गीता
गीता
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ।। ३० ।।
इति श्रीभगवद्गीतायां सप्तमोऽध्यायः
तात्पर्यम्
‘तद् ब्रह्म’ इत्युक्तेऽन्यत्वाशङ्कां निवारयति साधिभूताधिदैवं मामिति
।। ३० ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये सप्तमोऽध्यायः
प्रकाशिका
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुरित्यत्र विष्णोरन्यत् ब्रह्मोच्यत इत्याशङ्क्य परिहरति ।। तद्ब्रह्मेत्यादिना ।। ३० ।।
इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य प्रकाशिकायां पद्मनाभतीर्थविरचितायां सप्तमोऽध्यायः ।।
न्यायदीपिका
भगवज्ज्ञानेन किं भवतीत्यत उच्यते ।। जरेति ।। तत्र भगवता तद्ब्रह्मेत्युक्तेऽपि न ब्रह्मणो भगवतः सकाशादन्यत्वं शङ्कनीयम् । तदाशङ्कापरिहारायैव साधिभूताधिदैवं ब्रह्मेति वक्तव्ये मामित्युक्तत्वादिति भावेनाह ।। तदिति ।। इत्युक्ते जातामिति शेषः ।। ३० ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां सप्तमोऽध्यायः ।। ७ ।।
किरणावली
साधिभूताधिदैवं ब्रह्मेति वक्तव्य इति ।। ते ब्रह्मतद्विदुरित्यस्यानुवाद समये पुरोवादानुसारेण साधिभूताधिदैवं ब्रह्म ये विदुरित्येव वक्तव्यत्वादिति भावः ।। ३० ।।
इति श्रीविठ्ठलाचार्यतनूजश्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेनरचितायां
श्रीमन्न्यायदीपकिरणावल्यां सप्तमोऽध्यायः ।। ७ ।।