गीता

गीता

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।। ११ ।।

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ।। १२ ।।

तात्पर्यम्

तथैव भजामि । तदनुसारिफलदानरूपेण । अन्यदेवतायाजिनामपि मत्समर्पणेन वैष्णवमार्गानुवर्तनेनैव सम्यक् फलं भवति ।। १११२ ।।

प्रकाशिका

‘‘येथेत्यादेरर्थमाह ।। तथैवेत्यादिना ।। १११२ ।।

न्यायदीपिका

त्रैविद्यानामपि मोक्षसद्भावात्को विशेषस्त्वामुपाश्रितानामित्यत उच्यते ।। ये यथेति ।। तत्र नमन्तं नमतीत्याद्यन्यथाप्रतीतिनिरासायाह ।। तथैवेति ।। न ज्ञानिनां त्रैविद्यानां च फलसाम्यम् । सेवानुसारेणैव मम फलदत्वात् । सेवायाश्च वैषम्यादिति भावः । त्रैविद्यानामन्ययाजित्वात् कथमुच्यते तां प्रपद्यन्त इतीत्यतो देवता यजन्तो यदि कर्मणां सिद्धिमाकाङ्क्षन्तो भवन्ति तर्हि मम वर्त्मानुवर्तन्त एव । अन्यथा कर्मफलाभावादित्युच्यते ।। ममेति ।। तत्र त्रैविद्या अपि चेद्भगवद्वर्त्मानुवर्तन्ते तर्हि भागवतत्रैविद्यभेदो न स्यादित्यतः श्लोकं व्याचष्टे ।। अन्येति ।। मत्समर्पणेन अन्त इति शेषः । अत्र स्मृतिसंमतिं चाह ।। अन्येति ।। ११,१२ ।।

किरणावली

त्रैविद्यानामपि मोक्षेति ।। अपाम सोमममृता अभूमेति श्रुतेरिति भावः ।। भागवतत्रैविद्येति ।। भागवतत्रैविद्ययोर्भेद इत्यर्थः ।। ११ ।।

भावदीपः

मत्समर्पणेनेत्येतदनुवादपूर्वमन्तपदाध्याहारमाह ।। मत्समर्पणेन अन्त इति शेष इति ।। ११,१२ ।।

भावप्रकाशः

देवतायजन्त इत्यादिना भागवतत्रैविद्यभेद इति । भागवतानां नित्यत्रैविद्यानां च भेदो न स्यादित्यर्थः ।। १११२ ।।