तयाऽधीनत्वप्रतीतेरित्यर्थः ।।
अर्थद्वयेति ।। भाष्यतात्पर्ययोरिति शेषः । अत्रतु स्वशब्द इति मूलेतु शब्दोप्यर्थः । अत्र स्वशब्दः स्वरूपवाच्यपीत्यर्थ मभिप्रेत्य व्याचष्टे ।। स्वशब्दस्य स्वरूपवाचित्वस्यापीति ।। रूढिबलेन स्वरूपे प्रयोगबलेन स्वाख्यो भावः पदार्थ इतीदमेव निर्वचनमित्यर्थः ।। स्वशब्दद्वयमिति ।। प्रकृति शब्दव्याख्यान्तर्गत एकः स्वशब्दः पृथक् श्रुतश्चापर इति स्वशब्दद्वयं च स्वरूपवाचीत्युक्तं स्यादन्यथा स्वाधीनं स्वभावमित्यर्थप्राप्तेरिति भावः ।। यथा अस्वरूपेपीति ।। कामक्रोधादिग्रस्तं मोक्षयोग्यं प्रत्युच्यते अयं स्वरूपं न जहातीति तत्र स्वरूपेपि क्रोधादौ बहुकालीनत्वादुपचारेण स्वरूप पदप्रवृत्तेस्तत्परिहारायायोग्यस्य क्रोधादिकं स्वस्वरूपमित्युच्यत इत्यर्थः ।। श्लोकत्रयमिति ।। प्रकृतिं स्वामधिष्ठायेत्यस्य तात्पर्यं स्रष्टृत्वादि स्वभावत्वादिति । स्वात्ममाययेत्यस्य स्वेच्छयेति । अव्यय आत्मा देहो यस्य सोऽव्ययात्मेत्यस्याव्यय इति । सृष्ट्यादिकमित्यादि शब्देन साधुपरित्राणासाधुविनाश
धर्मसंस्थापनादिग्रहणम् । तेन परित्राणायेत्यादेः स्वयं चेत्यनेन सम्भवामीत्यादेस्तात्पर्यमुक्तं ज्ञेयम् ।।६।।
भावदीपः
श्रुत्यादिविरोधस्योक्तत्वादिति ।। द्वितीये अन्तवन्त इम इत्येतद्व्याख्यावसरे उक्तत्वादित्यर्थः । यद्वा नैनं छिन्दन्तीत्यादिव्याख्यावसरे सदेह इत्याद्युदाहरणादिति भावः । एष सृष्ट्यादीच्छारूपो व्यापारो देवस्य स्वभाव इत्यर्थमुपेत्यायमित्यस्यार्थमाह ।। स स्वभावश्चायं देव एवेत्यादि ।। अन्यार्थत्व इति ।। प्रसिद्धप्रकृतिमात्रार्थत्व इत्यर्थः ।। नानिष्टमिति पदविभागः ।। ६ ।।
भावप्रकाशः
बहूनीति पूर्वश्लोकेनाजोऽपीत्यस्य सङ्गतिमाह । जन्मान्यतीतानि चेदिति सर्वमानविरोधादिति ।। भगवतोऽज्ञत्वस्य ब्रह्मादीनां प्रत्यक्षेण विष्णुर्नाज्ञानी सर्वज्ञत्वाद्व्यतिरेकेण देवदत्तवदिति अनुमानेन निरवद्य इति श्रुत्याच विरोधादित्यर्थः ।। आत्ममाययेत्यस्य सङ्गतिं दर्शयन्नेव मायाशब्दस्येच्छावाचित्वे प्रमाणमाह । अवतार इति ।। श्रुत्यादिविरोधस्येति । सद्देहः सुखगन्धश्चेत्यादिना श्रुत्यादिविरोधस्य द्वितीये उक्तत्वादित्यर्थः ।। देवस्यैषोऽवतारादिः स्वभाव इत्यनेनैव पूर्णत्वादयमित्येतदनन्वितमित्यत आह ।। स स्वभावश्चेति ।। स्वभावस्येश्वराभेदप्रतिपादनार्थमयमिति पदमिति भावः ।। एतदिति । स्वामीतिपदमित्यर्थः ।। अन्यत्रातिदिशतीति ।। प्रकृतिं स्वामवष्टभ्येत्यादि श्रुत्युक्तत्वेनात एवेत्यादेरेकवाक्यत्वानुपपत्तिरिति भावः ।। ननु मयाऽध्यक्षेणेत्यत्र म इति पदाभावात्कथं सम्बन्धित्वेन प्रतीरित्यत आह । मयाध्यक्षेणेत्यत्रेति ।। ननु स्वभावशब्दस्य स्वरूपमात्रवाचित्वनियमाभावात्कथं निर्णय इत्यत आह । अन्यत्वमात्रापादन इति ।। अर्थद्वयाङ्गीकारादिति ।। प्रकृतिपदस्य स्वभावजडप्रकृतिरूपार्थद्वयाङ्गीकारादित्यर्थः । ननु स्वभावस्येति ।। प्रकृतिपदवाच्यस्वभावस्येत्यर्थः ।। ६ ।।
वाक्यविवेकः
जन्मान्यतीतानि चेदिति । जन्मवतो मरणनियमात् । जन्माङ्गीकारे मरणमप्यङ्गीकार्यं तथा च जन्ममरणराहित्यमनुपपन्नमिति भावः । प्रकृतिपदं स्वभाववाचीति । प्रकृतिपदं प्रसिद्धप्रकृतिवाचि स्वभाववाचीत्यर्थः । केवलमन्यार्थत्व इति । प्रसिद्धप्रकृतिमात्रार्थत्व इत्यर्थः । मूले प्रतीतेरन्येत्त्यत्रचशब्दभावादाह ।। प्रतीतेश्चेति योज्यमिति । अध्याहृत्य योज्यमित्यर्थः ।। सम्बन्धित्वेन प्रतीतेरिति । मयाऽध्यक्षेण प्रकृतिरित्त्यादौ सम्बन्धित्वेन प्रतीतप्रकृतिशब्देनेश्वरादन्यदेवोच्यत इति मन्यसे चेत् तर्हि प्रकृतिं स्वामधिष्टायेत्यत्रापि स्वशब्देन सम्बन्धितया प्रतीतेः प्रकृतिशब्देनेश्वराद्भिन्नमेवोच्यत इत्यस्त्वित्यत आहेत्यर्थः ।।
इतः परं टीकयोः पाठभेदः तथाहि अत्रेति । अन्यत्वमात्रापादनेनानिष्टम् । अर्थद्वयाङ्गीकारात् । अन्यैवेत्यापदनमप्युक्तम् । स्वशब्दस्य रूपवाचित्वस्यापि भावे नम इति वदितराव्यावर्तकत्वादिति भावः । ननु स्वभावस्य रूपत्वमयुक्तम् । स्वस्य भावो हि स्वभाव इत्यत आह । स्वभाव इति । रूढिबलेनेदमेव निर्वचनं नान्यदिति भावः इति एकः टीकापाठः । अत्रेति भवेदिदम् यदि स्वशब्दः सम्बन्धवाच्येव स्यात् । नचैवम् । अत्र स्वशब्दस्य मुख्यतः स्वरूपवाचकत्त्वादिति बाधकाभावात्स्वरूपवाच्येव न तु सम्बधवाचीति भावः । स्वशब्दस्य स्वरूपवाचित्त्वं कुत्र दृष्टमित्यतः स्वभावपदगतस्वशब्दस्य तद्दृष्टमिति भावेनाह । स्वभाव इति । इत्यपरः टीकावाक्यपाठः । अस्यार्थः । भवेदिदमिति प्रकृतिशब्दार्थस्येश्वरादन्यत्वं तदा भवेत् । यद्यत्र स्वशब्दः सम्बन्धवाच्येव स्यात् । न चैवं किं तत्र सम्बधस्यैव स्वरूपस्यापि वाची भवत्येव कुतः स्वरूपवाचित्वमित्यतः किं स्वशब्दस्य स्वरूपे शक्तयभावात्स्वरूपवाचित्वं नास्तीत्युच्यन्ते किं वा बाधकसद्भावादिति विकल्पं मनसि निधायाद्ये दोषमाह स्वशब्दस्य मुख्यतः स्वरूपवाचित्वादिति । द्वितीये दोषमाह । बाधकाभावादिति । स्वशब्दस्य मुख्यतः स्वरूपवाचित्त्वादित्यतः परं श्रूयमाण इतिशब्दः प्रक्षिप्तः । वैय्यर्थ्यात् । न तु सम्बन्धवाचीति प्रक्षिप्तम् । स्वशब्दः स्वभाववाची सम्बन्धवाची चेत्यङ्गीकारात् । नतु सम्बन्धवाचीत्यस्य न तु सम्बन्धमात्रवाचीत्यर्थ इत्यङ्गीकारे स्वशब्दः सम्बन्धवाच्येव स्यादित्येन पुनरुक्तेः ।। ६ ।।