गीता

गीता

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।

योगारूढस्य तस्यैव शमः कारणमुच्यते ।। ३ ।।

तात्पर्यम्

सम्पूर्णोपायो योगारूढः ।

नानाजनस्य शुश्रूषा कर्मेति करवन्मितेः ।

योगार्थिना तु सा कार्या योगस्थेन हरौ स्थितिः ।

तेनापि स्वोत्तमानां तु कार्याऽन्यैरखिलेष्वपि ।

शक्तितः करणीयेति विशेषोऽसिद्धसिद्धयोः ।

प्राप्तोपायस्तु सिद्धः स्यात् प्रेप्सुः साधक उच्यते ।

तस्य प्राण्युपकारेण सन्तुष्टो भवतीश्वरः ।

सिद्धोपायेन विष्णोस्तु ध्यानव्याख्यार्चनादिकम् ।

कार्यं नान्यत् तस्य तेन तुष्टो भवति केशवः’

इति प्रवृत्तवचनान्न विरोधः ।

शमो मन्निष्ठता बुद्धेर्दम इन्द्रियनिग्रहः’ इति भागवते ।। ३ ।।

प्रकाशिका

आरुरुक्षोरित्येतच्छ्लोकं व्याचष्टे ।। सम्पूर्णेत्यादिना ।। न च ‘अनाश्रितः कर्मफलं कार्य कर्म करोति यः ।। स सन्यासी च योगी चे’त्यनेन योगारूढस्य तस्यैव शमः कारणमुच्यत इत्येतस्य विरोधः शङ्कनीयः । सिद्धोपायेन विष्णोस्तु ध्यान–व्याख्यार्चनादिकम् । कार्यमि’ति वचनात्, शमो मन्निष्ठता बुद्धेरिति भगवद्वचनात् शमशब्दार्थस्यात्र कर्मनिवृत्तित्वाभावादित्यर्थः ।। ३ ।।

न्यायदीपिका

कर्मयोगमध्ये कीदृशो योगो ज्ञानार्थिनोऽवश्यापेक्षित इत्यत उच्यते ।। आरुरुक्षोरिति ।। (तत्र) अत्र योगारूढपदस्य दुर्गमार्थत्वादर्थमाह ।। संपूर्णेति ।। अत्र ज्ञानार्थिनः कर्म अपेक्षितमित्युक्त्वा ज्ञानिनः कर्मोपशमोऽपेक्षित इत्युच्यते । तथा च न निरग्निर्नचाक्रिय इत्यादिविरोध इत्यत आह ।। नानेति ।। नानाजनस्य उत्तमाधममध्यमस्य ।। करवन्मितेरिति ।। राजादिकरवदावश्यकतया प्रमितत्वादित्यर्थः । योगस्थेनापि शुश्रूषायाः कार्यत्वे को विशेषो योगार्थियोगस्थयोरित्यत आह ।। तेनापीति ।। अन्यैर्योगार्थिभिः । योगार्थियोगस्थयोर्विशेषे वक्तव्ये असिद्धसिद्धयोर्विशेषः किमर्थमुच्यत इत्यत आह ।। प्राप्तेति ।। नानाजनस्य शुश्रूषा कथं ज्ञानस्य साधनमित्यतो भगवत्प्रसादद्वारेत्याह ।। तस्येति ।। नन्वज्ञानामपि हरौ स्थितत्वाद्योगस्थेन हरौ स्थितिः कार्येति किमुच्यत इत्यत उक्तं विवृणोति ।। सिद्धेति ।। अन्यत् नानाजनशुश्रूषादि । ज्ञानिनो मोक्षनियमात्किं ध्यानादिनेत्यत आह ।। तस्येति ।। ततश्च मुक्तावानन्दपूर्तिरिति भावः । अत्र कर्मपदेन नानाजनशुश्रूषैवोच्यते नतु संध्यावन्दनादि ।। शमपदेन च नानाजनशुश्रूषोपशम एवोच्यते भगवद्ध्यानादिकं च । न संध्यावन्दनादिकर्मोपशमः । नानाजनस्येति स्मृतिसमाख्यानात् । अतो नास्य पूर्वोक्तविरोध इति भावः । शमपदस्य विष्णुध्यानादिवाचित्वे स्पष्टार्थां स्मृतिं चाह ।। शम इति ।। ३ ।।

किरणावली

कर्मयोगमध्य इति ।। कर्मयोगोऽनेकविधः संध्यावन्दनाग्निहोत्र स्वोत्तममध्यमाधम संप्रीणनादि लक्षणः तत्र कीदृशः कर्मयोगो ज्ञानार्थिनोत्यपेक्षित इत्यतस्तदुच्यत इत्यर्थः ।। तत्रेति ।। योगं ज्ञानाख्य मुपायमारुरुक्षोर्ज्ञानाख्यमोक्षोपायसंपूर्तिमिच्छतः कर्मावश्यकं कारणमित्यर्थः । ननु ज्ञानिनोप्यावश्यकमेतद्योगमारुरुक्षोरिति किं विशिष्योच्यत इत्यत उक्तम् ।। योगारूढस्येति ।। योगारूढस्य शम एव फलकारणं न कर्मेति प्रतिपादके द्वितीयेर्ध इत्यर्थः । यः कार्यं विहितं कर्म करोति स एव संन्यासी योगीच निरग्निरक्रियः कर्मपरित्यागी योगी ज्ञानयोगी न भवतीति उक्तत्वादित्यर्थः । उत्तमाधममध्यमस्येति । मुक्तियोग्यानां मध्ये स्वोत्तमस्वमध्यमस्वाधमजनस्येत्यर्थः । शुश्रूषाचोत्तमानां भक्तिपादसंवाहनादिरूपा । मध्यमानां प्रति नमस्कारस्नेहादि लक्षणा । अधमानां अन्नपानादिना रक्षणदयारूपा । विरोधपरिहारप्रकारं मूललब्धमाह ।। अत्रेति ।। आरुरुक्षोरित्यस्य पूर्वार्धेकर्मपदेनेत्यर्थः ।। शमपदेनेति ।। उत्तरार्धपदेनेति पूरणीयं भगवद्व्यानादिकं चेति । शमपदेनोच्यत इत्यन्वयः । शुश्रूषोपशम एवेत्येवकार व्यवच्छेद्यमाह ।। नसंध्यावन्दनादिकर्मोपशम इति ।। ३ ।।

भावदीपः

कर्मयोगमध्य इति ।। कर्मरूपोपायमध्य इत्यर्थः ।। इत्युक्त्वेति ।। पूर्वार्धेनेति योज्यम् ।। कर्मोपशमः ।। कर्मत्यागः । योगस्थेनापि सा कार्येत्युपेत्य शङ्कते ।। योगस्थेनापीति ।। भगवद्ध्यानादिकं चेति ।। शमपदेनोच्यत इत्यनुषङ्गः ।। पूर्वोक्तेति ।। न निरग्निक इत्याद्युक्तेत्यर्थः ।। ३ ।।

भावप्रकाशः

कर्मयोगमध्ये इति ।। कर्मयोगध्यानयोगयोः मध्ये इत्यर्थः । उत्तमाधममध्यमस्येति । मुक्तियोग्यानां मध्ये अयं विभाग इति द्रष्टव्यम् । क्वचित्तदुत्तमाधमस्येत्येव पाठः । तत्रोपलक्षणतया मध्यमेत्यपि द्रष्टव्यम् ।। करशब्दस्य हस्तादिवाचकत्वप्रतीतिनिरासाह । राजादिकरवदिति । राजादिभ्यो दीमानद्रव्यवदित्यर्थः ।। मूले हरौ स्थितिरिति हरिविषयकध्यानव्याख्यार्चनादिकमित्यर्थः ।। तोषेणापि किं प्रयोजनमित्यत आह ।। ततश्च मुक्ताविति ।। इदानीं विरोधपरिहार प्रकारं दर्शयति ।। अत्र कर्मपदेनेति ।। पाठान्तर, स्पष्टार्थामिति स्फुटार्थामिति ।। उदाहृतव्याख्यानरूपप्रमाणेतु शमपदस्य ध्यानादिना चिन्त्यं स्फुटं न प्रतीयत इति भावः ।। ३ ।।

वाक्यविवेकः

गीतायामारुरुक्षोः मुनेरिति । योगंमोक्षोपायमपरोक्षज्ञानमारुरुक्षोरारोढमिच्छतः अपरोक्षज्ञानार्थिन इति यावत् ।। कर्म नानाजनश्रुश्रूषाख्यं कर्मापरोक्षज्ञानस्य कारणमिति श्रुत्यादौ उच्यते ।। योगारूढस्य प्राप्तापरोक्षज्ञानस्य तस्यैव शमः नानाजनशुश्रूषाख्यकर्मत्यागः भगवध्यानं च आनन्दातिशयस्य कारणमिति श्रुत्यादौ उच्यत इत्यर्थः ।। अत्र ज्ञानार्थिन इति ।। अत्र आरुरुक्षोर्मुनेरिति श्लोके पूर्वार्धेन ज्ञानिनः सन्ध्यावन्दनाद्यखिलं कर्मापेक्षितमित्युक्त्वा उत्तरार्धेन सन्ध्यावन्दनाद्यखिलकर्मत्यागोऽपेक्षित इत्युच्यते ।। न निरग्निर्नचाक्रिय इति पूर्वश्लोके कर्मपरित्यागे सन्यासी योगीच न भवतीत्युक्तया कर्मापेक्षितमित्युक्तम् ।। ततश्च पूर्वोत्तरवाक्ययोर्विरोध इत्यतः नानेत्यादिना प्रवृत्तवचनान्न विरोध इत्येतेनाहेत्यर्थः ।। कथं प्राक्शङ्कितविरोधपरिहार इत्यतः न विरोध इति मूलं व्याचष्टे ।। अत्र कर्मपदेनेति ।। आरुरुक्षोमुनेर्योगमिति गीताश्लोके पूर्वार्धस्थितेन कर्मपदेन नानाजनशुश्रूषैवोच्यते न सन्ध्यावन्दनादिकमुच्यते । अत उत्तरार्धेन शमशब्देन उक्तशुश्रूषालक्षणकर्मणां निषेधः क्रियते । नत्वनुक्तसन्ध्यावन्दनादिनिषेधः क्रियते शमशब्दस्य भगवध्द्यानं चार्थान्तरम् । ततश्च न निरग्निर्नचाक्रिय इत्यनेन विरोधः । तत्रोक्तस्य सन्ध्यावन्दनादेरत्रानिषेधादिति भावः । विष्णुध्यानादिवाचित्त्व इति ।। आदिशब्देन व्याख्यानादिकं ग्राह्यम् । विष्णुध्यानस्यैव विष्णुव्याख्यानादेरपि बुद्धेर्भगवन्निष्ठताविशेषत्वात् शमो मन्निष्ठतेत्यनेन ध्यानादिवाचित्वं सिध्यतीति द्रष्टव्यम् ।। ३ ।।

Load More