गीता

त्यागात् सन्यासस्य विशेषः

गीता

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।

भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ।। १२ ।।

तात्पर्यम्

अन्येषामिष्टम् । अस्य तु त्यागित्वादेव नेष्टम् ।

ज्ञानादेर्मोक्षभोग्याच्च नान्यत् स्यात् कर्मणः फलम् ।।

त्यागिनस्तत्त्वसंवेत्तुरन्येषां तदृते फलम्’ इति च ।

केवलकाम्यकर्मणां फलानपेक्षयाऽप्यकरणमित्येतावांस्त्यागात् संन्यासस्य विशेष इत्यत्यागिनां प्रतियोगित्वेन न्यासिन उक्ताः । त्यागित्वं तेषामपि ह्यस्ति ।

परेच्छयाऽपि ये काम्यं कर्म कुर्युर्नतु क्वचित् ।

न्यासिनो नाम तेऽन्येभ्यः फलत्यागिभ्य उत्तमाः’ इति च ।। १२ ।।

प्रकाशिका

‘‘यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते’’ इत्येदनुसारेण ‘‘अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलमि’’त्यत्रेष्टशब्दं व्याख्याय भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् इत्यस्यार्थमाह ।। अन्येषामित्यादिना ।। १२ ।।

न्यायदीपिका

अनिष्टमिष्टं मिश्रं चेत्यत्र बन्धकं कर्मफलं त्यागिन इष्टमित्यन्यथाप्रतीतिनिरासायाह (ननु पुरुषार्थाभाक्त्वात्संन्यासिनां कथमिष्टस्याप्यभाव इत्यत आह) ।। अन्येषामिति ।। त्यागिन एवेष्टं किं न स्यादित्यत आह ।। अस्येति ।। न त्यागिनो बन्धकं कर्मफलमिष्टम् । त्यागित्वादेव यस्तु कर्मफलत्यागीति कर्मफलेच्छात्यागिन एव त्यागित्वेनोक्तत्वादिति भावः । भवेदेवं यद्यनिष्टमिष्टं मिश्रं चेत्यत्र बन्धककर्मफलं विवक्षितं स्यात् । न चैवमबन्धककर्मफलस्यापि ग्रहणे बाधकाभावादित्यतस्त्यागिनो बन्धककर्मफलस्यैवाभावे अत्यागिनो बन्धककर्मफलभावे प्रमाणमाह ।। ज्ञानादेरिति ।। त्यागिमात्रस्य ज्ञानभक्तयादेः । तस्यैवापरोक्षतस्तत्व संवेत्तुर्मोक्षभोग्यानन्दातिशयात् । तदृते ज्ञानादिकमृते । अनेन भवत्यत्यागिनामित्युक्तार्थं भवति । भवत्यत्यागिनां प्रेत्य न तु त्यागिनामित्यत्यागिनां प्रतियोगित्वेन त्यागिन एव वक्तव्याः । संन्यासिनस्तु किमित्युच्यन्त इत्यत आह ।। केवलेति ।। अत्यागिप्रतियोगितया संन्यासिकथनं नानुपपन्नम् । स्वार्थे फलेच्छाभावेऽपि परोपकारार्थं कारीर्यादिकेवलकाम्यकर्मकरणमस्ति त्यागिनाम् । तदपि न्यासिनां नास्तीत्येतावन्मात्रविशेषवत्त्वात्त्यागिभ्यो विशेषो न्यासिनामित्यर्थः । एतावानेव चेद्विशेषस्तत्किं तयोः साम्यम् । येन त्यागिषु वक्तव्येषु न्यासिनामुक्तिरित्यत आह ।। त्यागित्वमिति ।। कर्मफलेच्छाभावो द्वयोरपि सम इत्यर्थः । त्यागिभ्यो न्यासिनामुक्त एव विशेष इत्येतत्कुत इत्यत आह ।। परेति ।। १२ ।।

किरणावली

फलं त्यागिन इष्टमित्यन्यथाप्रतीतिनिरासायाहान्येषामितीति । पापकर्मफलं दुःखं यथा त्यागवाञ्ज्योतिष्टोमादिफलत्यागिनां चेति । सर्वेषामनिष्टं तथा पुण्यफलं सुखं सर्वेषामिष्टमित्यर्थो वक्तव्यस्तथा च फलत्यागेनापीष्टमित्यन्यथाप्रतीतिरिति भावः । क्वचित्तु ननु पुरुषार्थभाक्त्वात्संन्यासिनां कथमिष्टफलस्याप्यभाव इत्यत आह । अन्येषामितीति पाठः ।। त्यागिन एवेष्टमिति ।। त्यागिनोऽपीष्टमेव किं न स्यादित्यर्थः । त्यागिनोऽपीष्टं किं नस्यादित्यत आह ।। यस्त्विति ।। फलेच्छात्यागिनस्तत्फलमिष्टमित्युक्ते व्याहतिरिच्छाविषयस्यैवेष्टत्वादिति भावः ।। बन्धककर्मफलस्यैवाभाव इति ।। एवकारेणाबन्धककर्मफलभावे चेति लभ्यते । ननु तत्वसंवेत्तुरित्यस्य किं परोक्षज्ञानिन इत्यर्थः । उतापरोक्षज्ञानिन इति । नाद्यः । तस्य मोक्षभोग्यानन्दातिशयाभावात् । नद्वितीयस्तस्य लब्धापरोक्षत्वादेव तत्कृताबन्धककर्मणा ज्ञानाद्यधमफलासम्भवादित्यतो वाक्यं विभज्य योजयति ।। त्यागिमात्रस्य ज्ञानभक्तयादेरिति ।। अपरोक्षज्ञानरहितस्य त्यागिनो ज्ञानभक्तयादेरन्यत्कर्मणः फलं न स्यात् । तस्यैवापरोक्षतस्तत्वसंवेत्तुर्मोक्षभोग्यानन्दातिशयादृतेऽन्यत्फलं न स्यादित्यर्थ इति भावः ।। तदृते ज्ञानादिकमृत इति ।। अबन्धककर्मफलं ज्ञानादिकमृते बन्धकफलं स्यादित्यर्थ इति भावः ।। अनेनेति ।। ज्ञानादेरित्यनेन भवत्यत्यागिनां प्रेत्य नतु संन्यासिनामित्येतदुक्ततात्पर्यं भवतीत्यर्थः ।। परोपकारार्थमिति ।। वृष्ट्या लोकोपकारार्थं कारीर्यादिनियतकाम्यकारणमित्यर्थः ।। एतावानेव चेदिति ।। एतावानेव चेद्विशेषो नातोऽधिकस्तर्ही ममंशं परित्यज्य किं तयोः साम्यमित्यर्थः । मूले परेच्छया परोपकारेच्छया । अन्येभ्यःपरोपकारार्थं नियतकाम्यकारिभ्य इत्यर्थः ।। १२ ।।

भावदीपः

त्यागित्वादेवेति ।। कर्मफलस्येत्यनुषङ्गः ।। तदपीति ।। परार्थकाम्यकर्मस्वरूपत्यागिनमित्यर्थः । तथा च सन्यासिनामित्युक्त्या त्यागिनामित्येवोक्तं भवतीति भावः ।। १२ ।।

भावप्रकाशः

त्यागित्वेऽपीष्टं किं न स्यादित्यत आह ।। यस्तु कर्मफलत्यागीति । इच्छात्यागिनस्तदिष्टमिति तु व्याहतमिति भावः । त्यागिमात्रस्येति ।। अपरोक्षज्ञानरहितत्यागिन इत्यर्थः ।। अत एवाह । अपरोक्षतस्तत्व संवेत्तुरिति ।। केवलकर्मकरणमिति ।। नियतकाम्यकर्मकरणमित्यर्थः ।। १२ ।।

वाक्यविवेक

यावदितीति । प्रतीकधारणानन्तरं वाक्ये भिद्येते तथाहि । ननु पुरुषार्थभाक्त्वात्संन्यासिनां कथमिष्टफलस्याप्यभाव इत्यत आह । अन्येषामिति । इत्येकटीकागतः पाठः । अर्थः सुगमः । अनिष्टमिष्टं मिश्रं चेत्यत्र बन्धकं कर्मफलं त्यागिन इष्टमित्यन्यथाप्रतीतिनिरासायाह । अन्येषामितीति । टीकान्तरस्थः पाठः अस्याप्यर्थः सुगमः ।। एतावानेव चेद्विशेष इति । त्यागिनां न्यासिनां च एतावानेव विशेषश्चेत् किं तयोः मौक्तानन्दादौ साम्यं येन त्यागिनां स्थाने न्यासिनामुक्तिः स्यादित्यत आहेत्यर्थः ।। १२ ।।