गीता
गीता
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ।। ३१ ।।
तात्पर्यम्
‘एकविष्ण्वाश्रयाणां तु जीवानां भेदमेव यः ।
ततः परस्परं चैव तारतम्येन पश्यति ।
विष्णोरेव च विस्तारं जगतः स विमुच्यते’ इति च ।। ३१ ।।
प्रकाशिका
‘‘यदा भूतपृथग्भावमेकस्यमनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ।।’’
इत्यस्यार्थमाह ।। एकेत्यादिना ।। ३१ ।।
न्यायदीपिका
न केवलं भगवतः सर्वप्रेरकत्वादिज्ञानमात्रेणालम् । किं तु तस्य सर्वाधारत्वाद्यपि ज्ञातव्यमित्युच्यते ।। यदेति ।। तत् तिरोहितार्थत्वात्प्रमाणवाक्येनैव व्याचष्टे ।। एकेति ।। भूतपृथग्भावस्य परमात्मस्थत्वोक्तया पृथग्भूतानां तत्स्थत्वमभिप्रेतम् । तदेवात्रोक्तम् ।। ३१ ।।
किरणावली
प्रमाणस्य गीतासमानार्थत्वसिद्ध्यर्थं गीताविवक्षितमर्थमाह ।। भूतपृथग्भावस्येति ।। अन्यप्रतियोगिकभूतभेदस्य भूतनिष्ठत्वेन परमात्मनिष्ठत्वायोगात्तद्वतां तन्निष्ठत्वमभिप्रेतमिति भावः । ततश्चायं मूलार्थः । स्वगतभेदरहितविष्ण्वाश्रयाणां जीवानान्ततो विष्णोः परस्परं च भेदमेव । केवलभेदंतारतम्येनैव पश्यति तुशब्दश्चशब्दार्थे जडानां च ततः परस्परं च केवलभेदं पश्यतीति योज्यम् । रमाया जीवकोटिप्रवेशस्यात्र विवक्षितत्वान्नानुपपत्तिः ।। ३१ ।।
भावदीपः
अलमिति ।। मोक्षादिपुमर्थायेति योज्यम् ।। प्रमाणस्य मूलसमानार्थत्वाय मूलस्याभिप्रेतार्थमाह ।। भूतेति ।। अत्रोक्तमिति ।। प्रमाणवाक्योक्तमित्यर्थः ।। ३१ ।।
भावप्रकाशः
एकविष्ण्वाश्रयाणामित्यस्य गीतावाक्येन विसंवादशङ्कां परिहरति । भूतपृथग्भावस्येति । पृथग्भूतानां भूतानामिति । भिन्नानां प्राणिनामित्यर्थः ।। ३१ ।।
वाक्यविवेक
ननु गीताप्रमाणयोर्भिन्नार्थता । गीतायां भूतपृथग्भावस्यैकस्थत्वोक्तेः प्रमाणेच भिन्ननां भूतानामेकस्थत्वमुच्यते । अतो न व्याख्यानव्याख्येय भावः सम्भवतीत्यत आह भूतपृथग्भावस्येति ।। ३१ ।।
इति श्रीमत्सत्यनिधितीर्थश्रीचरणचरणाराधकश्रीसत्यनाथयतिविरचिते
न्यायदीपिकाव्याख्याने वाक्यविवेके त्रयोदशोऽध्यायः ।।